श्रवणम्

6.38.2
दू॒राच्चि॒दा व᳚सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र᳚स्य तन्यति ब्रुवा॒णः ।
एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॒᳚गिन्द्र᳚मि॒यमृ॒च्यमा᳚ना ॥
▶ पदपाठः (Word-by-word)
दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा᳚ । घोषा᳚त् । इन्द्र᳚स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।
आ । इ॒यम् । ए॒न॒म् । दे॒व॑हू᳚तिः । व॒वृ॒त्या॒त् । म॒द्र्य᳚क् । इन्द्र᳚म् । इ॒यम् । ऋ॒च्यमा᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य कर्णा दूराच्चित् दूरदेशादपि आवसतः स्तोत्रश्रवणार्थमागच्छतः इन्द्रस्य घोषात् घोषणीयात्स्तोत्राद्धेतोः ब्रुवाणः स्तुवन् स्तोता तन्यति शब्दंकरोति यद्वा सर्वत्रविस्तारयति देवहूतिः देवस्येन्द्रस्यआह्वानरूपाइयंस्तुतिश्च ऋच्यमानास्वयंप्रेर्यमाणासतीएनमि- न्द्रं मद्भ्यक् मदभिमुर्खं आववृत्यात् आवर्तयतु पुनरियमितिपूरणः ॥ २ ॥