अ॒यं दे॒वः सह᳚सा॒ जाय᳚मान॒ इन्द्रे᳚ण यु॒जा प॒णिम᳚स्तभायत् ।
अ॒यं स्वस्य᳚ पि॒तुरायु᳚धा॒नीन्दु᳚रमुष्णा॒दशि᳚वस्य मा॒याः ॥
अ॒यं स्वस्य᳚ पि॒तुरायु᳚धा॒नीन्दु᳚रमुष्णा॒दशि᳚वस्य मा॒याः ॥
पदपाठः (Word-by-word)
अ॒यम् । दे॒वः । सह᳚सा । जाय᳚मानः । इन्द्रे᳚ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् ।
अ॒यम् । स्वस्य᳚ । पि॒तुः । आयु᳚धानि । इन्दुः᳚ । अ॒मु॒ष्णा॒त् । अशि᳚वस्य । मा॒याः ॥
अ॒यम् । स्वस्य᳚ । पि॒तुः । आयु᳚धानि । इन्दुः᳚ । अ॒मु॒ष्णा॒त् । अशि᳚वस्य । मा॒याः ॥
सायणभाष्यम् (Sayana Commentary)
देवोद्योतमानःअयमिन्दुःसोमः इन्द्रेणयुजासख्यासहजायमानः प्रादुर्भवन् पणिंवणिजंगवामादातारं बलाख्यमसुरं यद्वा पणीनांस्वा- मित्वात् पणिरित्युच्यते तमसुरंसहसाबलेनअस्तभायत् अस्तभ्रात् न्यरुधत् अपिचअयंसोमःस्वस्यधनस्यगोरूपस्यपितुःपालयितुःअशिव- स्यासुखकरस्यबलस्यायुधानि वज्रादीनिअमुष्णादपाहरत् तदीयामायाश्चामुष्णात् हेइन्द्र त्वत्सख्यबलात् एतत्सर्वंसोमः कृतवान् अतस्त- वमहिमाकेनवर्णयितुंशक्यतइतीन्द्रस्तुतिः ॥ २२ ॥