आ यः प॒प्रौ जाय᳚मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚ ।
अध᳚ ब॒हु चि॒त्तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ॥
अध᳚ ब॒हु चि॒त्तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ॥
पदपाठः (Word-by-word)
आ । यः । प॒प्रौ । जाय᳚मानः । उ॒र्वी इति᳚ । दू॒रे॒॑दृशा᳚ । भा॒सा । कृ॒ष्ण॑अ᳚ध्वा ।
अध᳚ । ब॒हु । चि॒त् । तमः᳚ । ऊर्म्या᳚याः । ति॒रः । शो॒चिषा᳚ । द॒दृ॒शे॒ । पा॒व॒कः ॥
अध᳚ । ब॒हु । चि॒त् । तमः᳚ । ऊर्म्या᳚याः । ति॒रः । शो॒चिषा᳚ । द॒दृ॒शे॒ । पा॒व॒कः ॥
सायणभाष्यम् (Sayana Commentary)
कृष्णाध्वा कृष्णवर्त्मायोग्निः जायमानः प्रादुर्भवन् उर्वीविस्तीर्णे द्यावापृथिव्यौ दूरेदृशा दूरेदृश्यमानया भासा दीप्त्या आपप्रौ आपू- रयति सपावकोग्निरधानन्तरं ऊर्म्यायाः रात्रिनामैतत् रात्रेःसंबन्धि बहुचित् बह्वपितमः अन्धकारं शोचिषा दीप्त्या तिरस्कुर्वन् ददृशे दृश्यते ॥ ४ ॥