षष्ठं मण्डलम् - सूक्तम् 22

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.22 - सम्पूर्णम्

1 / 11
ऋक्: 6.22.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.22.1
य एक॒ इद्धव्य᳚श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य᳚र्च आ॒भिः ।
यः पत्य᳚ते वृष॒भो वृष्ण्या᳚वान्त्स॒त्यः सत्वा᳚ पुरुमा॒यः सह᳚स्वान् ॥
▶ पदपाठः (Word-by-word)
यः । एकः᳚ । इत् । हव्यः᳚ । च॒र्ष॒णी॒नाम् । इन्द्र᳚म् । तम् । गीः॒॑भिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ।
यः । पत्य᳚ते । वृ॒ष॒भः । वृष्ण्य᳚॑वान् । स॒त्यः । सत्वा᳚ । पु॒रु॒॑मा॒यः । सह᳚स्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रश्चर्षणीनां प्रजानां आपत्सु एकइत् एकएव हव्योह्वातव्यः आभिर्गीर्भिः स्तुतिरूपाभिर्वाग्भिः तमिन्द्रं अभ्यर्चे अभिष्टौमि यइन्द्रः पत्यते स्तोतॄनभिगच्छति यद्वा पत्यतेलोकानामीष्टे कीदृशः वृषभः कामानांवर्षिता वृष्ण्यावान् बलवान् सत्यः अविसंवादी सत्वा शात्रूणां सादयिता कामानांदातावा सदेर्वासनोतेर्वेदंरूपं पुरुमायोबहुप्रज्ञः सहस्वानभिभवनवान् तमिन्द्रमभिष्टौमीतिसंबन्धः ॥ १ ॥

6.22.2
तमु᳚ न॒ः पूर्वे᳚ पि॒तरो॒ नव᳚ग्वाः स॒प्त विप्रा᳚सो अ॒भि वा॒जय᳚न्तः ।
न॒क्ष॒द्दा॒भं ततु᳚रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभि॒ः शवि᳚ष्ठम् ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । नव᳚॑ग्वाः । स॒प्त । विप्रा᳚सः । अ॒भि । वा॒जय᳚न्तः ।
न॒क्ष॒त्॑दा॒भम् । ततु᳚रिम् । प॒र्व॒ते॒॑स्थाम् । अद्रो᳚घ॑वाचम् । म॒ति॑भिः᳚ । शवि᳚ष्ठम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वेप्रत्नाः नवग्वाः नवभिर्मासैः सत्रमनुष्ठितवन्तः सप्तसप्तसंख्याकाः विप्रासः विप्रामेधाविनः वाजयन्तः वाजमन्नंहविर्लक्षणमिन्द्रस्य- कुर्वन्तः इन्द्रंवा वाजिनंबलिनंकुर्वन्तः तत्करोतीतिणिच् एवंभूतानोस्माकं पितरोंगिरसः तमु तमेवेन्द्रं मतिभिः स्तुतिभिरभितुष्टुवुरिति- शेषः कीदृशं नक्षद्दाभं नक्षतिर्गतिकर्मा अभिगच्छतां शत्रूणां दंभितारं हिंसितारं ततुरिं तरितारं पर्वतेष्ठां पर्ततेष्ववस्थितं अद्रोघवाचं अद्रोग्धव्याअनतिक्रमणीयावागाज्ञारूपायस्यतं शविष्ठं बलवत्तमं ॥ २ ॥

6.22.3
तमी᳚मह॒ इन्द्र᳚मस्य रा॒यः पु᳚रु॒वीर᳚स्य नृ॒वतः᳚ पुरु॒क्षोः ।
यो अस्कृ᳚धोयुर॒जर॒ः स्व᳚र्वा॒न्तमा भ᳚र हरिवो माद॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म॒हे॒ । इन्द्र᳚म् । अ॒स्य॒ । रा॒यः । पु॒रु॒॑वीर᳚स्य । नृ॒॑वतः᳚ । पु॒रु॒॑क्षोः ।
यः । अस्कृ᳚धोयुः । अ॒जरः᳚ । स्वः᳚॑वान् । तम् । आ । भ॒र॒ । ह॒रि॒॑वः॒ । मा॒द॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुवीरस्य बहुपुत्रपौत्रयुक्तस्य नृवतः परिचारकजनसहितस्य पुरुक्षोर्बह्वन्नस्य बहुपशोर्वा अस्यरायः इदंधनं द्वितीयार्थेषष्ठी तमिन्द्रं ईमहे याचामहे योरयिः अस्कृधोयुः अविच्छिन्नः अजरोजराहानिरहितः स्वर्वान् सुखयुक्तः हेहरिवः हरिवन् स्वकीयाश्वोपेतेन्द्र त्वं तं रयिं मादयध्यै अस्मान्मादयितुं आभराहर ॥ ३ ॥

6.22.4
तन्नो॒ वि वो᳚चो॒ यदि᳚ ते पु॒रा चि᳚ज्जरि॒तार᳚ आन॒शुः सु॒म्नमि᳚न्द्र ।
कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्व॒ः पुरु᳚हूत पुरूवसो॑सुर॒घ्नः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । वि । वो॒चः॒ । यदि᳚ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः᳚ । आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ ।
कः । ते॒ । भा॒गः । किम् । वयः᳚ । दु॒ध्र॒ । खि॒द्वः॒ । पुरु᳚॑हूत । पु॒रु॒व॒सो॒ इति᳚ पुरु॑वसो । अ॒सु॒र॒॑घ्नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यदि यत् ते तव पुराचित् पूर्वस्मिन्काले जरितारः स्तोतारः सुम्नं सुखआनशुः प्रापुः तत् तत्सुखं नोस्माकं विवोचः विब्रूहि हेदुध्र दुर्धर हेखिद्वःशत्रूणांखेदयितः हेपुरुहूत हेपुरुवसोइन्द्र असुरघ्न असुराणांहन्तुस्तेतवयज्ञेषु कोभागःकॢप्तः वयः हविर्लक्षणमन्नंकिं- कॢप्तं यदि केचिच्चिरंतनाः पूर्वकालेपि त्वत्तःसकाशात् सुखं लेभिरे तर्ह्यहमपि तत्सुखंलप्स्यइतिविचार्यसुखप्राप्तिविलंबोममासोढव्यो- भवेदित्यर्थः ॥ ४ ॥

6.22.5
तं पृ॒च्छन्ती॒ वज्र᳚हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व᳚री॒ यस्य॒ नू गीः ।
तु॒वि॒ग्रा॒भं तु᳚विकू॒र्मिं र᳚भो॒दां गा॒तुमि᳚षे॒ नक्ष᳚ते॒ तुम्र॒मच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । पृ॒च्छन्ती᳚ । वज्र᳚॑हस्तम् । र॒थे॒॑स्थाम् । इन्द्र᳚म् । वेपी᳚ । वक्व᳚री । यस्य᳚ । नु । गीः ।
तु॒वि॒॑ग्रा॒भम् । तु॒वि॒॑कू॒र्मिम् । र॒भः॒॑दाम् । गा॒तुम् । इ॒षे॒ । नक्ष᳚ते । तुम्र᳚म् । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वयोपालब्धइन्द्र ऋषये कामान्प्रायच्छत् ततःसकामपूर्णऋषिराह वज्रहस्तं वज्रपाणिं रथेष्ठां रथेस्थितं तमिन्द्रं पृच्छन्ती अर्चयन्ती पृच्छतिरर्चतिकर्मा वेपी वेपोयागादिलक्षणंकर्म तद्वती वक्वरीगुणानांवत्र्क्रीगीः ईदृशीस्तुतिर्यस्ययजमानस्यभवति कीदृशमिन्द्रं पृच्छन्ती तुविग्राभं तुवीनांबहूनांग्रहीतारं तुविकूर्मिं बहुकर्माणं रभोदां रभसोबलस्यदातारं नुइतिपूरणः सयजमानः गातुं सुखं इषेगच्छति किंच तुम्रं म्लापयितारं शत्रुं अच्छाभिमुखं नक्षते गच्छति ॥ ५ ॥

6.22.6
अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म᳚नो॒जुवा᳚ स्वतव॒ः पर्व᳚तेन ।
अच्यु᳚ता चिद्वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ᳚ष॒ता वि᳚रप्शिन् ॥
▶ पदपाठः (Word-by-word)
अ॒या । ह॒ । त्यम् । मा॒यया᳚ । व॒वृ॒धा॒नम् । म॒नः॒॑जुवा᳚ । स्व॒॑त॒वः॒ । पर्व᳚तेन ।
अच्यु᳚ता । चि॒त् । वी॒ळि॒ता । सु॒॑ओ॒जः॒ । रु॒जः । वि । दृ॒ळ्हा । धृ॒ष॒ता । वि॒॑र॒प्शि॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्वतवसः स्वभूतबलेन्द्र त्वंमनोजुवा मनोवद्गच्छता अया अनेनपर्वतेन बहुपर्वणा स्वकीयेनायुधेन वज्रेणशतपर्वणेतिदर्शनात् माय- याववृधानं वर्धमानं त्यं तं प्रसिद्धं वृत्रं व्यरुजः विशेषेणभांक्षीः तथा हे स्वोजः शोभनतेजः हे विरप्शिन् हे महन् इन्द्र त्वं अच्युता अच्युता- नि चिद्धि नाशरहितान्यपि वीळिता वीळितानि अशिथिलीकृतानि दृह्ळा दृढानि पुराणि धृषता धर्षकेणवज्रेण व्यरुजोभग्नवानसि ॥ ६ ॥

6.22.7
तं वो᳚ धि॒या नव्य᳚स्या॒ शवि᳚ष्ठं प्र॒त्नं प्र᳚त्न॒वत्प᳚रितंस॒यध्यै᳚ ।
स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति᳚ दु॒र्गहा᳚णि ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । धि॒या । नव्य᳚स्या । शवि᳚ष्ठम् । प्र॒त्नम् । प्र॒त्न॒॑वत् । प॒रि॒॑तं॒स॒यध्यै᳚ ।
सः । नः॒ । व॒क्ष॒त् । अ॒नि॒॑मा॒नः । सु॒॑वह्ना᳚ । इन्द्रः᳚ । विश्वा᳚नि । अति᳚ । दुः॒॑गहा᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

नव्यस्या नवतरया धिया स्तुत्या शविष्ठं बलवत्तमं प्रत्नं पुराणं हेइन्द्र तंवस्त्वां प्रत्नवत् चिरंतनाऋषयइव परितोविस्तारयितुं अहंप्र- वृत्तोस्मीतिशेषः अनिमानः अपरिमाणः सुवह्ना शोभनवहनः सइन्द्रः विश्वानि समस्तानि दुर्गहाणि दुर्गाणि नोस्मभ्यं अतिवक्षदतिवहतु ॥ ७ ॥

6.22.8
आ जना᳚य॒ द्रुह्व᳚णे॒ पार्थि᳚वानि दि॒व्यानि᳚ दीपयो॒॑न्तरि᳚क्षा ।
तपा᳚ वृषन्वि॒श्वतः᳚ शो॒चिषा॒ तान्ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च᳚ ॥
▶ पदपाठः (Word-by-word)
आ । जना᳚य । द्रुह्व᳚णे । पार्थि᳚वानि । दि॒व्यानि᳚ । दी॒प॒यः॒ । अ॒न्तरि᳚क्षा ।
तप᳚ । वृ॒ष॒न् । वि॒श्वतः᳚ । शो॒चिषा᳚ । तान् । ब्र॒ह्म॒॑द्विषे᳚ । शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं द्रुह्वणे साधुजनानांद्रोग्धुर्जनायजनस्यराक्षसादेः षष्ठ्यर्थेचतुर्थी पार्थिवानि पृथिव्यांभवानि दिव्यानि दिविभवानि अन्त- रिक्षा अन्तरिक्षेभवानि च स्थानानि आदीपयः आसमंतात्तापय हेवृषन् कामानांवार्षितरिन्द्र त्वं विश्वतः सर्वतोविद्यमानान् तान् राक्ष- सादीन् शोचिषा त्वदीययादीप्त्या तप दह किंच ब्रह्मद्विषे ब्राह्मणद्वेष्ट्रे राक्षसादये ब्रह्मद्विषंदग्धुमित्यर्थः क्षां पृथिवीं अपश्चान्तरिक्षं शोचय दीपय आपइत्यन्तरिक्षनामैतत् ॥ ८ ॥

6.22.9
भुवो॒ जन᳚स्य दि॒व्यस्य॒ राजा॒ पार्थि᳚वस्य॒ जग᳚तस्त्वेषसंदृक् ।
धि॒ष्व वज्रं॒ दक्षि᳚ण इन्द्र॒ हस्ते॒ विश्वा᳚ अजुर्य दयसे॒ वि मा॒याः ॥
▶ पदपाठः (Word-by-word)
भुवः᳚ । जन᳚स्य । दि॒व्यस्य᳚ । राजा᳚ । पार्थि᳚वस्य । जग᳚तः । त्वे॒ष॒॑स॒न्दृ॒क् ।
धि॒ष्व । वज्र᳚म् । दक्षि᳚णे । इ॒न्द्र॒ । हस्ते᳚ । विश्वा᳚ । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेत्वेषसंदृक् दीप्तदर्शनेन्द्र दिव्यस्य दिविभवस्य जनस्य राजा ईश्वरोभुवोभवसि जगतोजंगमस्य पार्थिवस्यच राजा भवसि दक्षिणे हस्ते वज्रं धिष्व निधेहि तेनवज्रेण विश्वाः सर्वाआसुरीर्मायाः विदयसे विबाधसे दयदानगतिहिंसारक्षणेष्वितिधातुः हेइन्द्र अजुर्य जर- यितुमशक्येन्द्र त्वमिति ॥ ९ ॥

6.22.10 समानपद
आ सं॒यत᳚मिन्द्र णः स्व॒स्तिं श᳚त्रु॒तूर्या᳚य बृह॒तीममृ᳚ध्राम् ।
यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन्त्सु॒तुका॒ नाहु᳚षाणि ॥
▶ पदपाठः (Word-by-word)
आ । स॒म्॑यत᳚म् । इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । श॒त्रु॒॑तूर्या᳚य । बृ॒ह॒तीम् । अमृ᳚ध्राम् ।
यया᳚ । दासा᳚नि । आर्या᳚णि । वृ॒त्रा । करः᳚ । व॒ज्रि॒न् । सु॒॑तुका᳚ । नाहु᳚षाणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र शत्रुतूर्याय शत्रूणांतारणाय बृहतीं महतीं अमृध्रां अहिंसितां संयतं संयतीं संगच्छमानां स्वस्तिं क्षेमलक्षणां संपदं हेइन्द्र नोस्म- भ्यमाभर हेवज्रिन् वज्रवन्निंद्र ययास्वस्त्या दासानि कर्महीनानिमनुष्यजातानि आर्याणि कर्मयुक्तानि करः अकरोः नाहुषाणि मनुष्य- संबन्धीनि नहुषाइतिमनुष्यनामैतत् वृत्रा वृत्राणि शत्रून् सुतुका सुतुकानि शोभनहिंसोपेतान्यकरोः ॥ १० ॥

6.22.11
स नो᳚ नि॒युद्भि᳚ः पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग᳚हि प्रयज्यो ।
न या अदे᳚वो॒ वर᳚ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म᳚द्र्य॒द्रिक् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । नि॒युत्॑भिः᳚ । पु॒रु॒॑हू॒त॒ । वे॒धः॒ । वि॒श्व॑वा᳚राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति᳚ प्र॑यज्यो ।
न । याः । अदे᳚वः । वर᳚ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय᳚म् । आ । म॒द्र्य॒द्रिक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुहूत हेवेधोविधातः हेप्रयज्यो प्रकृष्टेनयजनीयेन्द्र सत्वं विश्ववाराभिः विश्वैर्वरणीयाभिः संभजनीयाभिः नियुद्भिरश्वैर्नोस्मानाग- ह्यागच्छ अदेवोसुरः यानियुतःयानश्वान्नवरते नवारयति देवश्च नवरते आभिर्नियुद्भिः तूयमाक्षिप्रमेव मद्भ्यद्रिक् मदभिमुखःसन् आया- ह्यागच्छ अद्भ्यागमस्यद्विर्वचनंछान्दसं ॥ ११ ॥

सुतइदितिदशर्चमष्टमंसूक्तं भरद्वाजस्यर्षं त्रैष्टुभमैन्द्रं सुतइद्दशेत्यनुक्रान्तं विषुवतिनिष्केवल्येइदंसूक्तं सूत्रितंच—सुतइत्त्वमेषप्रपूर्वीरि- ति । महाव्रतेपिनिष्केवल्येइदमादीनित्रीणिसूक्तानि तथैवपंचमारण्यकेसूत्रितं—सुतइत्त्वं निमिश्लइन्द्रसोमइतित्रीणीति ।