विश्वे᳚ दे॒वा ऋ᳚ता॒वृध᳚ ऋ॒तुभि᳚र्हवन॒श्रुतः᳚ ।
जु॒षन्तां॒ युज्यं॒ पयः᳚ ॥
जु॒षन्तां॒ युज्यं॒ पयः᳚ ॥
पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । ऋ॒त॒॑वृधः᳚ । ऋ॒तु॑भिः᳚ । ह॒व॒न॒॑श्रुतः᳚ ।
जु॒षन्ता᳚म् । युज्य᳚म् । पयः᳚ ॥
जु॒षन्ता᳚म् । युज्य᳚म् । पयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
ऋतावृधः ऋतस्ययज्ञस्यवर्धकाः ऋतुभिःकालविशेषैः हवनश्रुतः हवनस्यस्तोत्रस्यश्रोतारः तस्मिन् तस्मिन्यागकालेस्तूयमानाः ईदृ- शाविश्वेसर्वेदेवाः युज्यंयोग्यंपयः आमिक्षारूपं जुषंतांसेवन्तां श्रूयतेहि—तप्तेपयसिदध्यानयतिसावैश्वदेव्यामिक्षेति ॥ १० ॥