श्रवणम्

10.111.5
इन्द्रो᳚ दि॒वः प्र᳚ति॒मानं᳚ पृथि॒व्या विश्वा᳚ वेद॒ सव᳚ना॒ हन्ति॒ शुष्ण᳚म् ।
म॒हीं चि॒द्द्यामात᳚नो॒त्सूर्ये᳚ण चा॒स्कम्भ᳚ चि॒त्कम्भ᳚नेन॒ स्कभी᳚यान् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । दि॒वः । प्र॒ति॒॑मान᳚म् । पृ॒थि॒व्याः । विश्वा᳚ । वे॒द॒ । सव᳚ना । हन्ति᳚ । शुष्ण᳚म् ।
म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये᳚ण । चा॒स्कम्भ᳚ । चि॒त् । स्कम्भ᳚नेन । स्कभी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य पृथिव्याश्च प्रतिमानं महत्त्वेन प्रतिनिधिरिन्द्रो विश्वासर्वाणि सवना सवनानि वेद। सोमपानार्थं जानाति। शुष्णं सर्वस्य शोषकमेतन्नामानमसुरं हन्ति। वाक्यभेदादनिघातः। अपि च महीं चिन्महतीमपि द्यां सूर्येणातनोत्। सर्वत्र प्रकाशयुक्तामकरोत्। स्कभीयान् स्कम्भयितॄणाम् मध्ये श्रेष्ठं स स्कम्भनेन चिन्निरोधनसाधनेन सामर्थ्येनैव चास्कम्भ। द्युलोकमवरुद्धमकरोत्। स्कम्भिः सौत्रो धातुः। लिटि तुजादीनामिति दीर्घः। चित्कम्भने नेत्यत्र संहितायां सलोपः। उत्पूर्वस्य स्तम्भेरुदः स्थास्तम्भोः। पा. ८-४-६१। इति सलोप उक्तः। चित्पूर्वस्य स्कम्भेरपि भवति च्छन्दोविषयत्वात्॥५॥