दशमं मण्डलम् - सूक्तम् 28

12 ऋचः

ऋषिः: इंद्रस्नुषा वसुक्रपत्नी ऋषिका देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.28 - सम्पूर्णम्

1 / 12
ऋक्: 10.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.28.1
विश्वो॒ ह्य१॒᳚न्यो अ॒रिरा᳚ज॒गाम॒ ममेदह॒ श्वशु᳚रो॒ ना ज᳚गाम ।
ज॒क्षी॒याद्धा॒ना उ॒त सोमं᳚ पपीया॒त्स्वा᳚शित॒ः पुन॒रस्तं᳚ जगायात् ॥
▶ पदपाठः (Word-by-word)
विश्वः᳚ । हि । अ॒न्यः । अ॒रिः । आ॒॑ज॒गाम᳚ । मम᳚ । इत् । अह᳚ । श्वशु᳚रः । न । आ । ज॒गा॒म॒ ।
ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम᳚म् । प॒पी॒या॒त् । सु॑आ᳚शितः । पुनः᳚ । अस्त᳚म् । ज॒गा॒या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया वसुक्रपत्नी स्तौति—अन्यइन्द्रव्यतिरिक्तः अरिः अर्यः ईश्वरः विश्वोहि सर्वएव देवगणआजगाम अस्मद्यज्ञं प्रत्याययौ । इदित्यवधारणे अहेत्यद्भुते । सर्वदेवगणे आगते सति ममैव श्वशुरः इन्द्रोनाजगाम सइन्द्रोयद्यागच्छेत्तर्हि धानाः भृष्टयवान् जक्षीयात् भक्षयेत् । उतापिच सोममभिषुतं पपीयात् ततः स्वाशितः सुष्ठु भुक्तः तृप्तः सन् पुनर्भूयः अस्तं स्वगृहं प्रति जगायात् गच्छेत् ॥ १ ॥

10.28.2 समानपद
स रोरु᳚वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒ वर्ष्म᳚न्तस्थौ॒ वरि᳚म॒न्ना पृ᳚थि॒व्याः ।
विश्वे᳚ष्वेनं वृ॒जने᳚षु पामि॒ यो मे᳚ कु॒क्षी सु॒तसो᳚मः पृ॒णाति᳚ ॥
▶ पदपाठः (Word-by-word)
सः । रोरु᳚वत् । वृ॒ष॒भः । ति॒ग्म॑शृ᳚ङ्गः । वर्ष्म᳚न् । त॒स्थौ॒ । वरि᳚मन् । आ । पृ॒थि॒व्याः ।
विश्वे᳚षु । ए॒न॒म् । वृ॒जने᳚षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति᳚ । सु॒त॑सो᳚मः । पृ॒णाति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभः कामानां वर्षिता तिग्मश्रृंगः तीक्ष्णरश्मिः सइन्द्रोहं पृथिव्याअन्तरिक्षस्य वर्ष्मन् वर्ष्मनि वर्ष्मन् शब्दउन्नतवचनः स्थिर्वचनोवा एवंभूते वरिमन् विस्तीर्णे प्रदेशे रोरुवत् भृशं शब्दायमानः सन् आतस्थौ आतिष्ठामि । एवं भूतोहं विश्वेषु सर्वेषु वृजनेफ़्द्षु संग्रा- मेषु एनमीदृशं वसुक्रं यजमानं पामि रक्षामि योयजमानः सुतसोमः अभिषुतसोमः मे मम कुक्षी उभौ पार्श्वौ पृणाति सोमरसपुरोडाशादिहविर्भिः पूरयति ईदृशं रक्षामीति संबंधः ॥ २ ॥

10.28.3
अद्रि᳚णा ते म॒न्दिन᳚ इन्द्र॒ तूया᳚न्त्सु॒न्वन्ति॒ सोमा॒न्पिब᳚सि॒ त्वमे᳚षाम् ।
पच᳚न्ति ते वृष॒भा{4} अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म᳚घवन्हू॒यमा᳚नः ॥
▶ पदपाठः (Word-by-word)
अद्रि᳚णा । ते॒ । म॒न्दिनः᳚ । इ॒न्द्र॒ । तूया᳚न् । सु॒न्वन्ति᳚ । सोमा᳚न् । पिब᳚सि । त्वम् । ए॒षा॒म् ।
पच᳚न्ति । ते॒ । वृ॒ष॒भान् । अत्सि᳚ । तेषा᳚म् । पृ॒क्षेण᳚ । यत् । म॒घ॒॑व॒न् । हू॒यमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदर्थं मन्दिनः मादयितॄन् तूयान् अविलंबितान् सोमान् अद्रिणा अभिष- वग्राद्व्णा सुन्वन्ति यजमानाअभिषुण्वन्ति । एषामस्मदादियजमानानां संबंधीन् सोमान् त्वं पिबसि । किञ्च ते त्वदर्थं वृषभान् पशून् ये यजमानाः पचन्ति तेषां संबंधि हविर्भू- तान् अत्सि भक्षयसि । हे मघवन् धनवन्निन्द्र त्वं यत् यदा पृक्षेण हविर्भूतेनान्नेन निर्मितेन हूयमानः यजमानैर्हूयसे तदेति पूर्वेण संबंधः ॥ ३ ॥

10.28.4
इ॒दं सु मे᳚ जरित॒रा चि᳚किद्धि प्रती॒पं शापं᳚ न॒द्यो᳚ वहन्ति ।
लो॒पा॒शः सिं॒हं प्र॒त्यञ्च᳚मत्साः क्रो॒ष्टा व᳚रा॒हं निर᳚तक्त॒ कक्षा᳚त् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । सु । मे॒ । ज॒रि॒तः॒ । आ । चि॒कि॒द्धि॒ । प्र॒ति॒॑ई॒पम् । शाप᳚म् । न॒द्यः᳚ । व॒ह॒न्ति॒ ।
लो॒पा॒शः । सिं॒हम् । प्र॒त्यञ्च᳚म् । अ॒त्सा॒रिति᳚ । क्रो॒ष्टा । व॒रा॒हम् । निः । अ॒त॒क्त॒ । कक्षा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जरितः शत्रूणां जरयितरिन्द्र त्वं मे मम सुशोभनमपि इदमीदृशं रूपं सामर्थ्यं आ- चिकिद्धि आसमंताज्जानीहि । कीदृशं नद्योगंगाद्याः सरितः प्रतीपं प्रतिकूलं शापं उदकं वहन्ति । अपिच लोपाशः लुप्यमानं तृणमश्नातीति लोपाशोमृगः मया प्रेषितः सन् प्रत्य- ञ्चं आत्मानं प्रतिगच्छन्तं सिंहं अत्साः अत्सात् आभिमुख्येन गच्छति । तथा क्रोष्टा श्रृगा- लः वराहं बलवन्तमपि सूकरं कक्षात् अभिगहनदेशान्निरतक्त निर्गमयति एतदपि सर्वं सामर्थ्यं त्वत्पुत्रे मयि त्वत्प्रसादाल्लब्धमपि जानीहीत्यर्थः ॥ ४ ॥

10.28.5
क॒था त᳚ ए॒तद॒हमा चि᳚केतं॒ गृत्स᳚स्य॒ पाक᳚स्त॒वसो᳚ मनी॒षाम् ।
त्वं नो᳚ वि॒द्वा{4} ऋ᳚तु॒था वि वो᳚चो॒ यमर्धं᳚ ते मघवन्क्षे॒म्या धूः ॥
▶ पदपाठः (Word-by-word)
क॒था । ते॒ । ए॒तत् । अ॒हम् । आ । चि॒के॒त॒म् । गृत्स᳚स्य । पाकः᳚ । त॒वसः᳚ । म॒नी॒षाम् ।
त्वम् । नः॒ । वि॒द्वान् । ऋ॒तु॒॑था । वि । वो॒चः॒ । यम् । अर्ध᳚म् । ते॒ । म॒घ॒॑व॒न् । क्षे॒म्या । धूः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पाकः पक्तव्यप्रज्ञोहं गृत्सस्य मेधाविनस्तवसोवृद्धस्य ते तव मनीषां स्तुतिं कर्तुमिति शेषः एतदीदृशं त्वदीयं सामर्थ्यं कथा कथं केन प्रकारेण आचिकेतं आसमंता- ज्जानामि । त्वदुपदेशं विना न जानामीत्यर्थः । तस्मात्कारणात् विद्वान्सर्वज्ञस्त्वमेव नोस्म भ्यं ऋतुथा काले विवोचः विशेषेण ब्रूहि । हे मघवन् धनवन्निन्द्र ते तव अर्धं यं स्तुत्य वयवं वयं कुर्मः सा स्तुतिः क्षेम्या क्षेमेभवा क्लेशरहिता वोढुं शक्या धूरस्ति यस्मात् अतः स्तुत्यवयवमेव वयमक्लेशॆन कर्तुं न शक्नुमः अस्माकं मंदबुद्धित्वात् । तस्मात्त्वमेवा स्मभ्यं स्वसामर्थ्यं स्तुतिप्रकारं च पुनरपि कथयेत्यर्थः ॥ ५ ॥

10.28.6
ए॒वा हि मां त॒वसं᳚ व॒र्धय᳚न्ति दि॒वश्चि᳚न्मे बृह॒त उत्त᳚रा॒ धूः ।
पु॒रू स॒हस्रा॒ नि शि᳚शामि सा॒कम᳚श॒त्रुं हि मा॒ जनि᳚ता ज॒जान᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । हि । माम् । त॒वस᳚म् । व॒र्धय᳚न्ति । दि॒वः । चि॒त् । मे॒ । बृ॒ह॒तः । उत्॑त᳚रा । धूः ।
पु॒रु । स॒हस्रा᳚ । नि । शि॒शा॒मि॒ । सा॒कम् । अ॒श॒त्रुम् । हि । मा॒ । जनि᳚ता । ज॒जान᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हि यस्मात्कारणात् एव एवमुक्तप्रकारेण तवसं प्रवृद्धं मां स्तोतारः स्तुतिभिः स्तुव- न्तः वीर्येण वर्धयन्ति तस्मत्कारणात् बृहतोमहतो मे ममेन्द्रस्य दिवश्चित् द्युलोकादपि धूः स्तुतिः उत्तरा उद्गततरा अधिकतरा । किञ्च पुरु पुरूणि बहूनि मे सहस्रा शत्रूणां सहस्राणि साकं युगपत् निशिशामि तनूकरोमि हिनस्मीत्यर्थः । हि यस्मात्कारणात् जनि- ता सर्वस्य जनयिता प्रजापतिः मा मां इन्द्रं अशत्रुं अविद्यमानशत्रुं जजान जनितवान् ॥ ६ ॥

10.28.7
ए॒वा हि मां त॒वसं᳚ ज॒ज्ञुरु॒ग्रं कर्म᳚न्कर्म॒न्वृष᳚णमिन्द्र दे॒वाः ।
वधीं᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नो॑प᳚ व्र॒जं म᳚हि॒ना दा॒शुषे᳚ वम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । हि । माम् । त॒वस᳚म् । ज॒ज्ञुः । उ॒ग्रम् । कर्म᳚न्॑कर्मन् । वृष᳚णम् । इ॒न्द्र॒ । दे॒वाः ।
वधी᳚म् । वृ॒त्रम् । वज्रे᳚ण । म॒न्द॒सा॒नः । अप᳚ । व्र॒जम् । म॒हि॒ना । दा॒शुषे᳚ । व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हि यस्मात्कारणात् एव एवमनेनोक्तप्रकारेण हे इन्द्र देवाः मरुददायः ऋत्विग्यजमा नवा तवसं महान्तं त्वत्पुत्रं त्वद्रूपनिरूपणावस्थितं संतं वसुक्रं मां कर्मन् कर्मन् वृत्रवधा ग्निहोत्रादौ सर्वस्मिन्कर्मणि उग्रं शूरमसह्यं वा वृषणं वर्षितारं हविषां दातारं जज्ञुः जान न्ति । अतः मन्दसानोमोदमानोहं वज्रेणायुधेन वृत्रं मेघमसुरं वावधीं अवधिषम् । किञ्च दा- शुषे हविर्दत्तवते यजमानाय वृष्टिप्रदानार्थं महिना महत्त्वेन व्रजं मेघसमूहं अपवं अपावं अपावृणोमि ॥ ७ ॥

10.28.8 समानपद
दे॒वास᳚ आयन्पर॒शू{4}र᳚बिभ्र॒न्वना᳚ वृ॒श्चन्तो᳚ अ॒भि वि॒ड्भिरा᳚यन् ।
नि सु॒द्र्वं१॒᳚ दध᳚तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द᳚हन्ति ॥
▶ पदपाठः (Word-by-word)
दे॒वासः᳚ । आ॒य॒न् । प॒र॒शून् । अ॒बि॒भ्र॒न् । वना᳚ । वृ॒श्चन्तः᳚ । अ॒भि । वि॒ट्॑भिः । आ॒य॒न् ।
नि । सु॒॑द्र्व᳚म् । दध᳚तः । व॒क्षणा᳚सु । यत्र᳚ । कृपी᳚टम् । अनु᳚ । तत् । द॒ह॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवासोदेवाः इन्द्रेण चोदिताः सन्तः आयन् गच्छन्ति मेघवधार्थं परशून् वज्रान् अबि- भ्रन् धारयन्ति तदनंतरं विङ्भिः मरुदादिप्रजाभिः सहितावृश्चद्न्तः मेघान् छिन्दन्तः वना वनानि वृष्टिलक्षणान्युदकानि अभ्यायन् आभिमुख्येन गच्छन्ति । ततः सुद्र्वं शोभनद्रवणं वृष्ट्युदकं वक्षणासु नदीषु निदधतः नियमेन स्थापयन्तः यत्र यस्मिन्मेघजाते कृपीटं उदकनामैतत् निगूढमुदकं तिष्ठति तइमे देवाः तन्मेघजातं अनुलक्षीकृत्य दहन्ति उदकनि- र्गमनार्थं शोषयन्ति ॥ ८ ॥

10.28.9
श॒शः क्षु॒रं प्र॒त्यञ्चं᳚ जगा॒राद्रिं᳚ लो॒गेन॒ व्य᳚भेदमा॒रात् ।
बृ॒हन्तं᳚ चिदृह॒ते र᳚न्धयानि॒ वय᳚द्व॒त्सो वृ᳚ष॒भं शूशु᳚वानः ॥
▶ पदपाठः (Word-by-word)
श॒शः । क्षु॒रम् । प्र॒त्यञ्च᳚म् । ज॒गा॒र॒ । अद्रि᳚म् । लो॒गेन᳚ । वि । अ॒भे॒द॒म् । आ॒रात् ।
बृ॒हन्त᳚म् । चि॒त् । ऋ॒ह॒ते । र॒न्ध॒या॒नि॒ । वय᳚त् । व॒त्सः । वृ॒ष॒भम् । शूशु᳚वानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुक्रइन्द्रंप्रति ब्रूते—शशः एतत्संज्ञितोमया प्रेरितोमृगविशेषः प्रत्यञ्चं वधायात्मानं प्र- तिगच्छन्तं क्षुरं क्षुरवन्तं दृढदीर्घतीक्ष्णनखं सिंहव्याघ्नादिकं बलवत्क्रूरमृगमित्यर्थः जगार गिरति गृह्णानि वा । किञ्च लोगेन लोष्टेन अद्रिं हिमवदादिकं पर्वतं आराद्दूरस्थितमपि व्यभेदं अहं भिनद्मि । बृहन्तं चित् महान्तमपि हस्त्यादिकं ऋहते ह्रस्वकाय अल्पाय शशकादिकाय रंधयानि वशंगमयानि । शूशुवानः वीर्येण वर्धमानोवत्सः वृषभं महोक्षं वयत् युद्धाय गच्छति । हे इन्द्र एतदपि सर्वं त्वत्प्रसादादहं करोमीत्यर्थः ॥ ९ ॥

10.28.10 समानपद
सु॒प॒र्ण इ॒त्था न॒खमा सि᳚षा॒याव᳚रुद्धः परि॒पदं॒ न सिं॒हः ।
नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न्गो॒धा तस्मा᳚ अ॒यथं᳚ कर्षदे॒तत् ॥
▶ पदपाठः (Word-by-word)
सु॒॑प॒र्णः । इ॒त्था । न॒खम् । आ । सि॒सा॒य॒ । अव᳚॑रुद्धः । प॒रि॒॑पद᳚म् । न । सिं॒हः ।
नि॒॑रु॒द्धः । चि॒त् । म॒हि॒षः । त॒र्ष्या॑वा᳚न् । गो॒धा । तस्मै᳚ । अ॒यथ᳚म् । क॒र्ष॒त् । ए॒तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुपर्णः पक्षिरूपा गायत्री इत्था अमुत्र द्युलोके नखमात्मीयं आसिषाय सोमाहरण- काले इन्द्रार्थमाबबन्ध इन्द्रस्य प्रसादात् दिवि पदं न्यस्तवतीत्यर्थः । तत्रदृष्टान्तः—अवरु- द्धः पंजरेणावृतः परिवेष्टितः सिंहः परिपदं न यथा करस्योपरि सर्वतः पादमवबध्नाति । किञ्च चिदित्युपमार्थे यथा केनापि बद्धपादोनिरुद्धोमहिषः तर्ष्यावान् उदकाभावे तृषावा- न्भवति एवमिन्द्रः सोमाहरणात्पूर्वं सोमाभावे तृषितवानितिशेषः । तस्मै तादर्थ्ये चतुर्थी तादृशस्य तृषितस्येन्द्रस्यार्थं गोधा गमयतिवर्णानिति गौर्वाक् तत्र निधीयमानत्वाद्गायत्री गोधा । यद्वा गुधिर्निष्कर्षणार्थः निष्कृष्यसोमाहरणात् गोधा गायत्री अयथं अयत्नेन लील येत्यर्थः एतत्सोमजातं कर्षत् आकृष्टवती दिवः सकाशादाहृतवतीत्यर्थः ॥ १० ॥

10.28.11
तेभ्यो᳚ गो॒धा अ॒यथं᳚ कर्षदे॒तद्ये ब्र॒ह्मणः᳚ प्रति॒पीय॒न्त्यन्नै᳚ः ।
सि॒म उ॒क्ष्णो᳚॑वसृ॒ष्टा{4} अ᳚दन्ति स्व॒यं बला᳚नि त॒न्व᳚ः शृणा॒नाः ॥
▶ पदपाठः (Word-by-word)
तेभ्यः᳚ । गो॒धाः । अ॒यथ᳚म् । क॒र्ष॒त् । ए॒तत् । ये । ब्र॒ह्मणः᳚ । प्र॒ति॒॑पीय᳚न्ति । अन्नैः᳚ ।
सि॒मः । उ॒क्ष्णः । अ॒व॒॑सृ॒ष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । बला᳚नि । त॒न्वः᳚ । शृ॒णा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुदादिदेवगणाः ब्रह्मणः परिवृढस्येन्द्रस्य स्वभूतैरन्नैः सोमाख्यैः तृप्ताः सन्तः इति शेषः प्रतिपीयन्ति । पीयतिर्हिंसाकर्मा इन्द्रादेशाद्धिंसकान्प्रतिहिंसन्ति । तेभ्यः तेषां देवगणा नामर्थाय गोधाः पूर्वोक्ता गायत्री अयथं अनायासेन एतत्सोमजातं कर्षदाकृष्टवती । किञ्च सिमः सिमान् श्रेष्ठान् यद्वा सिमशब्दः सर्वशब्दपर्यायः सर्वानुक्ष्णः सिञ्चतः अवसृष्टान् इन्द्रेण निसृष्टान् अनुज्ञातान् हविर्भूतान् सोमान् यज्ञेष्वदन्ति । किंकुर्वन्तः स्वयमात्मनैव बलानि शत्रूणां सैन्यानि तन्वः शरीराणि च श्रृणानाः हिंसन्तः गायत्रीन्द्रादेशाद्देवेभ्यः सोममाहृत वतीत्यर्थः ॥ ११ ॥

10.28.12
ए॒ते शमी᳚भिः सु॒शमी᳚ अभूव॒न्ये हि᳚न्वि॒रे त॒न्व१॒᳚ः सोम᳚ उ॒क्थैः ।
नृ॒वद्वद॒न्नुप᳚ नो माहि॒ वाजा᳚न्दि॒वि श्रवो᳚ दधिषे॒ नाम᳚ वी॒रः ॥
▶ पदपाठः (Word-by-word)
ए॒ते । शमी᳚भिः । सु॒॑शमी᳚ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः᳚ । सोमे᳚ । उ॒क्थैः ।
नृ॒॑वत् । वद᳚न् । उप᳚ । नः॒ । मा॒हि॒ । वाजा᳚न् । दि॒वि । श्रवः᳚ । द॒धि॒षे॒ । नाम᳚ । वी॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवर्ष्यादयः तन्वः शरीराणि सोमे सोमयागे उक्थैः शस्त्रैः हिन्विरे वर्धयन्ति । एते देवादयः इन्द्रादेशात्सोमे आहृते सति शमीभिः सोमयागकर्मभिः सुशमी सुकर्माणः अभू- वन् । नृवत् मनुष्यवद्वदन् इदं युष्मभ्यं मया दत्तमिति व्यक्तां वाचमुद्धारयन् नोस्मभ्यमुप माहि उपगम्य वाजानन्नानि बलानि वा हे इन्द्र त्वं देहीतिशॆषः । अतः कारणात् वीरः दानशूरस्त्वं दिवि द्युलोके श्रवः दानपतिरितिकीर्तितं नाम नामधेयं दधिषे धारयसि ॥ १२ ॥

वनेवेत्यष्टर्चं त्रयोदशं सूक्तं वसुक्रस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रान्तंच—वनेनाष्टाविति । चतुर्थे हनि स्तोमवृद्धौ ब्राह्मणाच्छंसिनएतत्सूक्तमावापार्थम् । सूत्रितञ्च—स्तोमेवर्धमानेकोअद्यनर्यो वनेनवायइति । महाव्रते निष्केवल्येप्येतत्सूक्तम् । सूत्रितंच—प्रवोमहेमन्दमानायांधसइतिनिवि- द्धानंवनेनवायोन्यधायिचाकन्निति ।