श्रवणम्

6.52.3
किम॒ङ्ग त्वा॒ ब्रह्म᳚णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः᳚ ।
किम॒ङ्ग नः᳚ पश्यसि नि॒द्यमा᳚नान्ब्रह्म॒द्विषे॒ तपु᳚षिं हे॒तिम᳚स्य ॥
▶ पदपाठः (Word-by-word)
किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म᳚णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒॑पाम् । नः॒ ।
किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा᳚नान् । ब्र॒ह्म॒॑द्विषे᳚ । तपु᳚षिम् । हे॒तिम् । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

किमंगेतिप्रसिद्धद्योतकौनिपातौ हेसोम त्वात्वांखलुब्रह्मणोमंत्रस्यकर्मणोवाब्रह्मजातेर्वागोपांगोपायितारं आहुः कथयन्तिपुराविदः त- थानोस्माकमभिशस्तिपां अभिशंसकेभ्यःपालयितारंत्वामेवखल्वाहुः यद्वाअंगेत्यभिमुखीकरणे अंग हेसोम किंकारणंत्वांब्रह्मणोगोपामाहुः किंकारणंत्वात्वांअस्माकमभिशस्तिपामाहुः निंद्यमानान्परैर्दूष्यमाणान् नोस्मान् अंगहेसोम किंकारणंपश्यसि त्वामेवसर्वेब्रह्मणोरक्षकंश- त्रुभ्यः पालकंचकथयन्ति अतोस्मासुपरैर्निन्द्यमानेषु औदासीन्यंतवानुचितं अतोब्रह्मद्विषेब्राह्मणद्वेष्ट्रेतस्मैतपुषिंतापकं हेतिमायुधंअस्यक्षि- पप्रेरय ॥ ३ ॥