षष्ठं मण्डलम् - सूक्तम् 3

8 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 6.3 - सम्पूर्णम्

1 / 8
ऋक्: 6.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
6.3.1 समानपद
अग्ने॒ स क्षे᳚षदृत॒पा ऋ᳚ते॒जा उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ ।
यं त्वं मि॒त्रेण॒ वरु᳚णः स॒जोषा॒ देव॒ पासि॒ त्यज᳚सा॒ मर्त॒मंहः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । सः । क्षे॒ष॒त् । ऋ॒त॒॑पाः । ऋ॒ते॒॑जाः । उ॒रु । ज्योतिः᳚ । न॒श॒ते॒ । दे॒व॒॑युः । ते॒ ।
यम् । त्वम् । मि॒त्रेण᳚ । वरु᳚णः । स॒॑जोषाः᳚ । देव᳚ । पासि᳚ । त्यज᳚सा । मर्त᳚म् । अंहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सयजमानः क्षेषत् क्षयति निवसति चिरकालंजीवेदित्यर्थः कीदृशोयजमानः ऋतपाः ऋतस्ययज्ञस्य पालकः ऋतेजाः यज्ञनि- मित्तंजातः उषित्वाच तेत्वदियं देवयुर्देवानात्मनइच्छन् सयजमानः उरुविस्तीर्णं ज्योतिःसूर्याख्यं नशते प्राप्नोति हेदेव द्योतमानाग्ने यं मर्तं मनुष्यंयजमानं मित्रेण वरुणः तृतीयार्थेप्रथमा वरुणेनच सजोषाः सहप्रीयमाणस्त्वं त्यजसा त्याजनसाधनेनायुधेनांहःअंहसःपापात् पासि रक्षसि सयजमानइतिपर्वत्रसंबन्धः ॥ १ ॥

6.3.2
ई॒जे य॒ज्ञेभि᳚ः शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश ।
ए॒वा च॒न तं य॒शसा॒मजु᳚ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ᳚प्तिः ॥
▶ पदपाठः (Word-by-word)
ई॒जे । य॒ज्ञेभिः᳚ । श॒श॒मे । शमी᳚भिः । ऋ॒धत्॑वा᳚राय । अ॒ग्नये᳚ । द॒दा॒श॒ ।
ए॒व । च॒न । तम् । य॒शसा᳚म् । अजु᳚ष्टिः । न । अंहः᳚ । मर्त᳚म् । न॒श॒ते॒ । न । प्र॑दृ᳚प्तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः ऋधद्वाराय ऋधत् समृद्धं वारं वरणीयं धनं यस्य तादृशायाग्नये ददृशे हवींषिददाति सयजमानः यज्ञेभिः सर्वैर्यज्ञैः ईजे इष्टवान् भवति तथाशमीभिः कर्मभिः कृछ्रचान्द्रायणादिभिः शशमे शान्तश्चभवति आग्नेयेनयोगेनसर्वफलंलभतइत्यर्थः अपिच तंयज- मानं यशसां यशस्विनां पुत्राणां अजुष्टिरप्राप्तिर्नैव नशते नैव्प्राप्नोति पुत्रवान्भवत्येवेत्यर्थः तथा मर्तं मनुष्यंतं अंहः पापं न नशते तथा प्रदृप्तिः अनर्थहेतुः प्रदर्पश्च तंनप्राप्नोति ॥ २ ॥

6.3.3
सूरो॒ न यस्य᳚ दृश॒तिर᳚रे॒पा भी॒मा यदेति᳚ शुच॒तस्त॒ आ धीः ।
हेष᳚स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद्र॒ण्वो व᳚स॒तिर्व᳚ने॒जाः ॥
▶ पदपाठः (Word-by-word)
सूरः᳚ । न । यस्य᳚ । दृ॒श॒तिः । अ॒रे॒पाः । भी॒मा । यत् । एति᳚ । शु॒च॒तः । ते॒ । आ । धीः ।
हेष᳚स्वतः । शु॒रुधः᳚ । न । अ॒यम् । अ॒क्तोः । कुत्र᳚ । चि॒त् । र॒ण्वः । व॒स॒तिः । व॒ने॒॑जाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरोन सूर्यस्येवयस्याग्नेः दृशतिः दर्शनं अरेपाः पापरहितं हेअग्ने यत् यस्य ते तव शुचतोज्वलतः धीः धारयित्रीज्वाला भीमा भयङ्क- रासती आसमन्तादेति गच्छति योयमग्निः हेषस्वतः शब्दयुक्ताः शुरुधोन शुचः शोकस्यरोधयित्रीगाश्च अक्तोः अक्तुरितिरात्रिनाम तेनच तत्रसञ्चारीराक्षसादिर्लक्ष्यते राक्षसादेःस्वभूताददातीतिशेषः सोयंवसतिः सर्वेषामावासभूतः वनेजाः अरण्येजायमानः कुत्राचित् क्वचिदे- वस्थाने पर्वताग्रादौ रण्वो रमणीयोभवति ॥ ३ ॥

6.3.4
ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚ अस्य॒ भस॒दश्वो॒ न य᳚मसा॒न आ॒सा ।
वि॒जेह᳚मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष᳚त् ॥
▶ पदपाठः (Word-by-word)
ति॒ग्मम् । चि॒त् । एम᳚ । महि᳚ । वर्पः᳚ । अ॒स्य॒ । भस᳚त् । अश्वः᳚ । न । य॒म॒सा॒नः । आ॒सा ।
वि॒॑जेह᳚मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु᳚ । धक्ष᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेः एम गमनभूतोमार्गः तिग्मं तीक्ष्णं स्प्रष्टुमशक्यत्वात् अस्यचवर्पोरूपं महि महत् प्रभूतं भसत् दीप्यते भसभर्त्सनदीप्त्योरिति- धातुः कीदृशोग्निः अश्वोन अश्वइव आसा आस्येन यमसानः तृणादिकंनियच्छन् तथापरशुर्न यथापरशुःस्वकीयांधारांकाष्ठेप्रक्षिपति तथा- स्वकीयांजिह्वांज्वालांविजेहमानःतरुगुल्मादौप्रक्षिपन् तथा दारु काष्ठं धक्षत् दहन् द्रविर्न द्रविर्द्रावयिता स्वर्णकारः सयथा स्वर्णादिकं- द्रावयति तथा सर्वंवनंद्रावयति मूर्तभूतंसर्वंभस्मसात्करोतीत्यर्थः ॥ ४ ॥

6.3.5
स इदस्ते᳚व॒ प्रति᳚ धादसि॒ष्यञ्छिशी᳚त॒ तेजो॑य᳚सो॒ न धारा᳚म् ।
चि॒त्रध्र᳚जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म᳚जंहाः ॥
▶ पदपाठः (Word-by-word)
सः । इत् । अस्ता᳚॑इव । प्रति᳚ । धा॒त् । अ॒सि॒ष्यन् । शिशी᳚त । तेजः᳚ । अय᳚सः । न । धारा᳚म् ।
चि॒त्र॑ध्र᳚जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒॑सद्वा᳚ । र॒घु॒पत्म᳚॑जंहाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइत् सखल्वग्निः अस्तेव बाणादेःक्षेप्तेव प्रतिधात् स्व्कीयज्वालांप्रतिधत्ते यथाधन्वी लक्ष्याभिमुख्येनबाणंसन्धत्ते तथा ज्वालांसन्धत्त- इत्यर्थः प्रतिधायच असिष्यन् ज्वालांप्रक्षेप्स्यन् तेजःस्वकीयं शिशीत निश्यति तीक्ष्णीकरोति अत्रदृष्टांतः अयसोनधारां यथा अयोमय- स्यपरश्वादेर्धारां प्रक्षेप्तुकामस्तीक्ष्णीकरोतितद्वत् तीक्ष्णीकृत्यच चित्रध्रजतिः विचित्रगतिः अक्तोरात्रेः अरतिरभिगन्ता वेर्न पक्षीव द्रुषद्वा वृक्षेषुसीद्न् रघुपत्मजंहाः लघुपतनसमर्थपादः एवंभूतःसन् योग्निर्वर्तते सइतिपूर्वत्रान्वयः ॥ ५ ॥

6.3.6
स ईं᳚ रे॒भो न प्रति᳚ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम᳚हाः ।
नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम᳚र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । रे॒भः । न । प्रति᳚ । व॒स्ते॒ । उ॒स्राः । शो॒चिषा᳚ । र॒र॒पी॒ति॒ । मि॒त्र॑म᳚हाः ।
नक्त᳚म् । यः । ई॒म् । अ॒रु॒षः । यः । दिवा᳚ । नॄन् । अम᳚र्त्यः । अ॒रु॒षः । यः । दिवा᳚ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सईं सोयमग्निः रेभोन स्तुत्यः सूर्यइव उस्राः दीप्ताः ज्वालाः प्रतिवस्ते आच्छादयति तथा मित्रमहाः सर्वेषामनुकूलप्रकाशःसन् शोचि- षा तेजसा रारपीति भृशंशब्दंकरोति यईमयग्निः नक्तं रात्रौ अरुषः आरोचमानःसन् दिवा अहनीव नॄन् मनुष्यान् स्वस्वकार्येप्रेरयति पुनर्यच्छब्दःपूरकः तथाऽमर्त्योऽमरणधर्मा अरुषआरोचमानोरोषरहितोवा योऽग्निः दिवा द्योतमानेनतेजसा नॄन्नेतॄन् आत्मीयान्त्रश्मीन् प्रेरयति सइतिपूर्वत्रसंबन्धः यद्वा नक्तं रात्रौ योयमग्निररुषः आरोचमानः यश्चमरणरहितोग्निः सः दिवा अह्नि नॄन्नेतॄन् देवान् हविर्भिः संयोजयति योदिवान् नितिपनरुक्तिरादरार्था ॥ ६ ॥

6.3.7
दि॒वो न यस्य᳚ विध॒तो नवी᳚नो॒द्वृषा᳚ रु॒क्ष ओष᳚धीषु नूनोत् ।
घृणा॒ न यो ध्रज᳚सा॒ पत्म᳚ना॒ यन्ना रोद᳚सी॒ वसु᳚ना॒ दं सु॒पत्नी᳚ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । न । यस्य᳚ । वि॒ध॒तः । नवी᳚नोत् । वृषा᳚ । रु॒क्षः । ओष᳚धीषु । नू॒नो॒त् ।
घृणा᳚ । न । यः । ध्रज᳚सा । पत्म᳚ना । यन् । आ । रोद᳚सी॒ इति᳚ । वसु᳚ना । दम् । सु॒पत्नी॒ इति᳚ सु॒॑पत्नी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोन दीप्तस्यसूर्यस्येव विधतोविधातुः रश्मीकुर्वतोयस्याग्नेर्नवीनोत् भृशंशब्दोभूत् एतदेवव्याचष्टे वृषा कामानांवर्षिता रुक्षः दीप्तः सोग्निरोषधीषु दह्यमानासु नूनोत् भृशंशब्दमकरोत् यश्चघृणान सञ्चलनशीलेनदीप्तेनेव ध्रजसा गमनशीलेनतेजसा पत्मना इतस्ततउत्प- तता यन् गच्छन् वर्तते सोग्निः दं अस्मच्छत्रून्दमयन् सुपत्नी शोभनपतिके रोदसी द्यावापृ थिव्यौवसुना धनेन आपूरयति ॥ ७ ॥

6.3.8 समानपद
धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द᳚विद्यो॒त्स्वेभि॒ः शुष्मै᳚ः ।
शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष᳚ ऋ॒भुर्न त्वे॒षो र᳚भसा॒नो अ᳚द्यौत् ॥
▶ पदपाठः (Word-by-word)
धायः᳚॑भिः । वा॒ । यः । युज्ये᳚भिः । अ॒र्कैः । वि॒॑द्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः᳚ । शुष्मैः᳚ ।
शर्धः᳚ । वा॒ । यः । म॒रुता᳚म् । त॒तक्ष᳚ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः धायोभिर्वा धारकैरश्वैरिव युज्येभिः युज्यैः स्वयमेवयुज्यमानैरर्कैरर्चनीयैर्दीप्तिभिर्गच्छति सोग्निः विद्युन्न विद्युदिव स्वेभिः स्वकीयैः शुष्मैः शोषकैस्तेजोभिर्दविद्योत् विद्योतते यश्च मरुतां एतत्संज्ञकानांदेवानां शर्द्धोवा बलमिव ततक्ष तनूकरोति सर्वंतीक्ष्णी- करोतिशोषयतीतियावत् सोयं ऋभुर्न उरुभासमानः सूर्यइवत्वेषोदीप्तः रभसानोवेगंकुर्वन् अद्यौत् विद्योतते प्रकाशते ॥ ८ ॥

यथाहोतरित्यष्टर्चंचतुर्थंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं यथाहोतरित्यनुक्रान्तं-प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।