पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु᳚वृ॒क्तिं प्र᳚य॒ति य॒ज्ञे अ॒ग्निम᳚ध्व॒रे द᳚धिध्वम् ।
पु॒र उ॒क्थेभि॒ः स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क᳚रति जा॒तवे᳚दाः ॥
पु॒र उ॒क्थेभि॒ः स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क᳚रति जा॒तवे᳚दाः ॥
पदपाठः (Word-by-word)
पु॒रः । वः॒ । म॒न्द्रम् । दि॒व्यम् । सु॒॑वृ॒क्तिम् । प्र॒॑य॒ति । य॒ज्ञे । अ॒ग्निम् । अ॒ध्व॒रे । द॒धि॒ध्व॒म् ।
पु॒रः । उ॒क्थेभिः᳚ । सः । हि । नः॒ । वि॒भा॑वा᳚ । सु॒॑अ॒ध्व॒रा । क॒र॒ति॒ । जा॒त॑वे᳚दाः ॥
पु॒रः । उ॒क्थेभिः᳚ । सः । हि । नः॒ । वि॒भा॑वा᳚ । सु॒॑अ॒ध्व॒रा । क॒र॒ति॒ । जा॒त॑वे᳚दाः ॥
सायणभाष्यम् (Sayana Commentary)
हेऋत्विग्यजमानावोयूयं मन्द्रं मोदनं स्तुत्यंवा दिव्यं दिविभवं सुवृक्तिं सुष्ठु दोषैर्वर्जितं सुखेनावर्जनीयंवा एवंगुणमग्निं प्रयति प्रग- च्छति प्रवर्तमानेध्वरे रक्षःप्रभृतिभिरहिंस्ये हिंसाप्रत्यवायरहितेवास्मिन्यज्ञे पुरोदधिध्वं पुरस्तादाहवनीयरूपेणधारयत यद्वा पुरो- धसंकुरुत उक्थेभिः स्तुतशस्त्रैश्च पुरोदधिध्वं विभावा विशेषेणदीप्यमानः जातवेदाः जातानांवेदितासोग्निः हियस्मात् नोस्मान् स्वध्वरा शोभनयागान् करति करोति तस्मात्पुरोदधिध्वमित्यन्वयः ॥ १ ॥