श्रवणम्

6.58.2
अ॒जाश्व᳚ः पशु॒पा वाज᳚पस्त्यो धियंजि॒न्वो भुव᳚ने॒ विश्वे॒ अर्पि᳚तः ।
अष्ट्रां᳚ पू॒षा शि᳚थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒ भुव᳚ना दे॒व ई᳚यते ॥
▶ पदपाठः (Word-by-word)
अ॒ज॑अ᳚श्वः । प॒शु॒॑पाः । वाज᳚॑पस्त्यः । धि॒य॒म्॑जि॒न्वः । भुव᳚ने । विश्वे᳚ । अर्पि᳚तः ।
अष्ट्रा᳚म् । पू॒षा । शि॒थि॒राम् । उ॒त्॑वरी᳚वृजत् । स॒म्॑चक्षा᳚णः । भुव᳚ना । दे॒वः । ई॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजाश्वः छागवाहनः पशुपाः पशूनांपालयिता वाजपस्त्यः वाजाअन्नानिपस्त्येगृहेयस्य तादृशः धियंजिन्वः धियः स्तोतारः कर्माणि- वातेषांप्रीणयिता विश्वेविश्वस्मिन् सर्वस्मिन्भुवने लोकेअर्पितः प्रजापतिनापोषकत्वेनस्थापितः अतएवंभूतः पूषापोषकोदेवः अष्टांआरां- स्वहस्तगतांशिथिरांशिथिलांसतींउद्वरीवृजत् उद्यच्छन् भुवनाभुवनानि सर्वान् लोकान् भूतजातानिवासंचक्षाणः संपश्यन् सूर्यात्मना- प्रकाशयन् ईयते नभसिगच्छति ॥ २ ॥ पौष्णस्यपशोर्वपापुरोडाशयोर्यास्तेपूषन्नित्यादिकेद्वेऋचावनुवाक्ये सूत्रितंच—यास्तेपूषन्नावोअन्तःसमुद्रइतिद्वेपूषेमाआशाअनुवेदस- र्वाइति ।