अव᳚न्तु॒ मामु॒षसो॒ जाय᳚माना॒ अव᳚न्तु मा॒ सिन्ध᳚व॒ः पिन्व᳚मानाः ।
अव᳚न्तु मा॒ पर्व᳚तासो ध्रु॒वासो॑व᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ॥
अव᳚न्तु मा॒ पर्व᳚तासो ध्रु॒वासो॑व᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ॥
पदपाठः (Word-by-word)
अव᳚न्तु । माम् । उ॒षसः᳚ । जाय᳚मानाः । अव᳚न्तु । मा॒ । सिन्ध᳚वः । पिन्व᳚मानाः ।
अव᳚न्तु । मा॒ । पर्व᳚तासः । ध्रु॒वासः᳚ । अव᳚न्तु । मा॒ । पि॒तरः᳚ । दे॒व॑हू᳚तौ ॥
अव᳚न्तु । मा॒ । पर्व᳚तासः । ध्रु॒वासः᳚ । अव᳚न्तु । मा॒ । पि॒तरः᳚ । दे॒व॑हू᳚तौ ॥
सायणभाष्यम् (Sayana Commentary)
जायमानाःप्रादुर्भवन्त्यउषसः मांअवन्तु रक्षंतु तथापिन्वमानाः वर्धमानाः सिन्धवः स्यन्दनशीलानद्यश्च मामामवन्तु तथाध्रुवासोनि- श्चलाः पर्वतासः पर्वताश्च मामामवन्तु तथादेवहूतौदेवानांहूतिराह्वानमस्मिन्नितिदेवहूतिर्यागः तत्रविद्यमानाः पितरः पितृदेवताश्चमा- मामवन्तु ॥ ४ ॥