स सर्गे᳚ण॒ शव᳚सा त॒क्तो अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु᳚रा॒षाट् ।
इ॒त्था सृ᳚जा॒ना अन᳚पावृ॒दर्थं᳚ दि॒वेदि᳚वे विविषुरप्रमृ॒ष्यम् ॥
इ॒त्था सृ᳚जा॒ना अन᳚पावृ॒दर्थं᳚ दि॒वेदि᳚वे विविषुरप्रमृ॒ष्यम् ॥
पदपाठः (Word-by-word)
सः । सर्गे᳚ण । शव᳚सा । त॒क्तः । अत्यैः᳚ । अ॒पः । इन्द्रः᳚ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।
इ॒त्था । सृ॒जा॒नाः । अन᳚प॑वृत् । अर्थ᳚म् । दि॒वे॑दि᳚वे । वि॒वि॒षुः॒ । अ॒प्र॒॑मृ॒ष्यम् ॥
इ॒त्था । सृ॒जा॒नाः । अन᳚प॑वृत् । अर्थ᳚म् । दि॒वे॑दि᳚वे । वि॒वि॒षुः॒ । अ॒प्र॒॑मृ॒ष्यम् ॥
सायणभाष्यम् (Sayana Commentary)
तुराषाट् तुराणांहिसकानांसोढाअभिभविता सइन्द्रः सर्गेण सर्गेण सर्वदोद्युक्तेन शवसा बलेन अत्यैरश्वैः सततगामिभिस्तेजोभिर्वा तक्तः संगतःसन् दक्षिणतः दक्षिणतः दक्षिणायने अपउदकानि विसृजतीतिशेषः इत्था इत्थमनेनप्रकारेणसृजानाः सृज्यमानास्ताआपः अर्थं गंतव्यं अप्रमृष्यमन्यैरक्षोभ्यं समुद्रं दिवेदिवे प्रतिदिनं अनपावृत् अपावर्तनंपुनरागमनंयथानभवतितथाविविषुःव्याप्नुवन्ति अर्तेस्थन्- प्रत्ययान्तस्यरूपमर्थमिति ॥ ५ ॥
यओजिष्ठइतिपंचर्चंदशमंसूक्तं शुनहोत्रस्यार्षंत्रैष्टुभमैन्द्रं अनुक्रम्यतेच—यओजिष्ठः शुनहोत्रस्त्विति । महाव्रतेपिनिष्केवल्यउक्तोविनि- योगः ।