अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य᳚स्य॒ राजा᳚ ।
यः पू॒र्व्याभि᳚रु॒त नूत᳚नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ᳚ण॒तामृषी᳚णाम् ॥
यः पू॒र्व्याभि᳚रु॒त नूत᳚नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ᳚ण॒तामृषी᳚णाम् ॥
पदपाठः (Word-by-word)
अध्व᳚र्यो॒ इति᳚ । वी॒र॒ । प्र । म॒हे । सु॒ताना᳚म् । इन्द्रा᳚य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा᳚ ।
यः । पू॒र्व्याभिः᳚ । उ॒त । नूत᳚नाभिः । गीः॒॑भिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी᳚णाम् ॥
यः । पू॒र्व्याभिः᳚ । उ॒त । नूत᳚नाभिः । गीः॒॑भिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी᳚णाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेवीर हविषांविशेषेणप्रेरयितरध्वर्यो महेमहतेअस्मैइन्द्रायसुतानां कर्मणिषष्ठी सुतानभिषुतान् सोमान्प्रभर प्रहर प्रगमय सहिखल्वि- न्द्रः अस्यसोमस्यराजास्वामीभवति यइन्द्रः पूर्व्याभिः पूर्वकालेकृताभिः उतापिच नूतनाभिःइदानींक्रियमाणाभिः गृणतांस्तुवतांऋषी- णांसंबन्धिनीभिर्गीर्भिः उभयविधाभिःस्तुतिभिर्वावृधेवर्धते सइन्द्रः यस्मात् सोमस्यराजातस्मादस्मैसोमःप्रदेयइत्यर्थः ॥ १३ ॥ प्रथमेरात्रिपर्यार्येमैत्रावरुणस्यअस्यमदइतिशस्त्रयाज्या सूत्रितंच—अस्यमदेपुरुवर्पांसिविद्वानितियाज्येति ।