वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत᳚मानि॒ वचां᳚स्या॒सा स्थवि᳚राय तक्षम् ॥
पदपाठः (Word-by-word)
वि॒॑र॒प्शिने᳚ । व॒ज्रिणे᳚ । शम्॑त᳚मानि । वचां᳚सि । आ॒सा । स्थवि᳚राय । त॒क्ष॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अपूर्व्या अपूर्व्याणि पूर्वैरकृतानि नूतनानि पुरुतमानि बहुतमानि शंतमानि सुखकृत्तमानि वचांसि स्तुतिरुपाणिवाक्यानि आसा आस्येन अस्मै इन्द्राय तक्षमतक्षंकरोमि कीदृशाय महे महते वीराय विविधरशत्रूणांमारयित्रे तवसे तवस्विनेबलवते तुराय त्वरमाणाय दिरप्शिने विशेषेणस्तुत्याय वज्रिणे वज्रवते स्थविराय प्रवृद्धाय ॥ १ ॥