पु॒र उ॒क्थेभि॒ः स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क᳚रति जा॒तवे᳚दाः ॥
पदपाठः (Word-by-word)
पु॒रः । उ॒क्थेभिः᳚ । सः । हि । नः॒ । वि॒भा॑वा᳚ । सु॒॑अ॒ध्व॒रा । क॒र॒ति॒ । जा॒त॑वे᳚दाः ॥
सायणभाष्यम् (Sayana Commentary)
हेऋत्विग्यजमानावोयूयं मन्द्रं मोदनं स्तुत्यंवा दिव्यं दिविभवं सुवृक्तिं सुष्ठु दोषैर्वर्जितं सुखेनावर्जनीयंवा एवंगुणमग्निं प्रयति प्रग- च्छति प्रवर्तमानेध्वरे रक्षःप्रभृतिभिरहिंस्ये हिंसाप्रत्यवायरहितेवास्मिन्यज्ञे पुरोदधिध्वं पुरस्तादाहवनीयरूपेणधारयत यद्वा पुरो- धसंकुरुत उक्थेभिः स्तुतशस्त्रैश्च पुरोदधिध्वं विभावा विशेषेणदीप्यमानः जातवेदाः जातानांवेदितासोग्निः हियस्मात् नोस्मान् स्वध्वरा शोभनयागान् करति करोति तस्मात्पुरोदधिध्वमित्यन्वयः ॥ १ ॥