अग्नी᳚पर्जन्या॒वव᳚तं॒ धियं᳚ मे॒॑स्मिन्हवे᳚ सुहवा सुष्टु॒तिं नः᳚ ।
इळा᳚म॒न्यो ज॒नय॒द्गर्भ᳚म॒न्यः प्र॒जाव᳚ती॒रिष॒ आ ध᳚त्तम॒स्मे ॥
इळा᳚म॒न्यो ज॒नय॒द्गर्भ᳚म॒न्यः प्र॒जाव᳚ती॒रिष॒ आ ध᳚त्तम॒स्मे ॥
पदपाठः (Word-by-word)
अग्नी᳚पर्जन्यौ । अव᳚तम् । धिय᳚म् । मे॒ । अ॒स्मिन् । हवे᳚ । सु॒॑ह॒वा॒ । सु॒॑स्तु॒तिम् । नः॒ ।
इळा᳚म् । अ॒न्यः । ज॒नय᳚त् । गर्भ᳚म् । अ॒न्यः । प्र॒जा॑व᳚तीः । इषः᳚ । आ । ध॒त्त॒म् । अ॒स्मे इति᳚ ॥
इळा᳚म् । अ॒न्यः । ज॒नय᳚त् । गर्भ᳚म् । अ॒न्यः । प्र॒जा॑व᳚तीः । इषः᳚ । आ । ध॒त्त॒म् । अ॒स्मे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्नीपर्जन्यौ मेमदीयंधियंकर्मयज्ञलक्षणं अवतं गच्छतं रक्षतंवा हेसुहवासुखेनह्वातुं शक्यौ अस्मिन् हवेयज्ञेनोस्मदीयांसुष्टुतिंशो- भनांस्तुतिंचरक्षतं यद्वाअनुवृत्तोअवतिःश्रवणार्थः अवतं श्रृणुतं युवयोर्मध्येअन्यः पर्जन्यः इळामन्नंजनयज्जनयति वृष्ट्याह्योषधितनस्पत- योजायन्ते तेभ्यश्चन्नंजायते अन्योग्निर्गर्भंजनयति पुरुषेणभुक्तमन्नंजाठरेणाग्निनापक्वंसत् रेतोरूपेणपरिणमते तदेवयोषित्सुगर्भोभवति अतोयुवांप्रजावतीः प्रजाभिर्युक्ताः इषोम्न्नानि अस्मे अस्मासुआधत्तं अवस्थापयतं ॥ १६ ॥