स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्दे॒वेषु᳚ धा॒रय᳚था असु॒र्य᳚म् ॥
पदपाठः (Word-by-word)
स॒त्रा । वाजा᳚नाम् । अ॒भ॒वः॒ । वि॒॑भ॒क्ता । यत् । दे॒वेषु᳚ । धा॒रय᳚थाः । अ॒सु॒र्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तव त्वदीयामदासःसोमपनजनिताःमदाःसत्रा सत्यनामैतत् सत्यं विश्वजन्याः सर्वजनहिताभवन्ति यद्वा सत्रेतिमहन्नाम महा- न्तस्तवमदाइतियोज्यं अधापिच पार्थिवासः पृथिव्युपलक्षितेलोकत्रयेभवाः त्वदीयायेरायोधनसमूहाःसन्ति सत्रा तेसत्यं विश्वजनहिता- भवन्तीत्यन्वयः किंच त्वं वाजानामन्नानां सत्रासत्यं विभक्ता दाता अभवोभवसि यद्वा सत्रा महतांवाजानामितियोज्यं यत् यस्मात् त्वं देवेषुमध्येअसुर्यंबलं धारयथाः अतःकारणात् त्वमेवंकरोषीत्यर्थः ॥ १ ॥