वि॒श्व॒दानीं᳚ सु॒मन᳚सः स्याम॒ पश्ये᳚म॒ नु सूर्य᳚मु॒च्चर᳚न्तम् ।
तथा᳚ कर॒द्वसु᳚पति॒र्वसू᳚नां दे॒वा{4} ओहा॒नो॑व॒साग᳚मिष्ठः ॥
तथा᳚ कर॒द्वसु᳚पति॒र्वसू᳚नां दे॒वा{4} ओहा॒नो॑व॒साग᳚मिष्ठः ॥
पदपाठः (Word-by-word)
वि॒श्व॒॑दानी᳚म् । सु॒॑मन᳚सः । स्या॒म॒ । पश्ये᳚म । नु । सूर्य᳚म् । उ॒त्॑चर᳚न्तम् ।
तथा᳚ । क॒र॒त् । वसु᳚॑पतिः । वसू᳚नाम् । दे॒वान् । ओहा᳚नः । अव᳚सा । आ॑ग᳚मिष्ठः ॥
तथा᳚ । क॒र॒त् । वसु᳚॑पतिः । वसू᳚नाम् । दे॒वान् । ओहा᳚नः । अव᳚सा । आ॑ग᳚मिष्ठः ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः विश्वदानींसर्वदावयंसुमनसःस्याम शोभनमनस्काभवेम नुशब्दःसमुच्चये उच्चरन्तं उद्यन्तं सूर्यं सर्वदापश्येमच वसूनांवसुपतिः उत्कृष्टधनाधिपतिरग्निः देवानवसाअस्मदीयेनहविषाओहानोवहन् प्रापयन् आगमिष्ठः आगंतृतमः एवंगुणविशिष्टःसन् तथाकरत्अस्मान् तथाविद्यानुक्तप्रकारान्करोतु ॥ ५ ॥