श्रवणम्

6.58.4
पू॒षा सु॒बन्धु᳚र्दि॒व आ पृ᳚थि॒व्या इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव᳚र्चाः ।
यं दे॒वासो॒ अद᳚दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म् ॥
▶ पदपाठः (Word-by-word)
पू॒षा । सु॒॑बन्धुः᳚ । दि॒वः । आ । पृ॒थि॒व्याः । इ॒ळः । पतिः᳚ । म॒घ॑वा᳚ । द॒स्म॑व᳚र्चाः ।
यम् । दे॒वासः᳚ । अद᳚दुः । सू॒र्यायै᳚ । कामे᳚न । कृ॒तम् । त॒वस᳚म् । सु॒॑अञ्च᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषापोषकोदेवः दिवआ द्युलोकस्यचपृथिव्याश्चसुबन्धुः शोभनोबन्धुर्भवति तथाइळस्पतिः इळायाअन्नस्यपतिः मघवा मघमितिधन- नामतद्वान् यद्वा मंहतेर्दानकर्मणोभावसाधनोमघशद्बः दानवान् दस्मवर्चाः वर्चइतिरूपनाम दस्मंदर्शनीयं वर्चोयस्यतादृशः यंपूषणंदेवा- सः सर्वेदेवाः सूर्यायैसूर्यस्यपत्न्यै यद्बासावित्र्यैसूर्याख्यायै अश्विनोर्वरणायअददुः दत्तवन्तः पुत्रः पितराववृणी तपूषेतिहिश्रूयते—कीदृशं- पूषणं कामेनपश्वादिविषयेणकृतं स्तोतृभिर्वशीकृतं तवसंबलवन्तंप्रवृद्धं वास्वंचंस्वंचनंसुष्ठुगच्छन्तं एवंविधंयंपूषणंददुः सपूषासुबन्धु- रित्यन्वयः ॥ ४ ॥

प्रनुवोचेतिदशर्चंदशमंसूक्तंभरद्वाजस्यार्षं इन्द्राग्निदेवताकं सप्तम्याद्याश्चतस्त्रोनुष्टुभः शिष्टाः षट्बृहत्यः तथाचानुक्रान्तं—प्रनुदशैन्द्रा- ग्नंतुबार्हतंचतुरनुष्टुबन्तमिति । गतोविनियोगः ।