उ॒ब्जन्तु॒ तं सु॒भ्व१॒᳚ः पर्व᳚तासो॒ नि ही᳚यतामतिया॒जस्य᳚ य॒ष्टा ॥
पदपाठः (Word-by-word)
उ॒ब्जन्तु᳚ । तम् । सु॒॑भ्वः᳚ । पर्व᳚तासः । नि । ही॒य॒ता॒म् । अ॒ति॒॑या॒जस्य᳚ । य॒ष्टा ॥
सायणभाष्यम् (Sayana Commentary)
अतियाजोनामकश्चिदृषिरस्मादृजिश्वनः उत्कृष्टस्यामहमितिबुध्यादेवान्यियक्षुरासऋषिस्तदीयंयजनंनिराचष्टाद्यया नतदतियाजस्य- ऋषेःतद्यजनंदिवाद्युलोकेनतत्रत्येनदेवगणेनयुक्तमित्यहंनानुमन्ये नानुमतिंकरोमि नचपृथिव्यापार्थिवेनापिदेवगणेनयुक्तमितिनानुमन्ये नचयज्ञेनमयानुष्टितेनसदृशंतदित्यहंनानुमन्ये उतापिचआभिःशमीभिः अन्यैरपिमयाकृतैः एभिः कर्मभिः सदृशमित्यपिनानुमन्ये मयाव- शीकृतादेवास्तदीयंयजनंनांगीकुर्वन्तिसचानभिज्ञत्वात्सम्यग्यष्टुमपिनशक्नोतीतिभावः अपिचतमृषिं सुभ्वःसुष्ठुभवन्तः पर्वतासः पर्वताः इन्द्रेणप्रहिताः सन्तः उब्जन्तुहिंसन्तु उब्जिर्हिंसाकर्मा तथातस्यातियाजस्यऋजिश्वनोप्यतिशयेनाहंदवोन्यजामीतिबुध्यायुक्तस्यऋषेःयो- यष्टायाजकः सनिहीयतां नितरांहीनोभवतु ॥ १ ॥