उ॒क्थेषु᳚ श॒स्यमा᳚नेषु॒ यः पश्या॒दुत्त᳚रे यु॒गे ॥
पदपाठः (Word-by-word)
उ॒क्थेषु᳚ । श॒स्यमा᳚नेषु । यः । पश्या᳚त् । उत्॑त᳚रे । यु॒गे ॥
सायणभाष्यम् (Sayana Commentary)
तत्र देवानामिति नवर्चमनुवाकापेक्षया चतुर्थं सूक्तमानुष्टुभं देवदेवत्यम् । लिकनाम्नः पुत्रो बृहस्पतिराङ्गिरस एव वा बृहस्पतिरृहिः। अथवा दक्षस्य दुहितादिति रुषिः। तथा चानुक्रान्तम्। देवानाम् नव लौक्यो वा बृहस्पतिर्दाक्षायण्यदितिर्वा दैवमानुष्तुभमिति। गतः सूक्तविनियोगः॥
अदितिर्दाक्षायण्यनेन सूक्तेन्द् स्वयं यथादित्यानजनयत्तद्ब्रवीति। बृहस्पत्यृषिपक्शे स ऋषिरदितेः सकाशादादित्योत्पत्तिप्रकारमाह। वयम् देवानामादित्यानाम् जाना जन्मानि प्र वोचाम। प्रकथयाम। विपन्यया विस्पष्टया वाचा। वयमिति वोचामेति चोभयत्र पूजार्थं बहुवचनम् । अथैकवदाह। यो देवानां गणः पूर्वे युग उत्पन्नोऽप्युक्थेषु शस्यमानेषु यागे शस्त्रेष्वनुष्ठीयमानेषूत्तरे युगे वर्तमानं स्तुवन्तं स्तोतारं पस्यात् पश्यति। अनेकेष्वपि युगेषु गतेषु कर्मसु सूयमानो वर्तत इत्यर्थः॥१॥