इ॒मं नो᳚ अग्ने अध्व॒रं होत᳚र्वयुन॒शो य᳚ज ।
चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ॥
चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ॥
पदपाठः (Word-by-word)
इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । होतः᳚ । व॒यु॒न॒॑शः । य॒ज॒ ।
चि॒कि॒त्वान् । दैव्य᳚म् । जन᳚म् ॥
चि॒कि॒त्वान् । दैव्य᳚म् । जन᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेहोतः देवानामाह्वातरग्ने दैव्यंदेवसंबन्धिनंजनंसंघंयजनीयं चिकित्वान् जानंस्त्वंनोस्मदीयमिममध्वरंहिंसारहितंयज्ञंवयुनशः ज्ञानक्रमेणयथानुपूर्व्यादेवाबुद्धिस्थाः तथायज यागंकुरु ॥ १२ ॥ वैश्वदेवशस्त्रस्यविश्वेदेवाइतियाज्या सूत्रितंच—आश्रुत्यैत्वेतिशस्त्वाजपेद्विस्वेदेवाः श्रृणुतेमंहवंमइतियाज्येति । वैश्वदेवेपशौएषैवया- ज्या सूत्रितंच—विश्वेदेवाःश्रृणुतेमंहवंमेयेकेचज्मामहिनोअहिमायाइति ।