श्रवणम्

6.3.2
ई॒जे य॒ज्ञेभि᳚ः शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश ।
ए॒वा च॒न तं य॒शसा॒मजु᳚ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ᳚प्तिः ॥
▶ पदपाठः (Word-by-word)
ई॒जे । य॒ज्ञेभिः᳚ । श॒श॒मे । शमी᳚भिः । ऋ॒धत्॑वा᳚राय । अ॒ग्नये᳚ । द॒दा॒श॒ ।
ए॒व । च॒न । तम् । य॒शसा᳚म् । अजु᳚ष्टिः । न । अंहः᳚ । मर्त᳚म् । न॒श॒ते॒ । न । प्र॑दृ᳚प्तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः ऋधद्वाराय ऋधत् समृद्धं वारं वरणीयं धनं यस्य तादृशायाग्नये ददृशे हवींषिददाति सयजमानः यज्ञेभिः सर्वैर्यज्ञैः ईजे इष्टवान् भवति तथाशमीभिः कर्मभिः कृछ्रचान्द्रायणादिभिः शशमे शान्तश्चभवति आग्नेयेनयोगेनसर्वफलंलभतइत्यर्थः अपिच तंयज- मानं यशसां यशस्विनां पुत्राणां अजुष्टिरप्राप्तिर्नैव नशते नैव्प्राप्नोति पुत्रवान्भवत्येवेत्यर्थः तथा मर्तं मनुष्यंतं अंहः पापं न नशते तथा प्रदृप्तिः अनर्थहेतुः प्रदर्पश्च तंनप्राप्नोति ॥ २ ॥