पी॒पाय॒ स श्रव᳚सा॒ मर्त्ये᳚षु॒ यो अ॒ग्नये᳚ द॒दाश॒ विप्र᳚ उ॒क्थैः ।
चि॒त्राभि॒स्तमू॒तिभि᳚श्चि॒त्रशो᳚चिर्व्र॒जस्य᳚ सा॒ता गोम᳚तो दधाति ॥
चि॒त्राभि॒स्तमू॒तिभि᳚श्चि॒त्रशो᳚चिर्व्र॒जस्य᳚ सा॒ता गोम᳚तो दधाति ॥
पदपाठः (Word-by-word)
पी॒पाय᳚ । सः । श्रव᳚सा । मर्त्ये᳚षु । यः । अ॒ग्नये᳚ । द॒दाश᳚ । विप्रः᳚ । उ॒क्थैः ।
चि॒त्राभिः᳚ । तम् । ऊ॒ति॑भिः᳚ । चि॒त्र॑शो᳚चिः । व्र॒जस्य᳚ । सा॒ता । गो॑म᳚तः । द॒धा॒ति॒ ॥
चि॒त्राभिः᳚ । तम् । ऊ॒ति॑भिः᳚ । चि॒त्र॑शो᳚चिः । व्र॒जस्य᳚ । सा॒ता । गो॑म᳚तः । द॒धा॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
सयजमानः मर्त्येषुमनुष्येषु श्रवसान्नेन पीपाय वर्धति विप्रोमेधावी योयजमानः उक्थैः स्तुतिभिः सार्धं हवींषि ददाश प्रयच्छति तंयजमानं चित्रशोचिर्विचित्रदीप्तिरग्निः चित्राभिराश्चर्यभूताभिःऊतिभीरक्षाभिर्गोमतोगोभिर्युक्तस्यव्रजस्य गोष्ठस्य साता सातौ संभजने दधाति धारयति ॥ ३ ॥