षष्ठं मण्डलम् - सूक्तम् 24

10 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.24 - सम्पूर्णम्

1 / 10
ऋक्: 6.24.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
6.24.1
वृषा॒ मद॒ इन्द्रे॒ श्लोक᳚ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा ऋ᳚जी॒षी ।
अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य᳚ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि᳚तोतिः ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । मदः᳚ । इन्द्रे᳚ । श्लोकः᳚ । उ॒क्था । सचा᳚ । सोमे᳚षु । सु॒त॒॑पाः । ऋ॒जी॒षी ।
अ॒र्च॒त्र्यः᳚ । म॒घ॑वा᳚ । नृ॑भ्यः᳚ । उ॒क्थैः । द्यु॒क्षः । राजा᳚ । गि॒राम् । अक्षि᳚त॑ऊतिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमेषु सोमवत्सुयागेषु इन्द्रे सोमपानजनितोमदः वृष यजमानस्यकामानां वर्षकोभवति यद्वा सर्वजनाह्लादकस्य वर्षणस्य कर्ता भवति उक्था उक्थेनशस्त्रेण सचा सह श्लोकस्तोत्ररूपः शब्दोवृषाभवति सुतपाः अभिषुतस्य सोमस्य पाता ऋजीषी ऋजीषं गतरसमपि सोमं नपरित्यजन् मघवा धनवान् सचेन्द्रोनृभ्यःस्तुतीनांनेतृभ्यः उक्थैः स्तोत्रैः अर्चत्र्योर्चनीयोभवति द्युक्षोद्युलोकनिवासः गिरां स्तुतीनां राजेश्वरइन्द्रः अक्षितोतिरक्षिणरक्षश्चभवति ॥ १ ॥

6.24.2
ततु᳚रिर्वी॒रो नर्यो॒ विचे᳚ता॒ः श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः ।
वसु॒ः शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
ततु᳚रिः । वी॒रः । नर्यः᳚ । वि॑चे᳚ताः । श्रोता᳚ । हव᳚म् । गृ॒ण॒तः । उ॒र्वि॑ऊ᳚तिः ।
वसुः᳚ । शंसः᳚ । न॒राम् । का॒रु॑धा᳚याः । वा॒जी । स्तु॒तः । वि॒दथे᳚ । दा॒ति॒ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी अन्नवानिन्द्रः विदथे यज्ञे अस्माभिःस्तुतःसन् वाजमन्नंदाति अस्मभ्यंददाति कीदृशइन्द्रः ततुरिः शत्रूणांहिंसकः वीरोविक्रान्तः नर्योनरहितः विचेताः विविक्ताज्ञानः हवमस्मदीयंस्तोत्रं श्रोता गृणतः स्तुवतः स्तोतृजनस्य उर्व्यूतिः विस्तृतरक्षः वसुर्वासयिता नरां नॄणां स्तोतृजनानां शंसः शंसनीयः कारुधायाः कारूणांस्तोतॄणांधारयिता एवंभूतइन्द्रोवाजंददातीतिसंबन्धः ॥ २ ॥

6.24.3 समानपद
अक्षो॒ न च॒क्र्यो᳚ः शूर बृ॒हन्प्र ते᳚ म॒ह्ना रि᳚रिचे॒ रोद᳚स्योः ।
वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॒᳚तयो᳚ रुरुहुरिन्द्र पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
अक्षः᳚ । न । च॒क्र्योः᳚ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद᳚स्योः ।
वृ॒क्षस्य᳚ । नु । ते॒ । पु॒रु॒॑हू॒त॒ । व॒याः । वि । ऊ॒तयः᳚ । रु॒रु॒हुः॒ । इ॒न्द्र॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूर विक्रान्तेन्द्र बृहन् महान् तेत्वदीयोमह्ना महिमा रोदस्योर्द्यावापृथिव्योः प्ररिरिचे अतिरिच्यते द्यावापृथिवीभ्यामित्यर्थः अत्र- दृष्टान्तः—चक्र्योःचक्रयोः अक्षोन रथसंबन्धी अक्षोयथाचक्राभ्यांबहिर्गतः तद्वत् हेपुरुहूत बहुभिराहूतेन्द्र त्वदीयाः पूर्वीर्बह्व्यः ऊतयोर- क्षाः विरुरुहुः विशेषेणरोहन्ति तत्रदृष्टान्तः—वृक्षस्यनु यथावृक्षस्य वयाः शाखाः विरोहन्तितद्वत् ॥ ३ ॥

6.24.4
शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः᳚ सं॒चर᳚णीः ।
व॒त्सानां॒ न त॒न्तय᳚स्त इन्द्र॒ दाम᳚न्वन्तो अदा॒मानः᳚ सुदामन् ॥
▶ पदपाठः (Word-by-word)
शची᳚॑वतः । ते॒ । पु॒रु॒॑शा॒क॒ । शाकाः᳚ । गवा᳚म्॑इव । स्रु॒तयः᳚ । स॒म्॑चर᳚णीः ।
व॒त्साना᳚म् । न । त॒न्तयः᳚ । ते॒ । इ॒न्द्र॒ । दाम᳚न्॑वन्तः । अ॒दा॒मानः᳚ । सु॒॑दा॒म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुशाक बहुकर्मन्निन्द्र शचीवतः प्रज्ञावतस्तेत्वदीयाः शाकाः शक्तयःकर्माणिवा सर्वतः संचरन्तीतिशेषः तत्रदृष्टान्तः—गवामिव धे- नूनांस्रुतयोमार्गाः यथा संचरणीः सर्वत्रसंचारिणोभवन्तितद्वत् अपिच वत्सानां न तंतयः तंतिर्नामदीर्घप्रसारितारज्जुः तत्रनियतैर्विशाख- दामभिः बहवोवत्साबध्यन्ते यथा तन्तयोबहुनांवत्सानांबन्धकाः हेसुदामन् शोभनदामेन्द्र तथा तेत्वदीयाः शाकाः दामन्वन्तः बंधनवन्तः बहूनांशत्रूणांबंधकाः अदामानः स्वयमन्यैरबद्धाः ॥ ४ ॥

6.24.5
अ॒न्यद॒द्य कर्व᳚रम॒न्यदु॒ श्वो॑स᳚च्च॒ सन्मुहु᳚राच॒क्रिरिन्द्र᳚ः ।
मि॒त्रो नो॒ अत्र॒ वरु᳚णश्च पू॒षार्यो वश᳚स्य पर्ये॒तास्ति᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒न्यत् । अ॒द्य । कर्व᳚रम् । अ॒न्यत् । ऊं॒ इति᳚ । श्वः । अस᳚त् । च॒ । सत् । मुहुः᳚ । आ॒॑च॒क्रिः । इन्द्रः᳚ ।
मि॒त्रः । नः॒ । अत्र᳚ । वरु᳚णः । च॒ । पू॒षा । अ॒र्यः । वश᳚स्य । प॒रि॒॑ए॒ता । अ॒स्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः अद्यास्मिन् दिवसे अन्यत् कर्वरं कर्मनामैतत् कर्मकरोति अन्यदु अन्यदेव उक्तविलक्षणमेवकर्म श्वः परस्मिन् दिने करोति एतदेव विव्रियते असच्च अशुभमशनिपातनादिकं सत् वर्षणादिकं शोभनंकर्मच यद्वा त्रिशिरसोविश्वरूपस्य वधादिकमसत् कर्मलोपोप- द्रवकारिणोवृत्रादेरसुरस्य वधादिरूपं सत्कर्मच मुहुः पुनःपुनः असाविन्द्रः आचक्रिः कर्ताभवति एवं परस्परविलक्षणंकर्म स्वमहिम्ना पुनः पुनरावर्तयन् प्रतिदिवसमन्यदेव परेषामसाधारणं कर्म करोतीत्यर्थः एवंविधइन्द्रः अत्रास्मिन्यज्ञेनोस्माकं वशस्य कामयितव्यस्यफलस्य स्वर्गादेः पर्येतास्ति परिगमयिताभवतु अस्तेर्लेटिरूपं मित्रोहरभिमानीदेवः वरुणोरात्र्यभिमानी पूषा पोषकोदेवः अर्यः प्रेरकः सविता एतेचेन्द्रेणनियम्यमानाअस्मदीयस्यकामस्य परिगमयितारः सन्तु यद्वा मित्रादयोप्यत्रस्वप्राधान्येन अभिधीयन्ते मित्रादयइन्द्रः प्रत्येकं अस्मदीयस्यकामस्यपर्येतास्तु तथाच बृहद्देवतायामुक्तं प्रोतयेन्यदितित्वेतेवैश्वदेव्यावृचौस्मृतेइति ॥ ५ ॥

6.24.6 समानपद
वि त्वदापो॒ न पर्व᳚तस्य पृ॒ष्ठादु॒क्थेभि᳚रिन्द्रानयन्त य॒ज्ञैः ।
तं त्वा॒भिः सु᳚ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज᳚ग्मुर्गिर्वाहो॒ अश्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
वि । त्वत् । आपः᳚ । न । पर्व᳚तस्य । पृ॒ष्ठात् । उ॒क्थेभिः᳚ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः ।
तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒ति॑भिः᳚ । वा॒जय᳚न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वत् त्वत्सकाशात् उक्थेभिरुक्थैःशस्त्रैः यज्ञैर्हविर्भिश्च स्तोतारः कामान् आत्मनोव्यनयन्त विविधंप्रापयन्ति तत्रदृष्टान्तः-- पर्वतस्याद्रेः पृष्ठादुपरिभागात् आपोन अपः उदकानियथातद्वत् अपिचहेगिर्वाहः गीर्भिःस्तुतिरूपाभिर्वाग्भिः वहनीयेन्द्र त्वा त्वां वाज- यन्तोबलिनंकुर्वन्तः यद्वा वाजमन्नमिच्छन्तः भरद्वाजःस्तोतारःआभिः पूर्वोक्ताभिःसुष्टुतिभिःशोभनाभिः स्तुतिभिः जग्मुः प्रापुः क्षिप्रगम- नेदृष्टान्तः—अश्ववाहाः आजिंन संग्रामंयथाशीघ्रंप्रापुः तद्वत् ॥ ६ ॥

6.24.7
न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र᳚मवक॒र्शय᳚न्ति ।
वृ॒द्धस्य᳚ चिद्वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च᳚ श॒स्यमा᳚ना ॥
▶ पदपाठः (Word-by-word)
न । यम् । जर᳚न्ति । श॒रदः᳚ । न । मासाः᳚ । न । द्यावः᳚ । इन्द्र᳚म् । अ॒व॒॑क॒र्शय᳚न्ति ।
वृ॒द्धस्य᳚ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे᳚भिः । उ॒क्थैः । च॒ । श॒स्यमा᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

शरदः संवत्सराः यमिन्द्रं नजरन्ति नजरयन्ति नापक्षीणयन्ति तथा मासाश्च नापक्षीणयन्ति तथा द्यावोदिवसाश्चयमिन्द्रंनावकर्शय- न्ति नाल्पीभावयन्ति वृद्धस्यचित् प्रवृद्धस्यापि अस्येन्द्रस्य तनूः शरीरं स्तोमेभिरस्मदीयैः स्तोत्रैःउक्थैश्चशस्त्रैश्च शस्यमाना स्तूयमाना सती वर्धतां प्रवृद्धाभवतु ॥ ७ ॥

6.24.8
न वी॒ळवे॒ नम᳚ते॒ न स्थि॒राय॒ न शर्ध᳚ते॒ दस्यु᳚जूताय स्त॒वान् ।
अज्रा॒ इन्द्र᳚स्य गि॒रय᳚श्चिदृ॒ष्वा ग᳚म्भी॒रे चि᳚द्भवति गा॒धम᳚स्मै ॥
▶ पदपाठः (Word-by-word)
न । वी॒ळवे᳚ । नम᳚ते । न । स्थि॒राय᳚ । न । शर्ध᳚ते । दस्यु᳚॑जूताय । स्त॒वान् ।
अज्राः᳚ । इन्द्र᳚स्य । गि॒रयः᳚ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तवान् अस्माभिःस्तूयमानइन्द्रः वीळवे दृढगात्राय यजमानाय ननमते नवशीभवति स्थिराय युद्धेअविचलितायच ननमते शर्धते उत्सहमानाय दस्युजूताय कर्मवर्जितैःप्रेरिताययजमानाय नवशीभवति यद्यपि स्तोतारोबहुगुणाःसन्ति तथापीन्द्रस्तेभ्योदस्युसहितेभ्यो- नवशीभवतीत्यर्थः अपिचऋष्वाः महान्तः गिरयश्चित्पर्वताअपिइन्द्रस्यअज्राः असुगमनाः क्षेपणीयाभवन्ति गंभीरेचिदगाधोपिस्थाने अस्माइन्द्राय गाधमेवस्थानं विषयोभवति ॥ ८ ॥

6.24.9 समानपद
ग॒म्भी॒रेण᳚ न उ॒रुणा᳚मत्रि॒न्प्रेषो य᳚न्धि सुतपाव॒न्वाजा᳚न् ।
स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि᳚षण्यन्न॒क्तोर्व्यु᳚ष्टौ॒ परि᳚तक्म्यायाम् ॥
▶ पदपाठः (Word-by-word)
ग॒म्भी॒रेण᳚ । नः॒ । उ॒रुणा᳚ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒॑पा॒व॒न् । वाजा᳚न् ।
स्थाः । ऊं॒ इति᳚ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि᳚षण्यन् । अ॒क्तोः । वि॑उ᳚ष्टौ । परि᳚॑तक्म्यायाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअमत्रिन् अमत्रं बलं तद्वन् हेसुत्पावन् सुतस्यसोमस्यपातरिन्द्र गंभीरेणकेनापिदुरवगाहेन उरुणा विस्तीर्णेन मनसा नोस्मभ्यं इषो- न्नानि वाजान्बलानिच प्रयन्धि प्रयच्छ किंच अक्तोरात्रेः व्युष्टौ विवासे अह्नि परितक्म्यायां रात्रौ हेइन्द्र त्वं ऊती अस्माकंरक्षायै अरि- षण्यन्नहिंसंस्त्वं ऊर्ध्वौद्युक्तः स्थाः ऊषु सुष्ठुतिष्ठैव ॥ ९ ॥

6.24.10
सच᳚स्व ना॒यमव᳚से अ॒भीक᳚ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः ।
अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि᳚माः सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
सच᳚स्व । ना॒यम् । अव᳚से । अ॒भीके᳚ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः ।
अ॒मा । च॒ । ए॒न॒म् । अर᳚ण्ये । पा॒हि॒ । रि॒षः । मदे᳚म । श॒त॑हि᳚माः । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं नायं कर्मणांस्तुतीनांचनेतारं अभीके संग्रामे अवसेरक्षणाय सचस्व सेवस्व इतोवाअस्मात् सन्निकृष्टाच्चरिषः शत्रोः अमुतो- विप्रकृष्टाच्छत्रोश्च वाशब्दः अनुक्तेनविवक्षितेनसमुच्चयार्थः हेइन्द्र तंस्तोतारं पाहि रक्ष तथा अमाच गृहेच अमेतिगृहनाम अरण्ये काननेच रिषः शत्रोः पाहि तंरक्ष तदनन्तरं सुवीराः शोभनपुत्रावयं शतहिमाः शतसंवत्सारान्मदेम हृष्याम ॥ १० ॥

यातऊतिरितिनवर्चंद्वितीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रांतं—यातेनवेति । पृष्ठ्याभिप्लवषडहयोः द्वितीयेहनिइदंसूक्तं निष्केवल्यनिविद्धानं सूत्रितंच—यातऊतिरवमेतिमध्यंदिनइति ।