षष्ठं मण्डलम् - सूक्तम् 54

10 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: पूषा छन्दः: गायत्री

सूक्तम् 6.54 - सम्पूर्णम्

1 / 10
ऋक्: 6.54.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
6.54.1
सं पू᳚षन्वि॒दुषा᳚ नय॒ यो अञ्ज᳚सानु॒शास᳚ति ।
य ए॒वेदमिति॒ ब्रव᳚त् ॥
▶ पदपाठः (Word-by-word)
सम् । पू॒ष॒न् । वि॒दुषा᳚ । न॒य॒ । यः । अञ्ज᳚सा । अ॒नु॒॑शास᳚ति ।
यः । ए॒व । इ॒दम् । इति᳚ । ब्रव᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् पोषकदेव विदुषाजानतातेनजनेनसन्नय अस्मान्संगमय योविद्वान् अंजसाऋजुमार्गेण अनुशासति अनुशास्ति नष्टद्रव्यप्राप्त्यु- पायमुपदिशति यश्चएवएवंइदंनष्टंभवदीयंधनमितिब्रवत् ब्रवीति नष्टंधनंदर्शयतीत्यर्थः तेनविदुषेत्य वयः ॥ १ ॥

6.54.2
समु᳚ पू॒ष्णा ग᳚मेमहि॒ यो गृ॒हा{4} अ᳚भि॒शास᳚ति ।
इ॒म ए॒वेति᳚ च॒ ब्रव᳚त् ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒॑शास᳚ति ।
इ॒मे । ए॒व । इति᳚ । च॒ । ब्रव᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूष्णानुगृहीतावयंसंगमेमहि तेनजनेनसंगच्छेमहि योजनोगृहान् येषुगृहेष्वस्मदीयानष्टाः पर स्तिष्ठन्ति तान्गृहान् अभिशासति अभिशास्ति आभिमुख्येनबोधयति यश्चइमेत्वदीयानष्टाःपशवः एवएवंतिष्ठन्तीतिचब्रवत् ब्रूयात् ॥ २ ॥

6.54.3
पू॒ष्णश्च॒क्रं न रि᳚ष्यति॒ न कोशो॑व᳚ पद्यते ।
नो अ᳚स्य व्यथते प॒विः ॥
▶ पदपाठः (Word-by-word)
पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः᳚ । अव᳚ । प॒द्य॒ते॒ ।
नो इति᳚ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूष्णः पोषकस्यदेवस्यचक्रंआयुधनंरिष्यति नविनश्यति अस्यचक्रस्यकोशश्चनावपद्यते नहीयते अस्यपविर्धाराचनोनैवव्यथते कुंठीभवति तेनचक्रेणचोरान् हत्वाअस्मदीयंधनंप्रकाशयेतिभावः ॥ ३ ॥

6.54.4
यो अ᳚स्मै ह॒विषावि᳚ध॒न्न तं पू॒षापि᳚ मृष्यते ।
प्र॒थ॒मो वि᳚न्दते॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
यः । अ॒स्मै॒ । ह॒विषा । अवि᳚धत् । न । तम् । पू॒षा । अपि᳚ । मृ॒ष्य॒ते॒ ।
प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानः अस्मैपूष्णेहविषाचरुपुरोडाशादिना अविधत् परिचरति तंयजमानंपूषानापिमृष्यते अपिशब्दईषदर्थे ईषदपिनहिनस्ति सचप्रथमोमुख्यः सन् वसुधनंविन्दते लभते ॥ ४ ॥

6.54.5
पू॒षा गा अन्वे᳚तु नः पू॒षा र᳚क्ष॒त्वर्व᳚तः ।
पू॒षा वाजं᳚ सनोतु नः ॥
▶ पदपाठः (Word-by-word)
पू॒षा । गाः । अनु᳚ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व᳚तः ।
पू॒षा । वाज᳚म् । स॒नो॒तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषापोषकोदेवः नोस्मदीयागाः अन्वेतु रक्षणार्थमनुगच्छतु सचपूषाअर्वतोश्वान् रक्षतु चोरेभ्यःतथावाजमन्नंचनोस्मभ्यंपूषासनोतु प्रयच्छतु ॥ ५ ॥

6.54.6
पूष॒न्ननु॒ प्र गा इ᳚हि॒ यज᳚मानस्य सुन्व॒तः ।
अ॒स्माकं᳚ स्तुव॒तामु॒त ॥
▶ पदपाठः (Word-by-word)
पूष᳚न् । अनु᳚ । प्र । गाः । इ॒हि॒ । यज᳚मानस्य । सु॒न्व॒तः ।
अ॒स्माक᳚म् । स्तु॒व॒ताम् । उ॒त ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् सुन्वतः सोमाभिषवंकुर्वतोयजमानस्यगाः पशून् अनुप्रेहि रक्षणार्थामनुगच्छ उतअपिचस्तुवतांत्वद्विषयंस्तोत्रंकुर्वतामस्माकं- गाश्चानुगच्छ ॥ ६ ॥

6.54.7
माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव᳚टे ।
अथारि᳚ष्टाभि॒रा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
माकिः᳚ । ने॒श॒त् । माकी᳚म् । रि॒ष॒त् । माकी᳚म् । सम् । शा॒रि॒ । केव᳚टे ।
अथ᳚ । अरि᳚ष्टाभिः । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् अस्मदीयंगोधनंमाकिर्नेशत् मानश्यतु माकिर्माकीमित्येतौप्रतिषेधमात्रेवर्तेते माकींरिषत् माव्याघ्रादिभिर्हिंस्यतांमाकींमाच- केवटेकूपेसंशारि संशीर्णंभूत् कूपपातेनापिहिंसितंमाभवतु अथएवंसतिअरिष्टाभिरहिंसिताभिर्गोभिः सहआगहि सायंकालेआगच्छ ॥ ७ ॥

6.54.8
शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन᳚ष्टवेदसम् ।
ईशा᳚नं रा॒य ई᳚महे ॥
▶ पदपाठः (Word-by-word)
शृ॒ण्वन्त᳚म् । पू॒षण᳚म् । व॒यम् । इर्य᳚म् । अन᳚ष्ट॑वेदसम् ।
ईशा᳚नम् । रा॒यः । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मत् स्तोत्राणिश्रृण्वंतं इर्यंदरिद्रस्यप्रेरकं अनष्टवेदसं अविनष्टधनं ईशानंसर्वंस्येश्वरं एवंविधंपूषणंदेवंवयंरायोधनानिईमहे याचामहे ॥ ८ ॥ चातुर्मास्येषुवैश्वदेवेपर्वणिपौष्णस्यहविषःपूषन्तवव्रतइत्येषानुवाक्या सूत्रितंच—वाममद्यस वितर्वाममुश्वःपूषन्तवव्रतेवयमिति ।

6.54.9
पूष॒न्तव᳚ व्र॒ते व॒यं न रि᳚ष्येम॒ कदा᳚ च॒न ।
स्तो॒तार᳚स्त इ॒ह स्म᳚सि ॥
▶ पदपाठः (Word-by-word)
पूष᳚न् । तव᳚ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा᳚ । च॒न ।
स्तो॒तारः᳚ । ते॒ । इ॒ह । स्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपूषन् पोषक तेत्वदीयेव्रतेकर्मणिवर्तमानावयं कदाचनकदाचिदपिनरिष्येम हिंसितान भवेम तादृशाश्चवयंइहास्मिन्कर्मणितेतव- स्तोतारः स्मसिस्मः भवामः ॥ ९ ॥

6.54.10
परि᳚ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि᳚णम् ।
पुन᳚र्नो न॒ष्टमाज᳚तु ॥
▶ पदपाठः (Word-by-word)
परि᳚ । पू॒षा । प॒रस्ता᳚त् । हस्त᳚म् । द॒धा॒तु॒ । दक्षि᳚णम् ।
पुनः᳚ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषापोषकोदेवः परस्तात् परस्मिन्देशे सुसंचारादन्यस्मिन् चोरव्याघ्नादिभिरुषितेदेशे गच्छ तोगोधनस्यनिवारणायस्वकीयंदक्षिणं- हस्तंपरिदधातु परिधानंनिवारकंकरोतु नोस्मदीयंनष्टंच गोधनंपुनराजतु आगच्छतु आगमयतु ॥ १० ॥

एहिवामितिषळृचंषष्ठंसूक्तं भरद्वाजस्यार्षंगायत्रंपौष्णं अनुक्रम्यतेच—एहिवांषडिति । गतोविनियोगः ।