दशमं मण्डलम् - सूक्तम् 175

4 ऋचः

ऋषिः: ऊर्ध्वग्रावार्बुदिः देवता: ग्रावाणः छन्दः: गायत्री

सूक्तम् 10.175 - सम्पूर्णम्

1 / 4
ऋक्: 10.175.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.175.1
प्र वो᳚ ग्रावाणः सवि॒ता दे॒वः सु᳚वतु॒ धर्म᳚णा ।
धू॒र्षु यु᳚ज्यध्वं सुनु॒त ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । ग्रा॒वा॒णः॒ । स॒वि॒ता । दे॒वः । सु॒व॒तु॒ । धर्म᳚णा ।
धूः॒॑सु । यु॒ज्य॒ध्व॒म् । सु॒नु॒त ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र व इति चतुरृचं चतुर्विंशं सूक्तं गायत्रम् । अर्बुदस्य सर्पर्षेः पुत्र ऊर्ध्वग्रावा नामर्षिः। सोमाभिषवार्था ग्रावाणो देवता। तथा चानुक्रान्तम्। प्र वश्चतुष्कमूर्ध्वग्रावार्बुदिर्ग्राव्णोऽस्तौद्गायत्रमिति। ग्रावस्तोत्र एतत्सूक्तम्। सूत्रितं च। अ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः। आ. ५-१२। इति। यद्वा। इदमेकमेव सूक्तं ग्रावस्तोत्रम्। सूत्र्यते हि। प्र वो ग्रावाण इत्येक उक्तम् सर्पणम्। आ. ५-१२। इति॥

हे ग्रावाणः सोमाभिषवार्थाः पाषाणाः वो युष्मान्सविता प्रेरको देवो धर्मणात्मीयेन धारणेन कर्मणा प्र सुवतु। अभिशवार्थं प्रेरयतु। षू प्रेरणे। तौदादिकः। यूयं च धूर्ष्वभिषवस्थानेशु प्राच्यादिमहादिक्षु युज्यध्वम्। युक्ता भवत। अनन्तरं सुनुत। अभिषुणुत सोमम्॥१॥

10.175.2
ग्रावा᳚णो॒ अप᳚ दु॒च्छुना॒मप᳚ सेधत दुर्म॒तिम् ।
उ॒स्राः क᳚र्तन भेष॒जम् ॥
▶ पदपाठः (Word-by-word)
ग्रावा᳚णः । अप᳚ । दु॒च्छुना᳚म् । अप᳚ । से॒ध॒त॒ । दुः॒॑म॒तिम् ।
उ॒स्राः । क॒र्त॒न॒ । भे॒ष॒जम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ग्रावाणः दुच्छुनां दुःखकारिणीं शत्रुभूतां प्रजामप सेधत। आस्मत्तोऽपगमयत। षिधु गत्याम्। तथा दुर्मतिं दुष्टाभिसन्धिं चाप सेधत। भेषजम् सुखमस्माकं यथा भवति तथोस्रा गा कर्तन। कुरुत। करोतेश्छान्द्सओ विकरणस्य लुक्। तप्तनप्त नथनाश्चेति तनबादेशः॥२॥

10.175.3
ग्रावा᳚ण॒ उप᳚रे॒ष्वा म᳚ही॒यन्ते᳚ स॒जोष᳚सः ।
वृष्णे॒ दध᳚तो॒ वृष्ण्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ग्रावा᳚णः । उप᳚रेषु । आ । म॒ही॒यन्ते᳚ । स॒॑जोष᳚सः ।
वृष्णे᳚े॒ । दध᳚तः । वृष्ण्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रावाणो दिक्ष्ववस्थिताः पाषाणाः सजोषसः सह प्रीयमाणाः सङ्गताः सन्तो वोपरेषु। उपरो नामाभिषवाय चतुर्णां ग्राव्णां मध्ये स्थापितो विस्तृतः पाशाणः। प्रदेशापेक्षं बहुवचनम्। उपरस्य प्रान्तेषु महीयन्ते। प्रकाशन्ते। आकारः पूरणः। किं कुर्वन्तः। वृष्णे वर्षित्रे सोमाय वृष्ण्यं वीर्यं दधतः प्रयच्छन्तः॥३॥

10.175.4
ग्रावा᳚णः सवि॒ता नु वो᳚ दे॒वः सु᳚वतु॒ धर्म᳚णा ।
यज᳚मानाय सुन्व॒ते ॥
▶ पदपाठः (Word-by-word)
ग्रावा᳚णः । स॒वि॒ता । नु । वः॒ । दे॒वः । सु॒व॒तु॒ । धर्म᳚णा ।
यज᳚मानाय । सु॒न्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो दानादिगुणयुक्तः सविता हे ग्रावाणो वो युष्मान्धर्मणात्मीयेन धारणेन नु क्षिप्रं प्र सुवतु। अभिषवे प्रेरयतु। किमर्थम् । सुन्वते सोमाभिषवं कुर्वते यजमानाय यजमानार्थम्। तस्य यागनिष्पत्तय इत्यर्थः॥४॥