श्रवणम्

6.32.4
स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि᳚श्च॒ शुष्मै᳚ः ।
पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि ॥
▶ पदपाठः (Word-by-word)
सः । नी॒व्या᳚भिः । ज॒रि॒तार᳚म् । अच्छ᳚ । म॒हः । वाजे᳚भिः । म॒हत्॑भिः᳚ । च॒ । शुष्मैः᳚ ।
पु॒रु॒॑वीरा᳚भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय᳚ । प्र । या॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषभ कामानांवर्षक हेगिर्वणः गिरास्तुत्यासंभजनीयेन्द्र सत्वं महोमहद्भिः वाजेभिर्वाजैरन्नैः महद्भिःशुष्मैर्बलैश्चसह क्षितीनां प्रजा- नांमध्ये जरितारं स्तोतारं अच्छाभिमुख्येन नीव्याभिः नव्याभिर्नवतराभिः पुरुवीराभिः पुरूणां बहूनांवीरयित्रीभिर्वडवाभिः आप्रयाहि आगच्छ किमर्थं सुविताय शोभनाय सुखप्राप्त्यर्थमित्यर्थः ॥ ४ ॥