अ॒ग्निर्भा॒नुना॒ रुश᳚ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । भा॒नुना᳚ । रुश᳚ता । सु॒॑अङ्गः᳚ । आ । जा॒तः । विश्वा᳚ । सद्मा᳚नि । अ॒प्राः॒ ॥
सायणभाष्यम् (Sayana Commentary)
बृहन्महानेषोग्निः उषसामग्रे उषसामुपरि उषःकाले ऊर्ध्वः प्रज्वलितः सन् ज्वालारूपे- ण अस्थात् तिष्ठति ततस्तमसः रात्रिनामैतत् रात्रेर्निर्जगन्वान् निर्गतः गमः क्वसाविडभावे रूपं निर्गतः निष्क्रान्तवान् सोग्निर्ज्योतिषा स्वीयेन तेजसा लक्षितः सन् आगात् गार्हप- त्यात् विह्रियमाणआहवनीयं प्रत्यागच्छति । अनन्तरं स्वंगः शोभनज्वालावयवः जातः कर्मार्थं समुत्पन्नएषोग्निः रुशता रोचतेर्ज्वलतिकर्मणइदं रूपं आरोचमानेन यद्वा रुश्तिर्हिं- सार्थः तमसां हिंसकेन भानुनातेजसा विश्वासद्मानि सर्वान् लोकान् यद्वा सदनानि यज्ञ- गृहाणि आप्राः आपूरयति । प्रापूरणे तिङांतिङोभवन्तीति तिपः सिबादेशः । अत्र वाज- सनेयकम्—अग्ने बृहन्नुषसामूर्ध्वोअस्थादित्यग्रेह्येषबृहन्नुषसामूर्ध्वस्तिष्ठतिनिर्जगन्वान् तमसो- ज्योतिषागादितिनिर्जगन्वान्रात्रेस्तमसोज्योतिषेतिअग्निर्भानुनारुशतास्वंगइत्यग्निर्वाएषभानुना- रुशतास्वंगआजातोविश्वासद्मान्यप्राइतिइमेवैलोकाविश्वासद्मानितानेषजातआपूरयतीति ॥ १ ॥