विश्वा॒ हि मा॒या अव᳚सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर᳚स्तु ॥
पदपाठः (Word-by-word)
विश्वाः᳚ । हि । मा॒याः । अव᳚सि । स्व॒धा॒॑वः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेपूषन् तेतवशुक्रंशुक्लवर्णंअन्यदेकमहर्भवतिवासरात्मकं तथातेतवसंबन्धियजतं यजिरत्रसंगतिकरणेवर्तते यजनीयं प्रकाशेनसंगमनी- यं स्वतः कृष्णवर्णं अन्यदेकमहर्भवतिरात्र्याख्यं इत्थंविषुरूपे शुक्लकृष्णतयानानारूपे अहनीतवमहिम्नानिष्पद्येते यद्वाहेपूषन् त्वदी- यमन्यदेकं रूपंशुक्लंनिर्मलंदिवसस्योत्पादकं त्वदीयमन्यदेकंरूपंयजतं केवलंयजनीयंनप्रकाशकं रात्रेरुत्पादकं अतएवविषुरूपे विषमरूपे- अहनीअहश्चरात्रिश्चभवतः अहोरात्रयोः निर्माणेसूर्यएवकर्ता कथमस्यप्रसक्तिरितितत्राह—द्यौरिवासि यथाद्यौरादित्यःप्रकाशयितातथा- त्वंप्रकाशकोसि कुतइत्यतआह—हेस्वधावोन्नवन् पूषन् विश्वाः सर्वाः मायाः प्रज्ञाः हियस्मात् कारणात् अवसिरक्षसि अतः कारणात् त्वं- सूर्यइवभवसीत्यर्थः तादृशस्यतेतवभद्राकल्याणीरातिर्दानंइहास्मासुअस्तुभवतु यास्कस्त्वाह—शुक्रंतेअन्यल्लोहितंतेअन्यद्यज्ञियंतेअन्य- दयज्ञियंते अन्यदितिवाविषमरूपेअहनीकर्मणाद्यौरिवचासिसर्वाणिचप्रज्ञानान्यवस्यन्नवन्निति ॥ १ ॥