त्वं वने᳚भ्य॒स्त्वमोष᳚धीभ्य॒स्त्वं नृ॒णां नृ᳚पते जायसे॒ शुचि᳚ः ॥
पदपाठः (Word-by-word)
त्वम् । वने᳚भ्यः । त्वम् । ओष᳚धीभ्यः । त्वम् । नृ॒णाम् । नृ॒॑प॒ते॒ । जा॒य॒से॒ । शुचिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
॥ अथद्वितीयंमण्डलम् ॥
शातर्चिनंप्रथमंमण्डलंव्याख्यतम् अथगार्त्समदंद्वितीयंमण्डलंव्याख्यायते त्वमग्नेद्युभिरित्यादिके- द्वितीयेमण्डलेचत्वारोनुवाकाः तेषुप्रथमेनुवाके एकादशसूक्तानि तत्रत्वमग्नेद्युभिरितिषोहशर्चंप्रथमं- सूक्तम् मण्डलद्रष्टागृत्समदऋषिः सचपूर्वमाङ्गिरसकुलेशुनहोत्रस्यपुत्रःसन् यज्ञकालेऽसुरैर्गृहीतःइन्द्रे- णमोचितः पश्चात्तद्वचनेनैवभृगुकुलेशुनकपुत्रोगृत्समदनामाभूत् तथाचानुक्रमणिकायआङ्गिरसः शौ- नहोत्रोभूत्वाभार्गवःशौनकोभ्वत्सगृत्समदोद्वितीयंमण्डलमपश्यदिति । तथातस्यैवशौनकस्यवचनमृ- ष्यनुक्रमणे त्वमग्नइतिगृत्समदःशौनकोभृगुतांगतः शौनहोत्रः प्रकृत्यातुयआंगिरसउच्यतइति । तस्मा- न्मण्डलद्रष्टाशौनकोगृत्समदऋषिः जगतीच्छन्दः मण्डलादिपरिभाषयाग्नेयं अत्रानुक्रमणिका—त्वम- ग्नेजागतंत्विति प्रातरनुवाकाश्विनशस्त्रयोर्जागतेछन्दसीदमादिसूक्तद्वयस्यविनियोगः त्वमग्नेद्युभिरि- तिसूक्तेइतिसूत्रितत्वात् उपाकरणोत्सर्जनयोरप्याद्याविनियुक्ता ।
हेअग्ने अग्रणीत्वादिगुणविशिष्ट हेनृणांनृपते नृणांमनुष्याणांमध्ये येनरोयष्टारःसन्ति तेषां विशेषे- णपालयितः यद्वोभाभ्यांपदाभ्यांबहुत्वंनित्यस्वामित्वंचप्रतिपाद्यते सर्वेषामपिनराणांनित्यपालके- त्यर्थः नृणामित्यस्यनिघाताभावश्छान्दसः तादृश हेदेव त्वंद्युभिर्यागदिवसैःनिमित्तभूतैर्जायसे यागा- र्थंमथनेनोत्पद्यसइत्यर्थः यद्वा तादृशैर्दिवसैः सहितोजायसे तत्तद्यागदिवसेषुप्रसिद्धोभवसीत्यर्थः त- थात्वमाशुशुक्षणिः जायसे आसर्वतोदीप्यमानोभवसि आङिउपपदेशुचदीप्तावित्येतस्यसन्नन्तस्यछा- न्दसमिदंरूपं यद्वा आशुशीघ्रंशुच् दीप्तः सन् यतः संसेव्यसइतिआशुशुचंशोकंसनोतिददातिशत्रुभ्यो- दाहादिनेत्याशुशुक्षणिः तादृशोभवसि एवंसर्वत्रप्रतिविशेषणं जायसइतियोज्यं हेअग्ने त्वं अद्भ्योवृ- ष्ट्युदकेभ्योजायसे वैद्युतरूपेणवाडवरूपेणवासमुद्रोदकेभ्यः त्वंअश्मनोमेघात् पाषाणाद्वापरिजायसे योअश्मनोरन्तरग्निंजजानेतिहिमन्त्रान्तरम् । त्वंवनेभ्यः वृक्षादिसमूहेभ्योदावरूपेण त्वमोषधीभ्यः वैश्वानररूपेण एवंमहानुभावस्त्वं मथनेनोत्पन्नः सन् सर्वात्मकोभवसीत्यर्थः शुचिरेवजायसे यद्वा शुचिरादित्यरूपोजायसइत्यर्थः अत्रत्वमग्नेद्युभिरहोभिरित्यादिनिरुक्तमनुसन्धेयम् ॥ १ ॥