इन्द्र॒ तुभ्य॒मिन्म᳚घवन्नभूम व॒यं दा॒त्रे ह᳚रिवो॒ मा वि वे᳚नः ।
नकि᳚रा॒पिर्द᳚दृशे मर्त्य॒त्रा किम॒ङ्ग र᳚ध्र॒चोद᳚नं त्वाहुः ॥
नकि᳚रा॒पिर्द᳚दृशे मर्त्य॒त्रा किम॒ङ्ग र᳚ध्र॒चोद᳚नं त्वाहुः ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । तुभ्य᳚म् । इत् । म॒घ॒॑व॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒॑वः॒ । मा । वि । वे॒नः॒ ।
नकिः᳚ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒॑त्रा । किम् । अ॒ङ्ग । र॒ध्र॒॑चोद᳚नम् । त्वा॒ । आ॒हुः॒ ॥
नकिः᳚ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒॑त्रा । किम् । अ॒ङ्ग । र॒ध्र॒॑चोद᳚नम् । त्वा॒ । आ॒हुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमघवन् धनवन्निन्द्र दात्रेकामानांदात्रे तुभ्यमित् तुभ्यमेव वयंशोषभूताअभूम यद्वा त्वदर्थमेवदात्रे हविषांदानेवर्तमानाः अभूम हेह- रिवः हरिवन्निन्द्र अतःकारणात् माविवेनः माविगतकामोभूः अस्मान् सर्वदाकामयस्व वेनतिःकान्तिकर्मा मर्त्यत्रा मर्त्येषुमनुष्येषुमध्ये आपिर्बन्धुः त्वत्तोन्यःकश्छिदपिनकिर्ददृशे नैवदृश्यते किमनेनविशेषकथेन अंग हेइन्द्र त्वा त्वां रध्रचादेन रध्रस्यराधकस्यसमृद्धस्यधन- स्यचोदनं चोदयितारं आहुः कथयन्ति पुराजाः ॥ १० ॥