दशमं मण्डलम् - सूक्तम् 111

10 ऋचः

ऋषिः: अष्ट्रादंष्ट्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.111 - सम्पूर्णम्

1 / 10
ऋक्: 10.111.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
10.111.1
मनी᳚षिण॒ः प्र भ᳚रध्वं मनी॒षां यथा᳚यथा म॒तय॒ः सन्ति᳚ नृ॒णाम् ।
इन्द्रं᳚ स॒त्यैरेर᳚यामा कृ॒तेभि॒ः स हि वी॒रो गि᳚र्वण॒स्युर्विदा᳚नः ॥
▶ पदपाठः (Word-by-word)
मनी᳚षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा᳚॑यथा । म॒तयः᳚ । सन्ति᳚ । नृ॒णाम् ।
इन्द्र᳚म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः᳚ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनीषिण इति दशर्चं द्वादशं सूक्तं वैरूपस्याष्ट्रादंष्ट्रस्यार्षम् त्रैष्टुभमैन्द्रम्। तथा चानुक्रम्यते। मनीषिणो दशाष्ट्रादंष्ट्र इति । गतो विनियोगः॥

हे मनीषिणः स्तोतारः मनीषां मनस ईशित्रीं स्तुतिमिन्द्राय प्र भरध्वम् । कुरुत। नृणां कर्मनेतॄणां युश्माकं यथायथा मतयः सन्ति भवन्ति तथा बुद्ध्यनुसारेण स्तुतिं कुरुध्वम्। वयं च कृतेभिः कृतैः सत्यैर्यथार्थ भुतैः स्तोत्रैरिन्द्रमेरयाम। यज्ञं प्रत्यागमयाम। ईर गतौ । ण्यन्तस्य लोट्। हि यतो विदानो जानानः समर्थः स इन्द्रो गिर्वणस्युः गीर्भिर्वनन्ति सम्भजन्त इति गीर्वणसः स्तोतारः। वनतेरसुनि रूपम्। उपपदस्य दीर्घाभावश्छान्दसः। तदन्तात्क्यप्। क्याच्छन्दसीत्युप्रत्ययः। स्तोतॄन्कामयमानः खलु। अतस्तमभिष्टुत॥१॥

10.111.2
ऋ॒तस्य॒ हि सद᳚सो धी॒तिरद्यौ॒त्सं गा᳚र्ष्टे॒यो वृ᳚ष॒भो गोभि᳚रानट् ।
उद᳚तिष्ठत्तवि॒षेणा॒ रवे᳚ण म॒हान्ति᳚ चि॒त्सं वि᳚व्याचा॒ रजां᳚सि ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । हि । सद᳚सः । धी॒तिः । अद्यौ᳚त् । सम् । गा॒र्ष्टे॒यः । वृ॒ष॒भः । गोभिः᳚ । आ॒न॒ट् ।
उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण᳚ । रवे᳚ण । म॒हान्ति᳚ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्योदकस्य सदसः स्थानस्यान्तरिक्षस्य धीतिर्धारकः स इन्द्रोऽद्यौत्। द्योतते। प्रकाशते। हि प्रसिद्धौ। द्युत दीप्तौ। लुङि द्युद्भ्यो लु‘गीति प्रस्मैपदम् । च्लेर्लुक् छान्दसः। हलन्तलक्षणा वृद्धिरपि। यद्वा। अद्यौत्। तादृश इन्द्रो यज्ञमभिगच्छति। द्यु अभिगमे आदादिकः। लङ्। उतो वृद्धिर्लुकि हलीति वृद्धिः। गार्ष्टेयः। सकृत्प्रसूता धेनुर्गृष्टिः। तस्या अपत्यं वृषभो गोभिः समानट्। संव्याप्नोति। तथैषोऽपि सर्वं स्वमहिम्ना व्याप्नोति। तथा तविषेण। महन्नामैतत्। महता रवेण शब्देनोदतिष्ठत्। उच्छ्रित उन्नतोऽभवत्। अत एव महान्ति चिन्महान्त्यपि रजांस्युदकानि भुवनानि वा सं विव्याच। संव्याप्नोति॥२॥

10.111.3 समानपद
इन्द्र॒ः किल॒ श्रुत्या᳚ अ॒स्य वे᳚द॒ स हि जि॒ष्णुः प᳚थि॒कृत्सूर्या᳚य ।
आन्मेनां᳚ कृ॒ण्वन्नच्यु᳚तो॒ भुव॒द्गोः पति᳚र्दि॒वः स᳚न॒जा अप्र᳚तीतः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । किल᳚ । श्रुत्यै᳚ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒॑कृत् । सूर्या᳚य ।
आत् । मेना᳚म् । कृ॒ण्वन् । अच्यु᳚तः । भुव᳚त् । गोः । पतिः᳚ । दि॒वः । स॒न॒॑जाः । अप्र᳚ति॑इतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यास्मदीयस्य स्तोत्रस्य श्रुत्यै शवणायेन्द्रः किलेन्द्र एव वेद। जानाति। स हि स एव जिष्णुः शत्रूणां जयशीलः सूर्याय पथिकृन्मार्गकर्ता भवति। किञ्चाच्युतः। शत्रुभिरगन्तव्यो वृषणश्वस्य मेनामात्मानं कृण्वन् कुर्वन् इन्द्र आत्। आगच्छत्यस्मदीयं यज्ञम् । मेनाभवो वृषनश्वस्य सुक्रतो। ऋ. १-५१-१३। इति मन्त्रान्तरम्। अस गतिदीप्त्यादानेषु भौवादिकः। .....। दिवो द्युलोकस्य च पतिर्भवत्। अभूत्। भवतेर्लेट्। वाक्यभेदादनिघतः॥३॥

10.111.4
इन्द्रो᳚ म॒ह्ना म᳚ह॒तो अ᳚र्ण॒वस्य᳚ व्र॒तामि᳚ना॒दङ्गि᳚रोभिर्गृणा॒नः ।
पु॒रूणि᳚ चि॒न्नि त᳚ताना॒ रजां᳚सि दा॒धार॒ यो ध॒रुणं᳚ स॒त्यता᳚ता ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य᳚ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि᳚रः॑भिः । गृ॒णा॒नः ।
पु॒रूणि᳚ । चि॒त् । नि । त॒ता॒न॒ । रजां᳚सि । दा॒धार᳚ । यः । ध॒रुण᳚म् । स॒त्य॑ता᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रोऽङ्गिरोभिरृषिभिर्गृणानः स्तूयमानः सन् महतोऽर्णवस्य। अर्णसः सलोपश्च। का. ५-२-१०९-३। इति वप्रत्ययः। उदकवतो मेघस्य व्रता व्रतानि कर्माणि मह्ना स्वमहिम्नैवामिनात्। अहिंसीत्। मीङ् हिंसायाम्। लुङि मीनातेर्निगम इति ह्रस्वः। ततः पुरूणि चिद्बहून्येव रजांस्युदकानि नि ततान। नीचीनान्यकरोत्। य इन्द्रः सत्यताता सत्यैर्देवैस्तते। यद्वा। सत्यशब्दादपि स्वार्थिकस्तातिल् द्रष्टव्यः। सत्ये। द्युलोके धरुनं धारकं बलं दाधार आधारयत्॥४॥

10.111.5
इन्द्रो᳚ दि॒वः प्र᳚ति॒मानं᳚ पृथि॒व्या विश्वा᳚ वेद॒ सव᳚ना॒ हन्ति॒ शुष्ण᳚म् ।
म॒हीं चि॒द्द्यामात᳚नो॒त्सूर्ये᳚ण चा॒स्कम्भ᳚ चि॒त्कम्भ᳚नेन॒ स्कभी᳚यान् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । दि॒वः । प्र॒ति॒॑मान᳚म् । पृ॒थि॒व्याः । विश्वा᳚ । वे॒द॒ । सव᳚ना । हन्ति᳚ । शुष्ण᳚म् ।
म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये᳚ण । चा॒स्कम्भ᳚ । चि॒त् । स्कम्भ᳚नेन । स्कभी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य पृथिव्याश्च प्रतिमानं महत्त्वेन प्रतिनिधिरिन्द्रो विश्वासर्वाणि सवना सवनानि वेद। सोमपानार्थं जानाति। शुष्णं सर्वस्य शोषकमेतन्नामानमसुरं हन्ति। वाक्यभेदादनिघातः। अपि च महीं चिन्महतीमपि द्यां सूर्येणातनोत्। सर्वत्र प्रकाशयुक्तामकरोत्। स्कभीयान् स्कम्भयितॄणाम् मध्ये श्रेष्ठं स स्कम्भनेन चिन्निरोधनसाधनेन सामर्थ्येनैव चास्कम्भ। द्युलोकमवरुद्धमकरोत्। स्कम्भिः सौत्रो धातुः। लिटि तुजादीनामिति दीर्घः। चित्कम्भने नेत्यत्र संहितायां सलोपः। उत्पूर्वस्य स्तम्भेरुदः स्थास्तम्भोः। पा. ८-४-६१। इति सलोप उक्तः। चित्पूर्वस्य स्कम्भेरपि भवति च्छन्दोविषयत्वात्॥५॥

10.111.6
वज्रे᳚ण॒ हि वृ᳚त्र॒हा वृ॒त्रमस्त॒रदे᳚वस्य॒ शूशु᳚वानस्य मा॒याः ।
वि धृ᳚ष्णो॒ अत्र᳚ धृष॒ता ज᳚घ॒न्थाथा᳚भवो मघवन्बा॒ह्वो᳚जाः ॥
▶ पदपाठः (Word-by-word)
वज्रे᳚ण । हि । वृ॒त्र॒॑हा । वृ॒त्रम् । अस्तः᳚ । अदे᳚वस्य । शूशु᳚वानस्य । मा॒याः ।
वि । धृ॒ष्णो॒ इति᳚ । अत्र᳚ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ᳚ । अ॒भ॒वः॒ । म॒घ॒॑व॒न् । बा॒हु॑ओ᳚जाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृत्रहा वृत्रस्य हन्ता वज्रेण वृत्रमस्तः। अस्तृणाः। अवधीः। स्तृणातेर्लङि बहुलम् । छन्दसीति विकरणस्य लुक्। सिपि गुणः। हियोगादनिघातः। अनन्तरं हे धृष्णो धर्षनशील त्वमदेवस्याद्योतमानस्य शूशुवानस्य स्वबलेन वर्धमानस्य तस्य माया धृषता समर्थेन वज्रेणात्रास्मिन्काल एव वि जघन्थ। विनाशितवानसि। हन्तेर्लिटि थल्यभ्यासाच्चेति कुत्वम्। अथ हे मघवन्धनवन्निन्द्र बाह्वोजा भुजबलवानभवः॥६॥

10.111.7
सच᳚न्त॒ यदु॒षस॒ः सूर्ये᳚ण चि॒त्राम᳚स्य के॒तवो॒ राम᳚विन्दन् ।
आ यन्नक्ष᳚त्रं॒ ददृ᳚शे दि॒वो न पुन᳚र्य॒तो नकि᳚र॒द्धा नु वे᳚द ॥
▶ पदपाठः (Word-by-word)
सच᳚न्त । यत् । उ॒षसः᳚ । सूर्ये᳚ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः᳚ । राम् । अ॒वि॒न्द॒न् ।
आ । यत् । नक्ष᳚त्रम् । ददृ᳚शे । दि॒वः । न । पुनः᳚ । य॒तः । नकिः᳚ । अ॒द्धा । नु । वे॒द॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदोषस उषः कालाः सूर्येण सूर्यात्मकेनेन्द्रेण सचन्त सङ्गच्छन्ते। सच समवाये भौवादिकः। तदानीमस्य स्वभूताः केतवः सर्वस्य प्रज्ञापका रश्मयशित्राम् नानावर्णां रां रायं श्रियमविन्दन्। अलभन्त। पुनरुदयानन्तरं यद्यदा दिवो नक्षत्रं न ददृशे न दृश्यते। दृशेः कर्मणि लिट्। यद्योगादनिघातः। तदानीं यतः। इणः शत्रन्तस्य शसि शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम्। सर्वत्र गच्छतोऽस्य रश्मीन्नकिर्न किश्चिन्नुवेद। जानाति। एतदद्धा सत्यमेव॥७॥

10.111.8
दू॒रं किल᳚ प्रथ॒मा ज᳚ग्मुरासा॒मिन्द्र᳚स्य॒ याः प्र᳚स॒वे स॒स्रुरापः᳚ ।
क्व᳚ स्वि॒दग्रं॒ क्व᳚ बु॒ध्न आ᳚सा॒मापो॒ मध्यं॒ क्व᳚ वो नू॒नमन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
दू॒रम् । किल᳚ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र᳚स्य । याः । प्र॒॑स॒वे । स॒स्रुः । आपः᳚ ।
क्व᳚ । स्वि॒त् । अग्र᳚म् । क्व᳚ । बु॒ध्नः । आ॒सा॒म् । आपः᳚ । मध्य᳚म् । क्व᳚ । वः॒ । नू॒नम् । अन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

असामपां मध्ये प्रथमाः प्रथमगामिन्यस्ता आपो दूरं किल जग्मुः। दूरमेव गताः। या आप इन्द्रस्य प्रसवे प्रेरणे। षू प्रेरने। जवसवौ चेति वक्तव्यम्। पा. ३-३-५६-४। इत्यबपवादेऽच्। थाथघञ्क्ताजबित्रकानामित्युत्तरपदान्तोदात्तत्वम्। तस्याज्ञायां सस्रुः। सरन्ति। गच्छन्ति खलु। अथ प्रत्यक्षकृतः। हे आपः आसाम् युश्माकमग्रं क्व स्वित्। कुत्र वर्तते। बध्नो मूलं च क्व। तथा वो युष्माकं मध्यं च क्व नूनमिदानीं युश्माकमन्तोऽवसानं च क्व। सर्वगतत्वादनिर्ज्ञायमानगमना आसन्नित्यर्थः। क्व। किंशब्दात् सप्तम्यर्थे किमोऽदित्यत्प्रत्ययः। द्वातीति क्वादेशः। तित्स्वरितितः। अन्तः। अमेर्गत्यर्थस्यासिहसीत्यादिना तत्प्रत्ययः॥८॥

10.111.9 समानपद
सृ॒जः सिन्धू{4}॒रहि᳚ना जग्रसा॒ना{4} आदिदे॒ताः प्र वि᳚विज्रे ज॒वेन᳚ ।
मुमु᳚क्षमाणा उ॒त या मु᳚मु॒च्रे॑धेदे॒ता न र᳚मन्ते॒ निति᳚क्ताः ॥
▶ पदपाठः (Word-by-word)
सृ॒जः । सिन्धू᳚न् । अहि᳚ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन᳚ ।
मुमु᳚क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध᳚ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । नि॑ति᳚क्ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अहिनाहन्तव्येन वृत्रेण मेघेन वा जग्रसानान्। ग्रस अदने। अनुदात्तेत्। छन्दसि लिटः कानच्। ग्रस्ताः सिन्धून् स्यन्दमाना अपः सृजः। असृजः। निरगमयः। आदित्। इदवधारणे। अनन्तरमेवैता आपो जवेन वेगेन प्र विविज्रे। सर्वत्रात्यन्तन्तं चलिता बभूवुः। ओविजी भयचलनयोः। उदात्तेत्। लिटीरयोरे। पा. ६-४-७६। इतीरयो रे आदेशः। उतापि च मुमुक्शमाणा इन्द्रेण मोचयुतुमिष्यमाणा या आपो मुमुच्रे इन्द्रेण मोचिता अभूवन्। मुचेः कर्मणि ळिट्। अधेदनन्तरमेव नितिक्ता नितरां शुद्धा आपो न रमन्ते। एकत्र न क्रीडन्ते। किन्तु सर्वत्र गमनशीला इत्यर्थः॥९॥

10.111.10
स॒ध्रीची॒ः सिन्धु᳚मुश॒तीरि᳚वायन्त्स॒नाज्जा॒र आ᳚रि॒तः पू॒र्भिदा᳚साम् ।
अस्त॒मा ते॒ पार्थि᳚वा॒ वसू᳚न्य॒स्मे ज᳚ग्मुः सू॒नृता᳚ इन्द्र पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
स॒ध्रीचीः᳚ । सिन्धु᳚म् । उ॒श॒तीः॑इ᳚व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒॑भित् । आ॒सा॒म् ।
अस्त᳚म् । आ । ते॒ । पार्थि᳚वा । वसू᳚नि । अ॒स्मे इति᳚ । ज॒ग्मुः॒ । सू॒नृताः᳚ । इ॒न्द्र॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सध्रीचीः। सहस्य सध्रिरिति सध्रीत्यादेशः। अञ्चतेश्चोपसङ्ख्यानमिति ङीप्। अलोपदीर्थौ। वा छन्दसीति पूर्वसवर्नदीर्घः। सहाञ्चनाः सहगमना आपः सिन्धुं समुद्रं भर्तारमायन्। आगच्छन्। तत्र दृष्टान्तः। उशतीरिव यथा कामयमानाः स्त्रियः स्वपतिमभिगच्छन्ति तद्वत्। जारः शत्रूणां जारयिता पूर्भिदिन्द्रः सनाच्चिरादेवासामपामारितः प्रेरकत्वेन स्वामी भवति। हे इन्द्र अस्मे अस्माकं स्वभूतानि पार्थिवा पार्थिवानि वसूनि धनवत्प्रीणयितॄणि हवींषि पूर्वीर्बह्व्यः सून्रृता वाचः स्तुतिलक्षणाश्च ते त्वदीयमस्तं गृहमा जग्मुः। आगच्छन्तु। यद्वा। अस्मदीयाः स्तुतयस्ते गृहं गच्छन्तु। अस्माकं गृहं त्वदीयानि पार्थिवानि धनान्यभिगच्छन्तु। गमेश्छन्दसि सार्वकालिको लिट्॥१०॥