दशमं मण्डलम् - सूक्तम् 116

9 ऋचः

ऋषिः: अग्नियुतः स्थौरोग्नियूपो वा स्थौरः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.116 - सम्पूर्णम्

1 / 9
ऋक्: 10.116.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.116.1
पिबा॒ सोमं᳚ मह॒त इ᳚न्द्रि॒याय॒ पिबा᳚ वृ॒त्राय॒ हन्त᳚वे शविष्ठ ।
पिब᳚ रा॒ये शव᳚से हू॒यमा᳚न॒ः पिब॒ मध्व᳚स्तृ॒पदि॒न्द्रा वृ᳚षस्व ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । सोम᳚म् । म॒ह॒ते । इ॒न्द्रि॒याय᳚ । पिब᳚ । वृ॒त्राय᳚ । हन्त᳚वे । श॒वि॒ष्ठ॒ ।
पिब᳚ । रा॒ये । शव᳚से । हू॒यमा᳚नः । पिब᳚ । मध्वः᳚ । तृ॒पत् । इ॒न्द्र॒ । आ । वृ॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पिबेति नवर्चं चतुर्थं सूक्तं त्रैष्तुभमैन्द्रम् । स्थूरनाम्नह् पुत्रोऽग्नियुताख्य ऋशिरग्नियूपाख्यो वा। तथा चानुक्रम्यते। पिब स्थौरोऽग्नियुतोऽग्नियूपो वेति। गतो विनियोगः॥

हे इन्द्र त्वं महते प्रभूतायेन्दियायेन्द्रस्यात्मनो जुश्टाय वीर्याय सोममस्माभिर्दीयमानं पिब। इन्द्रियमिन्द्रलिङ्गेत्यादिनेन्द्रिय शब्दो यजन्तत्वेन निपातितः। हे शविष्ठातिशयेन प्रवृद्ध वृत्राय हन्तवे वृत्रम् हन्तुं सोमं पिब। क्रियाग्रहनं कर्तव्यमिति व्रुत्रस्य सम्प्रदानत्वम्। तथा हूयमानोऽस्माभिराहूयमानस्त्वं राये धनाय। ऊडिदमित्यादिना विभक्तेरुदात्तत्वम्। शवसेऽन्नाय। धनान्नयोः प्रदानाय सोमं पिब। मध्वो मदकरान्सर्वान्सोमान्पिब। वा छन्दसिति पुर्व सवर्नदीर्घाभावः। अनन्तरं हे इन्द्र तृपत्तृप्तो भवन्ना वृशस्व। अस्मदभिलषितान्यासिञ्च। ददस्व। तृपत्। तृन्प तृप्तौ तौदादिकः। अनित्यमागमशासनमिति नुमभावः॥१॥

10.116.2
अ॒स्य पि᳚ब क्षु॒मत॒ः प्रस्थि᳚त॒स्येन्द्र॒ सोम᳚स्य॒ वर॒मा सु॒तस्य᳚ ।
स्व॒स्ति॒दा मन᳚सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ᳚गाय ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । पि॒ब॒ । क्षु॒॑मतः᳚ । प्र॑स्थि᳚तस्य । इन्द्र᳚ । सोम᳚स्य । वर᳚म् । आ । सु॒तस्य᳚ ।
स्व॒स्ति॒॑दाः । मन᳚सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते᳚ । सौभ᳚गाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र क्षुमतः स्तुतियुक्तस्य यद्वा हवीरूपान्नवतः प्रस्थितस्य हविर्धानादुत्तरवेदिं प्रति प्रस्थापितस्य सुतस्याभिशुतस्य सोमस्य वरं वरणीयं त्वदीयं भागमाभिमुख्येन पिब। प्रस्थितस्य। तिष्थतेः कर्मणि निष्था। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। ततः स्वस्तिदाह् कल्याणस्य दाता त्वं मनसान्तःकरणेन मादयस्व। हृष्टो भव। यद्वा। अस्मानपि हृष्तान्कुरु। तदेवोच्यते। रेवते धनवते सौभगाय सौभाग्याय तदस्मभ्यं दातुमर्वाचीनोऽभिमुखाञ्चनो भव। विभाषाञ्चेरदिक्स्त्रियूमिति खः। रयिशब्दान्मतुपश्छन्दसीर इति वत्वम्। रयेर्मतौ बहुलमिति सम्प्रसारणम्। पूर्वरूपत्वे गुणः। सौभगाय। उद्गात्रादिषु सुभग मन्त्र इति पठ्यते। तस्योत्तरपदस्य हृद्भगेति वृद्धिर्नेष्यते सर्वविधीनां छन्दसि विकल्पितत्वात्। ञित्स्वरेनाद्युदात्तत्वम्॥२॥

10.116.3
म॒मत्तु᳚ त्वा दि॒व्यः सोम᳚ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि᳚वेषु ।
म॒मत्तु॒ येन॒ वरि᳚वश्च॒कर्थ᳚ म॒मत्तु॒ येन᳚ निरि॒णासि॒ शत्रू᳚न् ॥
▶ पदपाठः (Word-by-word)
म॒मत्तु᳚ । त्वा॒ । दि॒व्यः । सोमः᳚ । इ॒न्द्र॒ । म॒मत्तु᳚ । यः । सू॒यते᳚ । पार्थि᳚वेषु ।
म॒मत्तु᳚ । येन᳚ । वरि᳚वः । च॒कर्थ᳚ । म॒मत्तु᳚ । येन᳚ । नि॒॑रि॒णासि᳚ । शत्रू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां दिव्यो दिवि भवः सोमो ममत्तु। आत्मीयकल्लप्रदानेन मादयतु। देवा ह्यारपक्षे सोमस्य कलां पिबन्ति। मदेर्लोटि व्यत्ययेन श्लुः। भीह्रीत्यादिना। पा. ६-१-१९२। पितः पूर्वस्योदात्तत्वम्। तथा पार्थिवेषु प्रुथिव्याम् भवेशु देवयजनेषु यः सोमोऽस्माभिः सूयते अभिषूयते सोऽप्यस्माभिर्दत्तो ममत्तु। त्वां हर्षयतु। येन सोमेन वरिवो वरणीयं धनख् चकर्थ कृतवानसि स च ममत्तु। करोतेर्लिट्। यद्योगादनिघाते लित्स्वरः। किञ्च येन शत्रून्निरिणासि निर्गमयसि। सोऽपि ममत्तु। त्वां मादयतु। रिणासि। री गतिरेषनयोः क्र्यादिः। प्वादीनां ह्रस्वत्वम्॥३॥

10.116.4
आ द्वि॒बर्हा᳚ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि᳚भ्यां॒ परि᳚षिक्त॒मन्ध᳚ः ।
गव्या सु॒तस्य॒ प्रभृ᳚तस्य॒ मध्व᳚ः स॒त्रा खेदा᳚मरुश॒हा वृ᳚षस्व ॥
▶ पदपाठः (Word-by-word)
आ । द्वि॒॑बर्हाः᳚ । अ॒मि॒नः । या॒तु॒ । इन्द्रः᳚ । वृषा᳚ । हरि᳚॑भ्याम् । परि᳚॑सिक्तम् । अन्धः᳚ ।
गवि᳚ । आ । सु॒तस्य᳚ । प्र॑भृ᳚तस्य । मध्वः᳚ । स॒त्रा । खेदा᳚म् । अ॒रु॒श॒॑हा । आ । वृ॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विबर्हा द्वयोर्लोकयोः परिवृढः। यद्वा। द्वाभ्यां स्तुतशस्त्राभ्यां वर्धनीयः। व्रुहेर्वर्धनार्थस्य कर्तरि कर्मणि वासुन्। अमिनः। अमतेर्गत्यर्थादौणादिक इनच्। सर्वत्र गन्ता। यद्वा। कान्त्यर्थात्। सर्वैः काम्यमानः। अत एव वृषाभिलषितानां वर्षक इन्द्रः परिषिक्तं वसतीवरीभिः परितः सिक्तमन्धोऽस्मदीयं सोमलक्षणमन्नं प्रति हरिभ्यामेतन्नामकाभ्यामश्वाभ्यां सहा यातु। आगच्छ्तु। आथ प्रत्यक्षः। हे इन्द्र अरुशहा। अरुशाः शत्रवः। तेषां हन्ता। अर्तेरौणादिक उशन्। बहुलं छन्दसीति हन्तेः क्विप्। सत्रा। सप्तम्याः डादेशः। अस्मदीये सत्रे यज्ञे गव्यानडुहे चर्मणि सुतस्याभिषुतस्य प्रभृतस्य पात्रेषु प्रहृतस्य। हृग्रहोर्भः। ईदृशस्य मध्वो मदकरस्य सोमस्य पानेन हृष्टः सन् खेदां खिद्यमानानां शत्रूणामुत्खित्तय आभिमुख्येन वृषस्व। वृष इवाचर। वृषशब्दादाचारार्थे क्विप्। व्यत्ययेनात्मने पदम्। खेदाम्। खिद दैन्ये। कर्मणि घञन्तस्यामि नुडागमाभावाश्छान्दसः॥४॥

10.116.5
नि ति॒ग्मानि᳚ भ्रा॒शय॒न्भ्राश्या॒न्यव᳚ स्थि॒रा त᳚नुहि यातु॒जूना᳚म् ।
उ॒ग्राय᳚ ते॒ सहो॒ बलं᳚ ददामि प्र॒तीत्या॒ शत्रू᳚न्विग॒देषु᳚ वृश्च ॥
▶ पदपाठः (Word-by-word)
नि । ति॒ग्मानि᳚ । भ्रा॒शय᳚न् । भ्राश्या᳚नि । अव᳚ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒॑जूना᳚म् ।
उ॒ग्राय᳚ । ते॒ । सहः᳚ । बल᳚म् । द॒दा॒मि॒ । प्र॒ति॒॑इत्य᳚ । शत्रू᳚न् । वि॒॑ग॒देषु᳚ । वृ॒श्च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र भ्राश्यानि प्रकाश्यानि तिग्मानि तीक्ष्णान्यायुधानि नितरां भ्राशयन् प्रकाशयन्। भ्राशृ दीप्तौ। स त्वं यातुजूनाम्। जु इति सौत्रो धातुः। भ्राजभासेत्यत्र जवतेर्दीर्घः। का. ३-२-१७७-१। क्विप्चेति क्विप्। दीर्घस्यामि नुडागमश्छान्दसः। यातुधानानां स्थिरा स्थिराणि दृढान्यपि शरीराण्यव तनुहि। अवस्तात्तनुभूतान्पातय। उग्रायोद्गूर्णबलाय ते तुभ्यं सहः शत्रुसहनसमर्थं बलं बल्हेतुकं हविर्ददामि। अहं प्रयच्छामि। ततो विगदेषु । विविधं गदन्ति शब्दायन्ते। गदेर्घञर्थे कविधानमित्यधिकरने कः। शत्रून्प्रतीत्य प्रतिगम्य प्रतिकूलं गत्वा वृश्च । तांश्छिन्द्धि। ओव्रश्चू छेदने तौदादिकस्य लोट्॥५॥

10.116.6
व्य१॒᳚र्य इ᳚न्द्र तनुहि॒ श्रवां॒स्योजः᳚ स्थि॒रेव॒ धन्व᳚नो॒॑भिमा᳚तीः ।
अ॒स्म॒द्र्य᳚ग्वावृधा॒नः सहो᳚भि॒रनि᳚भृष्टस्त॒न्वं᳚ वावृधस्व ॥
▶ पदपाठः (Word-by-word)
वि । अ॒र्यः । इ॒न्द्र॒ । त॒नु॒हि॒ । श्रवां᳚सि । ओजः᳚ । स्थि॒रा॑इ᳚व । धन्व᳚नः । अ॒भि॑मा᳚तीः ।
अ॒स्म॒द्र्य᳚क् । व॒वृ॒धा॒नः । सहः᳚॑भिः । अनि᳚॑भृष्टः । त॒न्व᳚म् । व॒वृ॒ध॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अर्यः स्वामी त्वं श्रवांस्यन्नानि। श्रव इत्यन्ननाम। अस्मभ्यम् वि तनुहि। विस्तारय। प्रयच्छ। तनोतेर्लोट्युतश्च प्रत्ययाच्छन्दसि वावचनम्। पाल् ६-४-१०६-१। इति हेर्लुगभावः। तथाभिमातीः। अभितो मातिर्मानं येषाम् तेऽभिमातयह् शत्रवः। तान्प्रत्योज आत्मीयं वीर्यं स्थिरेव स्थिराण्येव धन्वनो धनूंषि च विस्तारय। तैः शत्रूञ्जहीत्यर्थः। अपि चास्मद्र्यगस्मदभिमुखाञ्चनः। विष्वग्देवयोश्च टेरद्र्यञ्चतावित्यद्र्यादेशः। पा.-६-३-९२। अद्रिसध्र्योरन्तोदात्तत्वेन निपातनात्। पा. ६-३-९५-१। उदत्तस्वरितयोर्यन इति धातोरकारस्यानुदात्तस्य स्वरितत्वम्। सहोभिरात्मीयैर्बलैर्वावृधानः प्रवृद्धः अत एवानिभृष्टः शत्रुभिरपरिभवनीयस्त्वं तन्वमात्मीयं शरीरं वावृधस्व। वर्धय। यद्वा। तन्वम्। तन्यत इति तनूर्यज्ञह्। तं वर्धय। त्वदागमनेन हि यज्ञो वर्धते॥६॥

10.116.7
इ॒दं ह॒विर्म᳚घव॒न्तुभ्यं᳚ रा॒तं प्रति᳚ सम्रा॒ळहृ᳚णानो गृभाय ।
तुभ्यं᳚ सु॒तो म᳚घव॒न्तुभ्यं᳚ प॒क्वो॒३॒᳚॑द्धी᳚न्द्र॒ पिब᳚ च॒ प्रस्थि᳚तस्य ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । ह॒विः । म॒घ॒॑व॒न् । तुभ्य᳚म् । रा॒तम् । प्रति᳚ । सम्॑रा᳚ट् । अहृ᳚णानः । गृ॒भा॒य॒ ।
तुभ्य᳚म् । सु॒तः । म॒घ॒॑व॒न् । तुभ्य᳚म् । प॒क्वः᳚ । अ॒द्धि । इ॒न्द्र॒ । पिब᳚ । च॒ । प्र॑स्थि᳚तस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन्धनवन् साम्राट् सम्यग्राजमान सर्वेषामीश्वरेति वा इदम् सोमादिलक्षनम् रातमस्माभिरात्तं हविर्हे इन्द्र तुभ्यमहृणानोऽक्रुध्यन् प्रतिगृभाय। प्रतिगृहाण। ग्रहेर्लोटि श्नाप्रत्ययस्य च्छन्दसि शायजपिति शायजादेशः। हृग्रहोर्भ इति भः। सन्निपातपरिभाषाया अनित्यत्वाद्धेर्लुक्। हे मघवन् तुभ्यमेवायम् सोमह् सुतः। ङयि च। पा. ६-१-२१२। इत्याद्युदात्तत्वम्। तुभ्यमेवायं पुरोडाशादिः पक्वः। हे इन्द्र तम् पुरोडाशमद्धि। भक्षय। किञ्च प्रस्थितस्य हविर्धानादुत्तरवेदिं प्रति प्रस्थापितं सोमं पिब। वाक्यभेदादनिघातः। यद्वा। आमन्त्रितस्याविद्यमानत्वेन तिङ उत्तरत्त्वादनिघातः॥७॥

10.116.8
अ॒द्धीदि᳚न्द्र॒ प्रस्थि᳚ते॒मा ह॒वींषि॒ चनो᳚ दधिष्व पच॒तोत सोम᳚म् ।
प्रय᳚स्वन्त॒ः प्रति᳚ हर्यामसि त्वा स॒त्याः स᳚न्तु॒ यज᳚मानस्य॒ कामा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒द्धि । इत् । इ॒न्द्र॒ । प्र॑स्थि᳚ता । इ॒मा । ह॒वींषि᳚ । चनः᳚ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम᳚म् ।
प्रय᳚स्वन्तः । प्रति᳚ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज᳚मानस्य । कामाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रस्थिता प्रस्थितान्युत्तरवेदिं प्रतीमेमानि। उभयत्र डादेशः। हवींष्यद्धीत्। इदवधारने। भक्षयैव। चनः। चन इत्यन्ननाम। शद्दधिष्व। धारय। उदरे प्रक्षिप। दधातेर्लोटि च्छन्दस्युभयथेति थास आर्धधातुकत्वादिडाग्माः। पचता पचतानि सवनीयपुरॊडाशादीनि च धारय। पचेर्भृमृदृशीत्यादिना कर्मण्यतच् प्रत्ययः। उतापि च सोमं पिब। ततः प्रयस्वन्तः। प्रीणयतिति प्रयोऽन्नम् । तेन तद्वन्तः सन्तस्त्वा त्वां प्रति हर्यामसि। हर्यामः। कामयामहे धनादीनि। हर्यतिः प्रेप्साकर्मा। इदन्तो मसिः। तस्माद्यजमानस्य यागं कुर्वाणस्य कामा धनादिविषया अभिलाषाः सत्या यथार्थाः सन्तु। पूङ्यजोः शानन्। पा. ३-२-१२८। इति यजेः शानन्प्रत्ययः। शित्त्वादाद्युदात्तः॥८॥

10.116.9 समानपद
प्रेन्द्रा॒ग्निभ्यां᳚ सुवच॒स्यामि᳚यर्मि॒ सिन्धा᳚विव॒ प्रेर᳚यं॒ नाव᳚म॒र्कैः ।
अया᳚ इव॒ परि᳚ चरन्ति दे॒वा ये अ॒स्मभ्यं᳚ धन॒दा उ॒द्भिद᳚श्च ॥
▶ पदपाठः (Word-by-word)
प्र । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । सु॒॑व॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ᳚॑इव । प्र । ई॒र॒य॒म् । नाव᳚म् । अ॒र्कैः ।
अयाः᳚॑इव । परि᳚ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य᳚म् । ध॒न॒॑दाः । उ॒त्॑भिदः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्राग्निभ्यां देवाभ्याम् सुवचस्याम् । छन्दसि चेति यत्प्रत्ययः। सुवचनार्हां स्तुतिमहम् प्रेयर्मि। प्र्रयामि। ऋ गतौ जौहोत्यादिकः। अर्तिपिपिर्त्योश्चेत्यभ्यासस्येत्वम्। देवताद्वन्द्वे चेतीन्द्राग्न्योरुभयपदप्रकृतिस्वरत्वे प्राप्ते नोत्तरपदेऽनुदात्तादाविति प्रतिषेधः। सिन्धविव सिन्धौ नद्यां यथा नावं प्रेरयन्ति तद्वदर्कैरर्चनीयैर्मन्त्रैः सहिताः स्तुतिं प्रेरयम् । प्रावादिषम्। ईर गतौ। ण्यन्तस्य लङ्युत्तमस्यामादेशः। स्तुतास्ते देवा अया इव। अयन्ति कर्मकरनार्थं गच्छन्त्यया ऋत्विजः कर्मकरा वा। तद्वत्परि चरन्ति। अस्मान्धनादिदानेन पूजयन्ति। ये देवा अस्मभ्यं धनदा धनस्य दातार उद्भिदोऽस्मच्छत्रूणामुद्भेत्तारश्च ये सन्ति॥९॥