षष्ठं मण्डलम् - सूक्तम् 44

24 ऋचः

ऋषिः: शंयुर्बार्हस्पत्यः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 6.44 - सम्पूर्णम्

1 / 24
ऋक्: 6.44.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (24)
6.44.1
यो र᳚यिवो र॒यिंत᳚मो॒ यो द्यु॒म्नैर्द्यु॒म्नव᳚त्तमः ।
सोमः᳚ सु॒तः स इ᳚न्द्र॒ ते॑स्ति᳚ स्वधापते॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । र॒यि॒॑वः॒ । र॒यिम्॑त᳚मः । यः । द्यु॒म्नैः । द्यु॒म्नव᳚त्॑तमः ।
सोमः᳚ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति᳚ । स्व॒धा॒॑प॒ते॒ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेरयिवोधनवन्निन्द्र यःसोमःरयिन्तमःअतिशयेनरयिमान् धनवान् यश्चद्युम्नैर्द्योतमानैर्यशोभिः द्युम्नवत्तमोतिशयेनयशस्वी हेस्वधाप- ते स्वधायाः अन्नस्यसोमलक्षणस्यपालकेन्द्र ससोमोभिषुतः सन् तेतवमदः मदकरः अस्ति भवति ॥ १ ॥

6.44.2
यः श॒ग्मस्तु᳚विशग्म ते रा॒यो दा॒मा म᳚ती॒नाम् ।
सोमः᳚ सु॒तः स इ᳚न्द्र॒ ते॑स्ति᳚ स्वधापते॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । श॒ग्मः । तु॒वि॒॑श॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् ।
सोमः᳚ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति᳚ । स्व॒धा॒॑प॒ते॒ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेतुविशग्म बहुसुखेन्द्र यःशग्मःसुखकरः तेत्वदीयःसोमः मतीनांस्तोतॄणांरायोधनस्यदामा दाताभवति हेस्वधापतेइन्द्र ससोमोभिषु- तस्तवमदकरोभवति ॥ २ ॥

6.44.3
येन᳚ वृ॒द्धो न शव᳚सा तु॒रो न स्वाभि᳚रू॒तिभि᳚ः ।
सोमः᳚ सु॒तः स इ᳚न्द्र॒ ते॑स्ति᳚ स्वधापते॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
येन᳚ । वृ॒द्धः । न । शव᳚सा । तु॒रः । न । स्वाभिः᳚ । ऊ॒ति॑भिः᳚ ।
सोमः᳚ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति᳚ । स्व॒धा॒॑प॒ते॒ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमौनशद्बौसमुच्चयार्थौ येनपीतेनसोमेनवृद्धोनप्रवृद्धश्चसन् स्वाभिरूतिभिः आत्मीयैर्मरुद्भिः सार्धं शवसाबलेनतुरःशत्रूणांहिंसकश्चभ- वसि ससोमइत्यादिपूर्ववत् ॥ ३ ॥ पृष्ठ्यषळहृस्यचतुर्थेहनिप्रउगशस्त्रेत्यमुवइत्यैन्द्रस्तृचः सूत्रितंच—त्यमुवोअप्रहणमपत्यंवृजिनरिपुमिति ।

6.44.4
त्यमु᳚ वो॒ अप्र᳚हणं गृणी॒षे शव᳚स॒स्पति᳚म् ।
इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि᳚ष्ठं वि॒श्वच᳚र्षणिम् ॥
▶ पदपाठः (Word-by-word)
त्यम् । ऊं॒ इति᳚ । वः॒ । अप्र᳚॑हनम् । गृ॒णी॒षे । शव᳚सः । पति᳚म् ।
इन्द्र᳚म् । वि॒श्व॒॑सह᳚म् । नर᳚म् । मंहि᳚ष्ठम् । वि॒श्व॑च᳚र्षणिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋत्विग्यजमानाः वोयुष्मदर्थं त्यमुतमेवेन्द्रंगृणीषे स्तौमि यद्वा वोयूयंगृणीषे गृणीत स्तुत वचनव्यत्ययः कीदृशमिन्द्रं अप्रहणं अप्रह- न्तारंभक्तानामनुग्राहकं शवसोबलस्यपतिं पालकं विश्वासाहं विश्वस्यशत्रोरभिभवितारं नरंनेतारं मंहिष्ठंदातृतमं विश्वचर्षणिं सर्व स्यद्रष्टारं ॥ ४ ॥

6.44.5
यं व॒र्धय॒न्तीद्गिर॒ः पतिं᳚ तु॒रस्य॒ राध᳚सः ।
तमिन्न्व᳚स्य॒ रोद᳚सी दे॒वी शुष्मं᳚ सपर्यतः ॥
▶ पदपाठः (Word-by-word)
यम् । व॒र्धय᳚न्ति । इत् । गिरः᳚ । पति᳚म् । तु॒रस्य᳚ । राध᳚सः ।
तम् । इत् । नु । अ॒स्य॒ । रोद᳚सी॒ इति᳚ । दे॒वी इति᳚ । शुष्म᳚म् । स॒प॒र्य॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिरः स्तुतयः इन्द्रसंबन्धिनंयमित् यमेवशुष्मंबलंवर्धयन्ति कीदृशंपातिं ईश्वरं कस्यतुरस्य हिंसकस्यशत्रोराधसोधनस्यशत्रुधनानाम- पहर्तारमित्यर्थः अस्येन्द्रस्यतमित् तमेवशुष्मंशोषकं बलं देवीदेवनशीलेरोदसी द्यावापृथिव्यौ नुक्षिप्रंसपर्यतः परिचरतः ॥ ५ ॥

6.44.6
तद्व᳚ उ॒क्थस्य᳚ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि᳚ ।
विपो॒ न यस्यो॒तयो॒ वि यद्रोह᳚न्ति स॒क्षितः᳚ ॥
▶ पदपाठः (Word-by-word)
तत् । वः॒ । उ॒क्थस्य᳚ । ब॒र्हणा᳚ । इन्द्रा᳚य । उ॒प॒॑स्तृ॒णी॒षणि᳚ ।
विपः᳚ । न । यस्य᳚ । ऊ॒तयः᳚ । वि । यत् । रोह᳚न्ति । स॒॑क्षितः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतारः वोयुष्मदीयस्योक्थस्यस्तोत्रस्यतद्बर्हणा बहुत्वंमाहात्म्यं इन्द्राय इन्द्रार्थं उपस्तृणीषणिउपस्तरणीयं उपेत्यविस्तरणीयं इन्द्रोयथास्तोत्रस्यमाहात्म्यंजानीयात् तथाविस्तारयतइत्यर्थः यस्येन्द्रस्य ऊतयोरक्षाःविपिनमेधाविनइवभवन्ति सर्वकार्यकुशलाइत्यर्थः यद्वानेतिपूरकः विपोविप्रस्यमेधाविनोयस्येन्द्रस्येतियोज्यं यत् यस्मिन् चेन्द्रेसक्षितः समाननिवासाः संहताऊतयः विरोहन्ति प्रादुर्भवंति तस्माइन्द्रायेत्यर्थः ॥ ६ ॥

6.44.7
अवि᳚द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान्पपा॒नो दे॒वेभ्यो॒ वस्यो᳚ अचैत् ।
स॒स॒वान्त्स्तौ॒लाभि᳚र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर᳚भव॒त्सखि᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
अवि᳚दत् । दक्ष᳚म् । मि॒त्रः । नवी᳚यान् । प॒पा॒नः । दे॒वेभ्यः᳚ । वस्यः᳚ । अ॒चै॒त् ।
स॒स॒॑वान् । स्तौ॒लाभिः᳚ । धौ॒तरी᳚भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि᳚॑भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः दक्षंकर्मसुममर्थं प्रवृद्धंवायष्टारं अविदत् जानाति कीदृशःमित्रोमित्रभूतः नवीयान् नवतरः कल्याणतरःस्तुत्यतरोवा सचपपा- नःसोमंपिबन् देवेभ्यःस्तोतृभ्यः वस्योवसीयः श्रेष्ठंधनंअचैत् चिनोति उपचितंकरोति ददातीतियावत् अपिच ससवान्ससमित्यन्ननाम ह- विर्लक्षणान्नोपेतः सइन्द्रः स्तौलाभिःस्थूलाभिःप्रवृद्धाभिः धौतरीभिःकंपनकारिणीभिर्वडवाभिः ईदृशैर्मरुद्भिर्वायुक्तःसन् सखिभ्यःस्तोतृ- भ्यःउरुष्यारक्षणेच्छयाआगत्यपायुरभवत् रक्षकोभवति यद्वा ससवानितिसनतेः क्वसौरूपं स्तौलाभिर्धौतरीभिःससवान् संभजमानइति- संबंधः ॥ ७ ॥

6.44.8
ऋ॒तस्य᳚ प॒थि वे॒धा अ᳚पायि श्रि॒ये मनां᳚सि दे॒वासो᳚ अक्रन् ।
दधा᳚नो॒ नाम᳚ म॒हो वचो᳚भि॒र्वपु᳚र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां᳚सि । दे॒वासः᳚ । अ॒क्र॒न् ।
दधा᳚नः । नाम᳚ । म॒हः । वचः᳚॑भिः । वपुः᳚ । दृ॒शये᳚ । वे॒न्यः । वि । आ॒व॒रित्या᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्ययज्ञस्यपथि मार्गे वेधाः विधाता सर्वस्यद्रष्टासोमः अपायि इन्द्रेणपीतोभूत् यद्वा वेधा विधाता इन्द्रः अपायि सोमंपिबतु व्य- त्ययेनकर्तरिचिण् तस्मिन् सोमेइन्द्रस्यमनांसि श्रिये श्रयितुं देवाः स्तोतारऋत्विजः अक्रन् कर्माणिकुर्वन्ति सचेन्द्रः नाम शत्रूणांनामकं महोमहत् आत्मीयंवपुःशरीरंदधानोधारयन् वचोभिः स्तुतिभिः वेन्योवननीयः संभजनीयश्चसन्दृशयेदर्शनार्थं व्यावः विव्रुणोतु प्रकाश- यतु अनुकूलंतेजइतिशेषः यद्वा वेन्यइतिवेनतेःकन्तिकर्मणोरूपं वपुरितिचरूपनाम वेन्यःकमनीयः वपुःभास्वरंरूपं दृशयेदर्शनार्थं व्यवः विवृणोतु वचोभिः स्तूयमानः सन् ॥ ८ ॥

6.44.9 समानपद
द्यु॒मत्त᳚मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः ।
वर्षी᳚यो॒ वयः᳚ कृणुहि॒ शची᳚भि॒र्धन᳚स्य सा॒ताव॒स्मा{4} अ᳚विड्ढि ॥
▶ पदपाठः (Word-by-word)
द्यु॒मत्॑त᳚मम् । दक्ष᳚म् । धे॒हि॒ । अ॒स्मे इति᳚ । सेध᳚ । जना᳚नाम् । पू॒र्वीः । अरा᳚तीः ।
वर्षी᳚यः । वयः᳚ । कृ॒णु॒हि॒ । शची᳚भिः । धन᳚स्य । सा॒तौ । अ॒स्मान् । अ॒वि॒ड्ढि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र द्युमत्तमं दीप्तिमत्तमं दक्षंबलंअस्मेअस्मासुधेहि धारय जनानांस्तोतॄणामस्माकं पूर्वीर्बह्वीररातीः शत्रुसेनाः सेध निषेध निवा- रय अपिचास्माकं वर्षीयःवृद्धतरं वयोन्नं शचीभिरात्मीयाभिः प्रज्ञाभिः कृणुहिकुरु तथाधनस्यसातौसंभजनेअस्मान् अविड्ढि गमय यद्वा- धनस्य संभजनार्थंअस्मान् रक्ष ॥ ९ ॥

6.44.10
इन्द्र॒ तुभ्य॒मिन्म᳚घवन्नभूम व॒यं दा॒त्रे ह᳚रिवो॒ मा वि वे᳚नः ।
नकि᳚रा॒पिर्द᳚दृशे मर्त्य॒त्रा किम॒ङ्ग र᳚ध्र॒चोद᳚नं त्वाहुः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । तुभ्य᳚म् । इत् । म॒घ॒॑व॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒॑वः॒ । मा । वि । वे॒नः॒ ।
नकिः᳚ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒॑त्रा । किम् । अ॒ङ्ग । र॒ध्र॒॑चोद᳚नम् । त्वा॒ । आ॒हुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन्निन्द्र दात्रेकामानांदात्रे तुभ्यमित् तुभ्यमेव वयंशोषभूताअभूम यद्वा त्वदर्थमेवदात्रे हविषांदानेवर्तमानाः अभूम हेह- रिवः हरिवन्निन्द्र अतःकारणात् माविवेनः माविगतकामोभूः अस्मान् सर्वदाकामयस्व वेनतिःकान्तिकर्मा मर्त्यत्रा मर्त्येषुमनुष्येषुमध्ये आपिर्बन्धुः त्वत्तोन्यःकश्छिदपिनकिर्ददृशे नैवदृश्यते किमनेनविशेषकथेन अंग हेइन्द्र त्वा त्वां रध्रचादेन रध्रस्यराधकस्यसमृद्धस्यधन- स्यचोदनं चोदयितारं आहुः कथयन्ति पुराजाः ॥ १० ॥

6.44.11 समानपद
मा जस्व᳚ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः᳚ स॒ख्ये रि᳚षाम ।
पू॒र्वीष्ट᳚ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु᳚ष्वी॒न्प्र वृ॒हापृ᳚णतः ॥
▶ पदपाठः (Word-by-word)
मा । जस्व᳚ने । वृ॒ष॒भ॒ । नः॒ । र॒री॒थाः॒ । मा । ते॒ । रे॒वतः᳚ । स॒ख्ये । रि॒षा॒म॒ ।
पू॒र्वीः । ते॒ । इ॒न्द्र॒ । निः॒॑सिधः᳚ । जने᳚षु । ज॒हि । असु᳚स्वीन् । प्र । वृ॒ह॒ । अपृ᳚णतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषभ कामानांवर्षितरिन्द्र जस्वने जसिरुपक्षयकर्मा उपक्षयित्रे राक्षसादये नोस्मान् माररीथाः मादाः रेवतोधनवतस्तेतवसख्येस- खित्वेवर्तमानावयंमारिषाम हिंसितामाभूम हेइन्द्र तेत्वदीयाःपूर्वीःबह्वीः निःषिधःनिःषेधाः निवारणानिजनेषुशत्रुनिहिताःसन्ति यद्वा निःषिधोनिषेधार्थारज्जवः ताःशत्रुजनेषुतवबत्द्भ्योविद्यन्ते अतः कारणात् असुस्वीन् अनभिषोतॄन् अयजमानान् जहि मारय अपृणतः हवींष्यप्रयच्छतश्चप्रवृह उन्मूलय पृणदानेइतिधातुः ॥ ११ ॥

6.44.12
उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚ ।
त्वम᳚सि प्र॒दिवः᳚ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द᳚भन्म॒घोनः᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒भ्राणि᳚॑इव । स्त॒नय᳚न् । इ॒य॒र्ति॒ । इन्द्रः᳚ । राधां᳚सि । अश्व्या᳚नि । गव्या᳚ ।
त्वम् । अ॒सि॒ । प्र॒॑दिवः᳚ । का॒रु॑धा᳚याः । मा । त्वा॒ । अ॒दा॒मानः᳚ । आ । द॒भ॒न् । म॒घोनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्राणीवस्तनयन् गर्जयन् पर्जन्यः यथामेघान् उद्गमयति एवमिन्द्रःअश्व्यानि अश्व्संबन्धीनि गव्यागव्यानिगोसंबन्धीनि एतत्समूह- द्वयरूपाणि राधांसिधनानिउदियर्ति उदीरयति उद्गमयति स्तोतृभ्योदातुं उत्तरार्धःप्रत्यक्षकृतः हेइन्द्र प्रदिवःपुराणस्त्वं कारुधायाः कारू- णांस्तोतॄणांधारयितासि भवसि तादृशंत्वात्वांमघोनोधनवन्तःकृपणाः अदामानः हविषामदातारःमाआदभन् माहिंसिषुः यद्वावचनव्य- त्ययः मघवानंधनवन्तंत्वामितिसंबंधः ॥ १२ ॥

6.44.13
अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य᳚स्य॒ राजा᳚ ।
यः पू॒र्व्याभि᳚रु॒त नूत᳚नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ᳚ण॒तामृषी᳚णाम् ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यो॒ इति᳚ । वी॒र॒ । प्र । म॒हे । सु॒ताना᳚म् । इन्द्रा᳚य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा᳚ ।
यः । पू॒र्व्याभिः᳚ । उ॒त । नूत᳚नाभिः । गीः॒॑भिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवीर हविषांविशेषेणप्रेरयितरध्वर्यो महेमहतेअस्मैइन्द्रायसुतानां कर्मणिषष्ठी सुतानभिषुतान् सोमान्प्रभर प्रहर प्रगमय सहिखल्वि- न्द्रः अस्यसोमस्यराजास्वामीभवति यइन्द्रः पूर्व्याभिः पूर्वकालेकृताभिः उतापिच नूतनाभिःइदानींक्रियमाणाभिः गृणतांस्तुवतांऋषी- णांसंबन्धिनीभिर्गीर्भिः उभयविधाभिःस्तुतिभिर्वावृधेवर्धते सइन्द्रः यस्मात् सोमस्यराजातस्मादस्मैसोमःप्रदेयइत्यर्थः ॥ १३ ॥ प्रथमेरात्रिपर्यार्येमैत्रावरुणस्यअस्यमदइतिशस्त्रयाज्या सूत्रितंच—अस्यमदेपुरुवर्पांसिविद्वानितियाज्येति ।

6.44.14
अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य᳚प्र॒ती ज᳚घान ।
तमु॒ प्र हो᳚षि॒ मधु᳚मन्तमस्मै॒ सोमं᳚ वी॒राय᳚ शि॒प्रिणे॒ पिब᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । मदे᳚ । पु॒रु । वर्पां᳚सि । वि॒द्वान् । इन्द्रः᳚ । वृ॒त्राणि᳚ । अ॒प्र॒ति । ज॒घा॒न॒ ।
तम् । ऊं॒ इति᳚ । प्र । हो॒षि॒ । मधु᳚॑मन्तम् । अ॒स्मै॒ । सोम᳚म् । वी॒राय᳚ । शि॒प्रिणे᳚ । पिब᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यसोमस्यपानेनमदेहर्षेसति विद्वान् अभिज्ञइन्द्रः पुरुपुरूणिबहूनिवर्पांसि आवरकाणिवृत्राणिशत्रून् अप्रतिस्वयमन्यैरप्रतिगतःसन् जघान हतवान् यद्वा वर्पइतिरूपनाम बहूनि वर्पांसिअसुरमाययानिर्मितानि रूपाणि विद्वान् जानन्निन्द्रः वृत्राण्यावरकाणिरक्षःप्रभृतीनि इतःपूर्वमन्यैरप्रतिगतानि जघानहतवान् मधुमन्तंमाधुर्यवन्तंतमुतमेवसोमंशिप्रिणेशोभनहनुकायअस्मैवीराय शत्रूणांवारयित्रेइन्द्राय पि- बध्यैपातुंप्रहोषि हेअध्वर्योप्रजुहुधि ॥ १४ ॥ द्वितीयेरात्रिपर्यायेमैत्रावरुणस्यैवपातासुतमितिशस्त्रयाज्या सूत्रितंच—पातासुतमिन्द्रोअस्तुसोमंहन्तावृत्रमितियाज्येति ।

6.44.15
पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः ।
गन्ता᳚ य॒ज्ञं प᳚रा॒वत᳚श्चि॒दच्छा॒ वसु᳚र्धी॒नाम᳚वि॒ता का॒रुधा᳚याः ॥
▶ पदपाठः (Word-by-word)
पाता᳚ । सु॒तम् । इन्द्रः᳚ । अ॒स्तु॒ । सोम᳚म् । हन्ता᳚ । वृ॒त्रम् । वज्रे᳚ण । म॒न्द॒सा॒नः ।
गन्ता᳚ । य॒ज्ञम् । प॒रा॒॑वतः᳚ । चि॒त् । अच्छ᳚ । वसुः᳚ । धी॒नाम् । अ॒वि॒ता । का॒रु॑धा᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः सुतमभिषुतंसोमंपातास्तु साधुपाताभवतु साधुकारिणितृन् अतएवनलोकाव्ययेतिषष्ठीषतिषेधादृवितीया एवंहन्तेत्यादा- वपिद्रष्टव्यं तेनचसोमेनमन्दसानः माद्यन् व्रज्रेणायुधेनवृत्रमावरकंशत्रुंहन्तास्तु भवतु एतदुभयार्थंपरावतश्चित् दूरदेशादपियज्ञमच्छअस्म- दीयंयज्ञमभिगन्ताभवतु दूरदेशस्थोपिशीघ्रमस्मद्यज्ञेसोमपानायागच्छत्वित्यर्थः कीदृशइन्द्रः वसुः सर्वेषांनिवासयिता धीनांध्यातॄणां- स्तोतॄणांकर्मणांवाअवितारक्षिता कारुधायाःकारूणांकर्तॄणांयजमानानां धारयिता ॥ १५ ॥ तृतीयेरात्रिपर्यायेप्रशास्तुरिदंत्यदितिशस्त्रयाज्या सूत्रितंच—इदंत्यत्पात्रमिन्द्रपानमितियाज्येति ।

6.44.16
इ॒दं त्यत्पात्र᳚मिन्द्र॒पान॒मिन्द्र᳚स्य प्रि॒यम॒मृत᳚मपायि ।
मत्स॒द्यथा᳚ सौमन॒साय᳚ दे॒वं व्य१॒᳚स्मद्द्वेषो᳚ यु॒यव॒द्व्यंहः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । त्यत् । पात्र᳚म् । इ॒न्द्र॒॑पान᳚म् । इन्द्र᳚स्य । प्रि॒यम् । अ॒मृत᳚म् । अ॒पा॒यि॒ ।
मत्स᳚त् । यथा᳚ । सौ॒म॒न॒साय᳚ । दे॒वम् । वि । अ॒स्मत् । द्वेषः᳚ । यु॒यव᳚त् । वि । अंहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पात्रंपातव्यंइन्द्रपानं इन्द्रस्यपानार्हं इन्द्रस्यप्रियंअनुकूलं त्यत् तदिदंसोमात्मकममृतंअपायि इन्द्रःपिबतु व्यत्ययेनकर्तरिचिण् यद्वा एतदमृतंअपायि इन्देणपीयतां यथायेनप्रकारेणपी तः सोमः सौमनसायसुमनस्त्वायदेवमिन्द्रं मत्सत् मादयेत् तथापीयतामित्यर्थः सपी- तसोमइन्द्रः द्वेषोद्वेष्टृन् अस्मत्तःवियुयवत् वियोजयतु अंहःपापं चअस्मत्तोवियोजयतु ॥ १६ ॥

6.44.17 समानपद
ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा᳚न् ।
अ॒भि॒षे॒णा{4} अ॒भ्या॒३॒᳚देदि᳚शाना॒न्परा᳚च इन्द्र॒ प्र मृ᳚णा ज॒ही च᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ना । म॒न्दा॒नः । ज॒हि । शू॒र॒ । शत्रू᳚न् । जा॒मिम् । अजा᳚मिम् । म॒घ॒॑व॒न् । अ॒मित्रा᳚न् ।
अ॒भि॒॑से॒नान् । अ॒भि । आ॒॑देदि᳚शानान् । परा᳚चः । इ॒न्द्र॒ । प्र । मृ॒ण॒ । ज॒हि । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन् शूर शौर्यवन्निन्द्र एनाएनेनप्रकृतेनानेनसोमेनमन्दानोमन्दमानोमाद्यन् जामिंज्ञातिंअजामिंतद्विलक्षणं एवमुभय- विधानमित्रान् अस्मत्प्रतिकूलाचरणपरान् शत्रून् जहि हिंसितान् कुरु किंच अभिषेणान् प्रत्यभिगताः सेनायेषांतादृशान् अस्मदभिमुखं- आदेदिशानान् आयुधानिपुनःपुनःआदिशतोविसृजतःशत्रूंश्च हेइन्द्र पराचः प्रमृणतेयथापराङ्मुखाभवन्ति तथाबाधस्व तदनन्तरंतान्- जहिच ॥ १७ ॥

6.44.18
आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॒᳚स्मभ्यं॒ महि॒ वरि᳚वः सु॒गं कः᳚ ।
अ॒पां तो॒कस्य॒ तन᳚यस्य जे॒ष इन्द्र᳚ सू॒रीन्कृ᳚णु॒हि स्मा᳚ नो अ॒र्धम् ॥
▶ पदपाठः (Word-by-word)
आ॒सु । स्म॒ । नः॒ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । पृ॒त्॑सु । अ॒स्मभ्य᳚म् । महि᳚ । वरि᳚वः । सु॒॑गम् । क॒रिति᳚ कः ।
अ॒पाम् । तो॒कस्य᳚ । तन᳚यस्य । जे॒षे । इन्द्र᳚ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन्निन्द्र नोस्मदीयासु आसुपृत्सुपृतनासुसंग्रामेषु अस्मभ्यंमहिमहत् सुगं सुखेनप्राप्यं वरिवोधनं कःकुरु स्मेतिपूरणः अपिच हेइन्द्र अपांआप्तव्यानांधनानांउदकानांवा तोकस्यपुत्रस्यतनयस्यपौत्रस्यच जेषे जयार्थंसूरीन् स्तोतॄन् नोस्मान् अर्धअर्धानसमृद्धा- न् कृणुहि कुरु यद्वा अर्धकारिणः शत्रूणांखंडयितृन् कुरु स्मेतिपूरकः ॥ १८ ॥

6.44.19
आ त्वा॒ हर᳚यो॒ वृष᳚णो युजा॒ना वृष᳚रथासो॒ वृष᳚रश्म॒यो॑त्या᳚ः ।
अ॒स्म॒त्राञ्चो॒ वृष᳚णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । हर᳚यः । वृष᳚णः । यु॒जा॒नाः । वृष᳚॑रथासः । वृष᳚॑रश्मयः । अत्याः᳚ ।
अ॒स्म॒त्राञ्चः᳚ । वृष᳚णः । व॒ज्र॒॑वाहः᳚ । वृष्णे᳚ । मदा᳚य । सु॒॑युजः᳚ । व॒ह॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वात्वांहरयोश्वाः वृष्णेवर्षित्रेमदायमदकरायसोमायईदृशंसोमंपाययितुंआवहन्तु कीदृशाअश्वाः वृषणःकामानांवर्षितारः यु- जानाःस्वयमेवरथेयुज्यमानाः वृषरथासः वृषाकामाभिवर्षकोरथोयेषांतेतथोक्ताः वृषरश्मयः वर्षितारोरश्मयःप्रग्रहायेषांतादृशाः अत्याः सततगामिनः अस्मत्रांचःअस्मान् प्रत्यंचन्तोगच्छन्तः वृषणोनित्यतरुणाः वज्रवाहः वज्रादीन्यायुधानिवहन्तः सुयुजः शोभनयोजनाः ॥ १९ ॥

6.44.20
आ ते᳚ वृष॒न्वृष᳚णो॒ द्रोण᳚मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः ।
इन्द्र॒ प्र तुभ्यं॒ वृष᳚भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । वृ॒ष॒न् । वृष᳚णः । द्रोण᳚म् । अ॒स्थुः॒ । घृ॒त॒॑प्रुषः᳚ । न । ऊ॒र्मयः᳚ । मद᳚न्तः ।
इन्द्र᳚ । प्र । तुभ्य᳚म् । वृष᳚॑भिः । सु॒ताना᳚म् । वृष्णे᳚ । भ॒र॒न्ति॒ । वृ॒ष॒भाय᳚ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषन् कामानांवर्षितरिन्द्र वृषणःसेक्तारोयुवानःत्वदीयाअश्वाःघृतप्रुषोनोर्मयः घृतमुदकंसिंचन्तः सामुद्राःतरंगाइवमदन्तः हृष्यन्तः मत्ताःसन्तःतेत्वदीयंद्रोणंद्रुममयंरथंआस्थुः आस्थितवन्तः अतस्त्वमागच्छेतिभावः कुतइत्यतआह हेइन्द्र वृष्णेयूनेनित्यतरुणायवृषभाय- कामानांवर्षयित्रेतुभ्यं वृषभिःकामाभिवर्षकैः ग्रावभिःसुतानामभिषुतानांसोमानांमध्येत्वद्भागरूपंसोमंयस्मादध्वर्यवः प्रभरन्ति प्रहरन्ति होमार्थंप्रणयन्ति तस्मादागच्छेत्यर्थः ॥ २० ॥

6.44.21 समानपद
वृषा᳚सि दि॒वो वृ᳚ष॒भः पृ᳚थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् ।
वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । अ॒सि॒ । दि॒वः । वृ॒ष॒भः । पृ॒थि॒व्याः । वृषा᳚ । सिन्धू᳚नाम् । वृ॒ष॒भः । स्तिया᳚नाम् ।
वृष्णे᳚ । ते॒ । इन्दुः᳚ । वृ॒ष॒भ॒ । पी॒पा॒य॒ । स्वा॒दुः । रसः᳚ । म॒धु॒॑पेयः᳚ । वरा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंदिवोद्युलोकस्यवृषासि हविर्भिःसेक्ताभवति पृथिव्याःभूमेश्चवृषभः कामानांवर्षिता सिंधूनांस्यन्दनशीलानांचनदीनांवृषा वर्षेणपूरयितासि तथास्तियानांसंघीभूतानां स्थावरजंगमात्मनांप्राणिनांवृषभः कामानांवर्षिताभवसि यद्वा स्तियाःसंघीभूताआपःता- सांवर्षितासि वृषभकामाभिवर्षकेन्द्र वरायश्रेष्ठायवृष्णो सेन्त्रे तेतुभ्यं त्वदर्थंस्वादुर्मधुरःरसोरसनीयःप्रशस्योरसवान्वारसात्मकोवा मधुपेयोमधुवत्पातव्यः इन्दुःसोमः पीपायाप्यायतेवर्धते अतस्त्वमागत्यतं सोमंपिबेतिभावः ॥ २१ ॥

6.44.22 समानपद
अ॒यं दे॒वः सह᳚सा॒ जाय᳚मान॒ इन्द्रे᳚ण यु॒जा प॒णिम᳚स्तभायत् ।
अ॒यं स्वस्य᳚ पि॒तुरायु᳚धा॒नीन्दु᳚रमुष्णा॒दशि᳚वस्य मा॒याः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । दे॒वः । सह᳚सा । जाय᳚मानः । इन्द्रे᳚ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् ।
अ॒यम् । स्वस्य᳚ । पि॒तुः । आयु᳚धानि । इन्दुः᳚ । अ॒मु॒ष्णा॒त् । अशि᳚वस्य । मा॒याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतमानःअयमिन्दुःसोमः इन्द्रेणयुजासख्यासहजायमानः प्रादुर्भवन् पणिंवणिजंगवामादातारं बलाख्यमसुरं यद्वा पणीनांस्वा- मित्वात् पणिरित्युच्यते तमसुरंसहसाबलेनअस्तभायत् अस्तभ्रात् न्यरुधत् अपिचअयंसोमःस्वस्यधनस्यगोरूपस्यपितुःपालयितुःअशिव- स्यासुखकरस्यबलस्यायुधानि वज्रादीनिअमुष्णादपाहरत् तदीयामायाश्चामुष्णात् हेइन्द्र त्वत्सख्यबलात् एतत्सर्वंसोमः कृतवान् अतस्त- वमहिमाकेनवर्णयितुंशक्यतइतीन्द्रस्तुतिः ॥ २२ ॥

6.44.23
अ॒यम᳚कृणोदु॒षसः᳚ सु॒पत्नी᳚र॒यं सूर्ये᳚ अदधा॒ज्ज्योति᳚र॒न्तः ।
अ॒यं त्रि॒धातु᳚ दि॒वि रो᳚च॒नेषु᳚ त्रि॒तेषु᳚ विन्दद॒मृतं॒ निगू᳚ळ्हम् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः᳚ । सु॒॑पत्नीः᳚ । अ॒यम् । सूर्ये᳚ । अ॒द॒धा॒त् । ज्योतिः᳚ । अ॒न्तरिति᳚ ।
अ॒यम् । त्रि॒॑धातु᳚ । दि॒वि । रो॒च॒नेषु᳚ । त्रि॒तेषु᳚ । वि॒न्द॒त् । अ॒मृत᳚म् । नि॑गू᳚ळ्हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंसोमः उषसःउषःकालान् सुपत्नीः शोभनः पतिः पालकः सूर्योयासामुषसांतादृशीरकृणोत् अकरोत् अयमेवसूर्येसूर्यमंडलेन्तर्मध्ये- ज्योतिस्तेजः अदधात् निहितवान् त्रिधातुसवनत्रयरूपेणत्रिप्रकारं अयंलतारूपः सोमः दिविद्युलोके रोचनेषुरोचमानेषु त्रितेषुतृतीये- स्थाने ततेषुविस्तृतेषुदेवेषुनिगूह्ळं नितरांगूढंअदृश्यतयावर्तमानं अमृतंअमृतत्वकारणं पीयूषंविन्दत् अविन्द्रत्अलभत हेइन्द्रत्वत्साहा- य्यादेवमेवंसोमः कृतवानीतीन्द्रस्यस्तुतिरधिगंतव्या यद्वा इदंशब्देनइन्द्रएवपरामृश्यते अयमिन्द्रः उषसः शोभनपतिकाअकरोत् अयमेव- सूर्येतज्ज्योतिरदधात् दिविद्युलोकेरोचमानेषुत्रिस्थानगतेषुदेवेषुमध्ये अयमेवेन्द्रःत्रिधातु सवनत्रयात्मनात्रिप्रकारंनिगूढं पात्रैः संवृतं अमृतंअमरणहेतुभूतंसोमंअविन्ददलभत ॥ २३ ॥

6.44.24
अ॒यं द्यावा᳚पृथि॒वी वि ष्क᳚भायद॒यं रथ᳚मयुनक्स॒प्तर᳚श्मिम् ।
अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश᳚यन्त्र॒मुत्स᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । द्यावा᳚पृथि॒वी इति᳚ । वि । स्क॒भा॒य॒त् । अ॒यम् । रथ᳚म् । अ॒यु॒न॒क् । स॒प्त॑र᳚श्मिम् ।
अ॒यम् । गोषु᳚ । शच्या᳚ । प॒क्वम् । अ॒न्तरिति᳚ । सोमः᳚ । दा॒धा॒र॒ । दश᳚॑यन्त्रम् । उत्स᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंसोमः द्यावापृथिवीदिवंचपृथिवींचविष्कभायत् विविधमस्थापयत् अपिचायंसोमः सूर्यस्यचरथंसप्तरश्मिंसप्तरश्मिभिःकिरणैरुपे- तं सप्ताश्वंसप्तचक्रंवाअयुनक् अयोजयत् तथाअयंसोमः गोष्वन्तर्मध्येपक्वंनिष्पन्नं शच्याप्रज्ञयासंकल्परूपयाउत्समुत्सरणशीलंपयः दाधार धारयति दशयंत्रं उत्सस्यहेतुगर्भविशेषणमेतत् उत्सरणहेतुभूतैर्दशभिःचक्षुःश्रोत्रादिभिःयंत्रैपायैर्युक्तं इदंचपदंखैलिकेनमंत्रान्तरेणव्याख्या- यते—चक्षुश्चश्रोत्रंचमनश्चवाक्चप्राणापानौदेहइदं शरीरम् । द्वौप्रत्यंचावनुलोमौविसर्गावेतंत्वंमन्येदशयंत्रमुत्समिति । यद्वाअयमिन्द्रः द्या- वापृथिवीविष्कभायत् स्वेस्वेस्थानेस्थितेअकरोत् अयमेवसप्तरश्मिं सूर्यस्यरथमयुनक् अयमेवेन्द्रोगोष्वन्तः शच्याआत्मीयेनकर्मणापक्वंप- योधारयति एवंभूतेन्द्रार्थंसोमःदशयंत्रं दशसंख्याकैरैन्द्रवावायवादिभिःग्रहैर्यंत्रितैःगृहीतैरुपेतं उत्संउत्सरणशीलं रसं दाधारधारयति प्रा- तःसवनेऎन्द्रवायवादयोदशग्रहागृह्यंते तथाचब्राह्मणं—नवप्रातर्ग्रहागृह्यंतेनवभिर्बहिष्पवमानेस्तुवतेस्तुतेस्तोमेदशमंगृह्णातीति । अन्य- त्राम्नातं—दशैतानध्वर्युःप्रातःसवनेग्रहान्गृह्णातीति । तदभिप्रायेणेदंदशयंत्रमितिविशेषणं ॥ २४ ॥

यआनयदितित्रयस्त्रिंशत्यृचंद्वितीयंसूक्तं बृहस्पतिपुत्रस्यशंयोरार्षं पुरूतममित्येषातिनिचृत् अधिबृबुरित्येषापादनिचृत् त्रयःसप्तकाः पादनिचृत् मध्यमःषटृश्चेदतिनित्युक्तलक्षणात् त्रयस्त्रिंश्यनुष्टुप् शिष्टागायत्र्यः अधिबृबुः पणीनामित्येस्मिन्नंत्येतृचेबृबुर्नामतक्षास्तूयते अतः सतृचःतद्देवताकः शिष्टास्त्रिंशदैन्द्मः तथाचानुक्रान्तं—यआनयत्रयस्त्त्रिंशद्गायत्रंपुरूतममितिनिचृदंत्यानुष्टुप् तृचेंत्येबृबुस्तक्षादैवत- मिति । महाव्रतेपिनिष्केवल्येअंत्यस्तृचवर्जमेतत्सूक्तं तथैवपंचमारण्यकं यआनयत्परावतइतितिस्रउत्तमामुद्धरतीति ।