प्र॒यक्ष॒ञ्जेन्यं॒ वसु᳚ श॒केम᳚ वा॒जिनो॒ यम᳚म् ॥
पदपाठः (Word-by-word)
प्र॒॑यक्ष᳚न् । जेन्य᳚म् । वसु᳚ । श॒केम᳚ । वा॒जिनः᳚ । यम᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
होताहोमनिष्पादकः चेतनः चेतयितास्मदनुष्ठितस्यपितापालकोस्मद्यज्ञस्यईदृशोग्निरजनिष्ट उत्पन्नः किमर्थंपितृभ्यः पालकेभ्योयजमानेभ्यः षष्ठ्यर्थेचतुर्थी तेषामूतयेरक्षणायच वयंचवाजिनः हविर्लक्षणान्नवन्तःसन्तः प्रयक्षंप्रकर्षेणपूज्यं जेन्यंजेतव्यं यमंयमयितव्यं वसुधनं शकेम शक्ताभूयास्म लब्धुमितिशेषः यद्वा वाजिनोन्नस्ययमंयमनंकर्तुंशकेमप्रयक्षंजेन्यंवसुधनमित्युपमानंउक्तलक्षणंधन- मिवतत् यथावरोद्धंशाक्नुमस्तद्वत् ॥ १ ॥