श्रवणम्

6.10.2
तमु᳚ द्युमः पुर्वणीक होत॒रग्ने᳚ अ॒ग्निभि॒र्मनु᳚ष इधा॒नः ।
स्तोमं॒ यम᳚स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि᳚ म॒तयः᳚ पवन्ते ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । द्यु॒॑मः॒ । पु॒रु॒॑अ॒नी॒क॒ । हो॒तः॒ । अग्ने᳚ । अ॒ग्नि॑भिः᳚ । मनु᳚षः । इ॒धा॒नः ।
स्तोम᳚म् । यम् । अ॒स्मै॒ । म॒मता᳚॑इव । शू॒षम् । घृ॒तम् । न । शुचि᳚ । म॒तयः᳚ । प॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेद्युमः दीप्तिमन् पुर्वणीक बहुज्वाल होतर्देवानामाह्वातरग्ने अग्निभिस्तवावयवभूतैरन्यैरग्निभिःसार्धं इधानः समिध्यमानःदीप्तःसन् मनुषः मनुष्यस्यस्तोतुः तमु तंस्तोमंश्रृण्वितिशेषः उइतिपादपूरणं यंस्तोमंस्तोत्रं शूषं सुखकरं घृतंन पवित्राभ्यामुत्पूतं घृतमिव शुचि शुद्धं अस्माअग्नये मतयोमन्तारःस्तोतारः ममतेव ममतानामब्रह्मवादिनीदीर्घतमसोमाता सेव पवन्ते पुनन्ति संस्कुर्वन्ति दोषवर्जितमु- च्चारयन्तीत्यर्थः तंस्तोममित्यन्वयः ॥ २ ॥