ऋ॒तस्य᳚ प॒थि वे॒धा अ᳚पायि श्रि॒ये मनां᳚सि दे॒वासो᳚ अक्रन् ।
दधा᳚नो॒ नाम᳚ म॒हो वचो᳚भि॒र्वपु᳚र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ॥
दधा᳚नो॒ नाम᳚ म॒हो वचो᳚भि॒र्वपु᳚र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ॥
पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां᳚सि । दे॒वासः᳚ । अ॒क्र॒न् ।
दधा᳚नः । नाम᳚ । म॒हः । वचः᳚॑भिः । वपुः᳚ । दृ॒शये᳚ । वे॒न्यः । वि । आ॒व॒रित्या᳚वः ॥
दधा᳚नः । नाम᳚ । म॒हः । वचः᳚॑भिः । वपुः᳚ । दृ॒शये᳚ । वे॒न्यः । वि । आ॒व॒रित्या᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
ऋतस्ययज्ञस्यपथि मार्गे वेधाः विधाता सर्वस्यद्रष्टासोमः अपायि इन्द्रेणपीतोभूत् यद्वा वेधा विधाता इन्द्रः अपायि सोमंपिबतु व्य- त्ययेनकर्तरिचिण् तस्मिन् सोमेइन्द्रस्यमनांसि श्रिये श्रयितुं देवाः स्तोतारऋत्विजः अक्रन् कर्माणिकुर्वन्ति सचेन्द्रः नाम शत्रूणांनामकं महोमहत् आत्मीयंवपुःशरीरंदधानोधारयन् वचोभिः स्तुतिभिः वेन्योवननीयः संभजनीयश्चसन्दृशयेदर्शनार्थं व्यावः विव्रुणोतु प्रकाश- यतु अनुकूलंतेजइतिशेषः यद्वा वेन्यइतिवेनतेःकन्तिकर्मणोरूपं वपुरितिचरूपनाम वेन्यःकमनीयः वपुःभास्वरंरूपं दृशयेदर्शनार्थं व्यवः विवृणोतु वचोभिः स्तूयमानः सन् ॥ ८ ॥