श्रवणम्

10.28.4
इ॒दं सु मे᳚ जरित॒रा चि᳚किद्धि प्रती॒पं शापं᳚ न॒द्यो᳚ वहन्ति ।
लो॒पा॒शः सिं॒हं प्र॒त्यञ्च᳚मत्साः क्रो॒ष्टा व᳚रा॒हं निर᳚तक्त॒ कक्षा᳚त् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । सु । मे॒ । ज॒रि॒तः॒ । आ । चि॒कि॒द्धि॒ । प्र॒ति॒॑ई॒पम् । शाप᳚म् । न॒द्यः᳚ । व॒ह॒न्ति॒ ।
लो॒पा॒शः । सिं॒हम् । प्र॒त्यञ्च᳚म् । अ॒त्सा॒रिति᳚ । क्रो॒ष्टा । व॒रा॒हम् । निः । अ॒त॒क्त॒ । कक्षा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जरितः शत्रूणां जरयितरिन्द्र त्वं मे मम सुशोभनमपि इदमीदृशं रूपं सामर्थ्यं आ- चिकिद्धि आसमंताज्जानीहि । कीदृशं नद्योगंगाद्याः सरितः प्रतीपं प्रतिकूलं शापं उदकं वहन्ति । अपिच लोपाशः लुप्यमानं तृणमश्नातीति लोपाशोमृगः मया प्रेषितः सन् प्रत्य- ञ्चं आत्मानं प्रतिगच्छन्तं सिंहं अत्साः अत्सात् आभिमुख्येन गच्छति । तथा क्रोष्टा श्रृगा- लः वराहं बलवन्तमपि सूकरं कक्षात् अभिगहनदेशान्निरतक्त निर्गमयति एतदपि सर्वं सामर्थ्यं त्वत्पुत्रे मयि त्वत्प्रसादाल्लब्धमपि जानीहीत्यर्थः ॥ ४ ॥