द्वितीयं मण्डलम् - सूक्तम् 10

6 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 2.10 - सम्पूर्णम्

1 / 6
ऋक्: 2.10.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
2.10.1
जो॒हूत्रो᳚ अ॒ग्निः प्र᳚थ॒मः पि॒तेवे॒ळस्प॒दे मनु᳚षा॒ यत्समि᳚द्धः ।
श्रियं॒ वसा᳚नो अ॒मृतो॒ विचे᳚ता मर्मृ॒जेन्य᳚ः श्रव॒स्य१॒᳚ः स वा॒जी ॥
▶ पदपाठः (Word-by-word)
जो॒हूत्रः᳚ । अ॒ग्निः । प्र॒थ॒मः । पि॒ता॑इ᳚व । इ॒ळः । प॒दे । मनु᳚षा । यत् । सम्॑इ᳚द्धः ।
श्रिय᳚म् । वसा᳚नः । अ॒मृतः᳚ । वि॑चे᳚ताः । म॒र्मृ॒जेन्यः᳚ । श्र॒व॒स्यः᳚ । सः । वा॒जी ॥
▶ सायणभाष्यम् (Sayana Commentary)

जोहूत्रः सर्वैर्यज्ञार्थंह्वातव्योहोतव्योवा ह्वयतेर्जुहोतेर्वारूपम् तादृशः प्रथमः अग्निर्वैदेवानामव- मइत्याम्नानात् । मुख्योयोग्निः यत् यदाइळः इलायाः पदेउत्तरवेद्यात्मकेस्थाने मनुषामनुष्येणयज- मानेनसमिद्धःसोग्निः पितेवदेवानांहविःप्रापणेनपालकोभवति श्रियंदीप्तिंवसानः आच्छादयन् अमृ- तः मरणधर्मरहितः विचेताः विविधप्रज्ञः श्रवस्यः श्रवइत्यन्ननाम तस्मै हितः वाजीबलवान् सोग्नि- र्मर्मृजेन्यः सर्वैःपरिचरणीयोभवति यङ्लुगन्तात् केन्यप्रत्ययः ॥ १ ॥

2.10.2
श्रू॒या अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚ मे॒ विश्वा᳚भिर्गी॒र्भिर॒मृतो॒ विचे᳚ताः ।
श्या॒वा रथं᳚ वहतो॒ रोहि᳚ता वो॒तारु॒षाह᳚ चक्रे॒ विभृ᳚त्रः ॥
▶ पदपाठः (Word-by-word)
श्रु॒याः । अ॒ग्निः । चि॒त्र॑भा᳚नुः । हव᳚म् । मे॒ । विश्वा᳚भिः । गीः॒॑भिः । अ॒मृतः᳚ । वि॑चे᳚ताः ।
श्या॒वा । रथ᳚म् । व॒ह॒तः॒ । रोहि᳚ता । वा॒ । उ॒त । अ॒रु॒षा । अह᳚ । च॒क्रे॒ । वि॑भृ᳚त्रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृतोमरणधर्मरहितोविचेताविशिष्टप्रज्ञः चित्रभानुः विचित्रदीप्तिः चायनीयदीप्तिर्वा सोग्निः विश्वाभिर्गीर्भिः स्तुतिसाधनभूतैः सर्वैर्वाक्यैः क्रियमाणं मे मम हवं स्तोत्रंश्रूयाः श्रृणोतु तस्याग्नेरथं श्यावाश्याववर्णौ अश्वौवहतः वाअपिवा रोहितारोहिद्वर्णौ उतापिच अरुषाआरोचमानावश्वौरथं वहतः रोहिद्वर्णयोरश्वयोःश्यावादिवर्णपरिग्रहः स्वेच्छयाभवति विभृत्रः नानास्थानेषु विहृतः चक्रे- अहऋत्विग्भिरकारिखलु करोतेःकर्मणिलिट् ॥ २ ॥

2.10.3 समानपद
उ॒त्ता॒नाया᳚मजनय॒न्त्सुषू᳚तं॒ भुव᳚द॒ग्निः पु᳚रु॒पेशा᳚सु॒ गर्भ᳚ः ।
शिरि᳚णायां चिद॒क्तुना॒ महो᳚भि॒रप᳚रीवृतो वसति॒ प्रचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
उ॒त्ता॒नाया᳚म् । अ॒ज॒न॒य॒न् । सु॑सू᳚तम् । भुव᳚त् । अ॒ग्निः । पु॒रु॒॑पेशा᳚सु । गर्भः᳚ ।
शिरि᳚णायाम् । चि॒त् । अ॒क्तुना᳚ । महः᳚॑भिः । अप᳚रि॑वृतः । व॒स॒ति॒ । प्र॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्तानायामुत्तानेशयायामरण्यांसुषूतं अग्निहोत्रार्थंसुष्ठुप्रेरितमग्निमजनयन् अध्वर्य्वादयौदपादयन् सोग्निः पुरुषेशासु पेशइतिरूपनाम बहुरूपास्वेषधीषुगर्भोभवतु अन्तर्वर्तमानतयागर्भइवभवेत् भवेत् भवतेर्लिङिरूपं शिरिणायांचित् शीर्यतेस्यांभूतानीतिशिरिणारात्रिः तस्यामपिअक्तुनाअञ्चनादक्तुस्त- मः तेनतमसाअपरिवृतः असंस्पृष्टः अतएवमहोभिस्तेजोभिर्युक्तः प्रचेताः प्रकृष्टप्रज्ञःसन् वसति दीप्य- मानोवर्तते ॥ ३ ॥

2.10.4
जिघ᳚र्म्य॒ग्निं ह॒विषा᳚ घृ॒तेन᳚ प्रतिक्षि॒यन्तं॒ भुव᳚नानि॒ विश्वा᳚ ।
पृ॒थुं ति᳚र॒श्चा वय᳚सा बृ॒हन्तं॒ व्यचि᳚ष्ठ॒मन्नै᳚ रभ॒सं दृशा᳚नम् ॥
▶ पदपाठः (Word-by-word)
जिघ᳚र्मि । अ॒ग्निम् । ह॒विषा᳚ । घृ॒तेन᳚ । प्र॒ति॒॑क्षि॒यन्त᳚म् । भुव᳚नानि । विश्वा᳚ ।
पृ॒थुम् । ति॒र॒श्चा । वय᳚सा । बृ॒हन्त᳚म् । व्यचि᳚ष्ठम् । अन्नैः᳚ । र॒भ॒सम् । दृशा᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वासर्वाणिभुवनानिप्रतिक्षियन्तंवैश्वानरत्मनाधितिष्ठन्तं पृथुंमहांतं तिरश्चसर्वतःप्रवर्तमानेन- वयसापेशसाबृहन्तंप्रवृद्धं अन्नैर्हविर्लक्षणैर्व्यचिष्ठंव्याप्तं रभसंबलवन्तंदृशानं एवंगुणवत्तयादृश्यमान- मग्निंपुरोडाशादिलक्षणेनहविषाघृतेनचजिघर्मि सिञ्चामि प्रतिह्येषसर्वाणिभूतानिक्षेति पृथुंतिरश्चा- वयसाधूमेनबृहन्तंव्यचिष्ठमन्नैरभसंदृशान मित्यवकाशनवन्तमन्नैरन्नादंदीप्यमानमित्ये तदाविश्वत- इत्यासर्वतः प्रत्यंचंजुहोमीत्येतदरक्षसेत्यहेळमानेनमनसेदंजुषेतेत्येतन्मर्यश्रीरितिमर्यश्रीरित्येषस्पृ- हयद्वर्णोअग्निर्नाभिमृशइतिनह्येषमृशेतदीप्यमानोभवतीति ॥ ४ ॥

2.10.5
आ वि॒श्वतः᳚ प्र॒त्यञ्चं᳚ जिघर्म्यर॒क्षसा॒ मन᳚सा॒ तज्जु᳚षेत ।
मर्य᳚श्रीः स्पृह॒यद्व᳚र्णो अ॒ग्निर्नाभि॒मृशे᳚ त॒न्वा॒३॒᳚ जर्भु᳚राणः ॥
▶ पदपाठः (Word-by-word)
आ । वि॒श्वतः᳚ । प्र॒त्यञ्च᳚म् । जि॒घ॒र्मि॒ । अ॒र॒क्षसा᳚ । मन᳚सा । तत् । जु॒षे॒त॒ ।
मर्य᳚॑श्रीः । स्पृ॒ह॒यत्॑व᳚र्णः । अ॒ग्निः । न । अ॒भि॒॑मृशे᳚ । त॒न्वा᳚ । जर्भु᳚राणः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वतः सर्वत्रव्याप्यवर्तमानंप्रत्यंचंयज्ञंप्रत्यागच्छ्न्तं अग्निंयेनघृतेनआजिघर्मि आसिञ्चामि अर- क्षसाबाधकरहितेनमनसास्तोत्रेणसहतदाज्यंजुषेत भवान्सेवेत मर्गश्रीः मर्यैर्मर्त्यैः श्रयणीयोभजनीयः स्पृहयद्वर्णंयजमानःस्प्रुहयति तादृशवर्णौपेतः तन्वातेजसाजर्भुराणः पूर्यमाणोग्निः नाभिमुशे अति- तेजस्वितयाअभिमर्४शनीयोनभवति अभिपूर्वान्मृशेःक्रुत्यार्थेकेन्प्रत्ययः ॥ ५ ॥

2.10.6 समानपद
ज्ञे॒या भा॒गं स᳚हसा॒नो वरे᳚ण॒ त्वादू᳚तासो मनु॒वद्व᳚देम ।
अनू᳚नम॒ग्निं जु॒ह्वा᳚ वच॒स्या म᳚धु॒पृचं᳚ धन॒सा जो᳚हवीमि ॥
▶ पदपाठः (Word-by-word)
ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे᳚ण । त्वा॑दू᳚तासः । म॒नु॒॑वत् । व॒दे॒म॒ ।
अनू᳚नम् । अ॒ग्निम् । जु॒ह्वा᳚ । व॒च॒स्या । म॒धु॒॑पृच᳚म् । ध॒न॒॑साः । जो॒ह॒वी॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरेणवारयत्यनेनशत्रूनितिवरंतेजः तेनसहमानः शत्रूनभिभवन् त्वंभागंभजनीयंस्तोत्रंज्ञेयाः जा- नीहि आशिर्लिङि वान्यस्यसंयोगादेरित्येत्वं त्वादूतासः त्वंदूतोयेषामसितेत्वादूतासः यद्वा त्वयाप्रे- रितावयंमनुवत् मनुरिव वदेम स्तोत्रं ब्रूयाम जुह्वा हूयतेस्यामितिजुहूर्ज्वालापात्रविशेषोवा तयाअ- नूनंसंपूर्णंमधुपृचं मधुनाकर्मफलेनयजमानंसंयोजयन्तमग्निंधनसाः धनस्यसंभक्ताहंवचस्यास्तुतिका- मनयाजोहवीमि आह्वयामि ॥ ६ ॥

श्रुधीहवमित्येकविंशत्यृचमेकादशंसूक्तम् गार्त्समदं अत्रानुक्रमणिका श्रुधिसैकैन्द्रंविराट् स्थानमृ- तेन्त्यामिति विराट् स्थानात्रिष्टुप् तल्लक्षणमनुक्रमण्यामुक्तम्—नबकौबैराजस्त्रैष्टुभश्च द्वौवावैराजौ- नवकस्त्रैष्टुभश्चविराट्स्थानेति । अन्त्यात्रिष्टुप् विशेषस्यानुक्तत्वात् इन्द्रोदेवता पृष्ठ्यस्यचतुर्थेहनि- मरुत्वतीयशस्त्रेद्वेसूक्तेनिविद्धाने तत्रेदंतृतीयंसूक्तं चतुर्थेहनीतिखण्डेसूत्रितं—श्रुधीहवमिन्द्रमरुत्वाँ- इन्द्रेतिमरुत्वतीयमिति ।