दशमं मण्डलम् - सूक्तम् 80

7 ऋचः

ऋषिः: अग्निः सौचीको वैश्वानरो वा सप्तिर्वा वाजंभरः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.80 - सम्पूर्णम्

1 / 7
ऋक्: 10.80.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.80.1
अ॒ग्निः सप्तिं᳚ वाजम्भ॒रं द᳚दात्य॒ग्निर्वी॒रं श्रुत्यं᳚ कर्मनि॒ष्ठाम् ।
अ॒ग्नी रोद᳚सी॒ वि च᳚रत्सम॒ञ्जन्न॒ग्निर्नारीं᳚ वी॒रकु᳚क्षिं॒ पुरं᳚धिम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । सप्ति᳚म् । वा॒ज॒म्॑भ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य᳚म् । क॒र्म॒निः॒॑स्थाम् ।
अ॒ग्निः । रोद᳚सी॒ इति᳚ । वि । च॒र॒त् । स॒म्॑अ॒ञ्जन् । अ॒ग्निः । नारी᳚म् । वी॒र॑कु᳚क्षिम् । पुर᳚म्॑धिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निः सप्तिमिति सप्तर्चं द्वादशं सूक्तं सौचीकस्य वैश्वानरस्याग्नेरार्षम् त्रैष्टुभमाग्नेयम्। अग्निः सप्तिमित्यनुक्रान्तम्। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥

अयमग्निः सप्तिं सर्पणस्वभावमश्वं वाजंभरं युद्धे शत्रूञ्जित्वान्नसम्पादकम् ददाति स्तोतृभ्यः। तथाग्निर्वीरं वीर्यवन्तं पुत्रं श्रुत्यं पितृब्यपदेशकम् कर्मनिष्ठां यागेऽनन्यचित्तं ददाति। अग्नी रोदसी द्यावापृथिव्यौ समञ्जन् सम्यगञ्जयन्वि चरत्। विविधं चरति। अयमग्निर्नारीं योषितं वीरकुक्षिं वीरप्रसवकुक्षिं पुरन्थिं च करोति॥१॥

10.80.2
अ॒ग्नेरप्न᳚सः स॒मिद᳚स्तु भ॒द्राग्निर्म॒ही रोद᳚सी॒ आ वि᳚वेश ।
अ॒ग्निरेकं᳚ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि᳚ दयते पु॒रूणि᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । अप्न᳚सः । स॒म्॑इत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति᳚ । रोद᳚सी॒ इति᳚ । आ । वि॒वे॒श॒ ।
अ॒ग्निः । एक᳚म् । चो॒द॒य॒त् । स॒मत्॑सु᳚ । अ॒ग्निः । वृ॒त्राणि᳚ । द॒य॒ते॒ । पु॒रूणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्नसः कर्मवतोऽग्नेः समिद्भद्रास्तु। अयमग्निर्मही महतौ रोदसी द्यावापृथिव्यावा विवेश। आविष्टवान्स्वतेजसा। तथायमग्निरेकमसहायमेव चोदयत् चोदयति प्रेरयति समत्सु सङ्ग्रामेषु। युद्धे स्वभक्तम् स्वयं सहायः सञ्जयिनं करोतीत्यर्थः। तथाग्निर्वृत्राणि पूरूणि बहूञ्शत्रून्वयते। हन्ति॥२॥

10.80.3
अ॒ग्निर्ह॒ त्यं जर᳚त॒ः कर्ण᳚मावा॒ग्निर॒द्भ्यो निर᳚दह॒ज्जरू᳚थम् ।
अ॒ग्निरत्रिं᳚ घ॒र्म उ᳚रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚ प्र॒जया᳚सृज॒त्सम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ह॒ । त्यम् । जर᳚तः । कर्ण᳚म् । आ॒व॒ । अ॒ग्निः । अ॒त्॑भ्यः । निः । अ॒द॒ह॒त् । जरू᳚थम् ।
अ॒ग्निः । अत्रि᳚म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒॑मेध᳚म् । प्र॒॑जया᳚ । अ॒सृ॒ज॒त् । सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्हायमग्निः खलु त्यं तं प्रसिद्धम् जरतः कर्णं जरत्कर्णनामानमृषिमाव। ररक् तथायमग्निरद्भ्यो जरूथमेतन्नामानमसुरं निरदहत्। निर्दग्धवान्। तथाग्निरत्रिं महर्षिं घर्मेऽन्तरृबीसेऽवस्थितमुरुष्यत्। ररक्ष। तथायमग्निर्नृमेधमेतन्नामकमृषिं प्रजया पुत्रादिलक्षणया समसृजत्। संयुयोज॥३॥

10.80.4 समानपद
अ॒ग्निर्दा॒द्द्रवि᳚णं वी॒रपे᳚शा अ॒ग्निरृषिं॒ यः स॒हस्रा᳚ स॒नोति᳚ ।
अ॒ग्निर्दि॒वि ह॒व्यमा त᳚ताना॒ग्नेर्धामा᳚नि॒ विभृ᳚ता पुरु॒त्रा ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । दा॒त् । द्रवि᳚णम् । वी॒र॑पे᳚शाः । अ॒ग्निः । ऋषि᳚म् । यः । स॒हस्रा᳚ । स॒नोति᳚ ।
अ॒ग्निः । दि॒वि । ह॒व्यम् । आ । त॒ता॒न॒ । अ॒ग्नेः । धामा᳚नि । वि॑भृ᳚ता । पु॒रु॒॑त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्वीरपेशाः प्रेरकज्वालारूपो द्रविनं धनं दात्। ददाति। तथाग्निरृषिं मन्त्रद्रष्टारं पुत्रं प्रयच्छतीति शेषः। ऋषिर्विशेष्यते। य ऋषि सहस्रा गवां सहस्राणी सनोति भजते दक्षिणात्वेन तमृषिं ददातिति। तथाग्निर्दिवि द्युलोके हव्यं यजमानैर्हुतमा ततान। देवेशु विस्तारयति। तथाग्नेर्धामानि शरीराणि विभृता विभृतानि पुरुत्रा बहुषु स्थानिष्वाहवनीयधिष्ण्यादिषु क्षित्यादिषु वा॥४॥

10.80.5 समानपद
अ॒ग्निमु॒क्थैरृष᳚यो॒ वि ह्व᳚यन्ते॒॑ग्निं नरो॒ याम᳚नि बाधि॒तासः᳚ ।
अ॒ग्निं वयो᳚ अ॒न्तरि᳚क्षे॒ पत᳚न्तो॒॑ग्निः स॒हस्रा॒ परि᳚ याति॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । उ॒क्थैः । ऋष᳚यः । वि । ह्व॒य॒न्ते॒ । अ॒ग्निम् । नरः᳚ । याम᳚नि । बा॒धि॒तासः᳚ ।
अ॒ग्निम् । वयः᳚ । अ॒न्तरि᳚क्षे । पत᳚न्तः । अ॒ग्निः । स॒हस्रा᳚ । परि᳚ । या॒ति॒ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निमुक्थैः शस्त्रैरुषयः पूर्वे वि ह्वयन्ते। विविधमाह्वयन्ति यज्ञे स्वीये। अग्निं नरो मनुष्या यामनि सङ्ग्रामे। यातिर्वधकर्मसु पठितः। बाधितासः शत्रुभ्यो बाधिताः प्राप्नुवन्ति जयार्थम्। तथाग्निं वयः पक्शिणोऽन्तरिक्षे पतन्तः पश्यन्ति रात्रिषु। तस्मादिमाम् वयांसि नक्तं नाध्यासते। तै. सं. ५-६-४-४। इति ब्राह्मणम्। यद्वा। दावभूतमग्निमन्तरिक्षगा वयः पतन्ति। तथाग्निर्गोनां सहस्रा सहस्राणि परि परितो याति। गच्छति॥५॥

10.80.6
अ॒ग्निं विश᳚ ईळते॒ मानु᳚षी॒र्या अ॒ग्निं मनु᳚षो॒ नहु᳚षो॒ वि जा॒ताः ।
अ॒ग्निर्गान्ध᳚र्वीं प॒थ्या᳚मृ॒तस्या॒ग्नेर्गव्यू᳚तिर्घृ॒त आ निष᳚त्ता ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । विशः᳚ । ई॒ळ॒ते॒ । मानु᳚षीः । याः । अ॒ग्निम् । मनु᳚षः । नहु᳚षः । वि । जा॒ताः ।
अ॒ग्निः । गान्ध᳚र्वीम् । प॒थ्या᳚म् । ऋ॒तस्य᳚ । अ॒ग्नेः । गव्यू᳚तिः । घृ॒ते । आ । नि॑स᳚त्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निं विशह् प्रजा ऋत्विग्यजमानलक्शना ईलते। स्तुवन्ति। या मानुषीर्मानुष्यो मनुष्याज्जाताः ता ईलते। तथाग्निं मनुषो मनुष्या नहुषो राज्ञः सकाशाज्जाताः प्रजा विविधम् स्तुवन्तीति। अग्निर्गान्धर्वीम् । वाज्नामैतत्। वाचं शृणोति। कीदृशीं गान्धर्वीम्। ऋतस्य यज्ञस्य पथ्यां पथि हिताम्। अग्नेर्महात्मनो गव्यूतिर्मार्गो घृत आज्य आ निषत्ता सर्वतो निषण्णो भवति॥६॥

10.80.7
अ॒ग्नये॒ ब्रह्म᳚ ऋ॒भव᳚स्ततक्षुर॒ग्निं म॒हाम᳚वोचामा सुवृ॒क्तिम् ।
अग्ने॒ प्राव᳚ जरि॒तारं᳚ यवि॒ष्ठाग्ने॒ महि॒ द्रवि᳚ण॒मा य᳚जस्व ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नये᳚ । ब्रह्म᳚ । ऋ॒भवः᳚ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒॑वृ॒क्तिम् ।
अग्ने᳚ । प्र । अ॒व॒ । ज॒रि॒तार᳚म् । य॒वि॒ष्ठ॒ । अग्ने᳚ । महि᳚ । द्रवि᳚णम् । आ । य॒ज॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नये ब्रह्म स्तोत्रमृभवो मेधाविनस्ततक्षुः। अकुर्वन्। वयं च महां महान्तमग्निं प्रति सुवृक्तिं स्तुतिमवोचाम। हे यविष्ठ युवतमाग्ने जरितारं स्तोतारं प्राव। प्ररक्ष। हे अग्ने महि महद्द्रविणं धनमा यजस्व। प्रयच्छेत्यर्थः। अत्र प्रतिवाक्यमग्न्यभिधानं तस्य स्तुत्यत्वप्रदर्शनार्थम्॥७॥