दशमं मण्डलम् - सूक्तम् 160

5 ऋचः

ऋषिः: पूरणो वैश्वामित्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.160 - सम्पूर्णम्

1 / 5
ऋक्: 10.160.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.160.1
ती॒व्रस्या॒भिव᳚यसो अ॒स्य पा᳚हि सर्वर॒था वि हरी᳚ इ॒ह मु᳚ञ्च ।
इन्द्र॒ मा त्वा॒ यज᳚मानासो अ॒न्ये नि री᳚रम॒न्तुभ्य᳚मि॒मे सु॒तासः᳚ ॥
▶ पदपाठः (Word-by-word)
ती॒व्रस्य᳚ । अ॒भि॑व᳚यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒॑र॒था । वि । हरी॒ इति᳚ । इ॒ह । मु॒ञ्च॒ ।
इन्द्र᳚ । मा । त्वा॒ । यज᳚मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य᳚म् । इ॒मे । सु॒तासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तीव्रस्येति पञ्चर्चं नवमं सूक्तं वैश्वामित्रस्य पूरनस्यार्षम् त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। तीव्रस्य पञ्च पूरणो वैश्वामित्र इति। तीव्रसोमाख्य एकाह इदं निष्केवल्यनिविद्धानम्। सूत्रितं च। क्वस्य वीरस्तीव्रस्याभिवयस इति मध्यन्दिनः। आ. ९-७। इति। महाव्रतेऽपि माध्यन्दिने सवने ब्रह्मशस्त्रेऽप्येतत्सूक्तम्। तथैव पञ्चमारण्यके सुत्रितम्। तीव्रस्याभिवयसो अस्य पाहीति माध्यन्दिने। ऐ. आ. ५-१-१। इति॥

तीव्रस्य तीक्ष्णस्य क्षिप्रंमदकरस्याभिवयसः। वय इत्यन्ननाम। अभिगतं चरुपुरॊडाशाद्यन्नम् यस्य तादृशस्यास्य सोमस्य। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्थी। ईदृशम् सोमं हे इन्द्र पाहि। पिब। पिबतेश्छान्दसः शपो लुक्। तदर्थं सर्वरथा सरनशीलरथौ हरी अश्वाविहास्मिन्यज्ञगृहे विमुञ्च। रथाद्विसृज। हे इन्द्र अस्मत्त्तोऽन्ये यजमानासो यजमानास्त्वा त्वां मा निरीरमन्। नितरां मा रमयन्तु। वयमेव रमयाम इत्यर्थः। ततस्तुभ्यं त्वदर्थमेव सुतासः सुता भिषुता इमे प्रत्यक्षेणोपलभ्यमानाः सोमा वर्तन्ते॥१॥

10.160.2 समानपद
तुभ्यं᳚ सु॒तास्तुभ्य᳚मु॒ सोत्वा᳚स॒स्त्वां गिर॒ः श्वात्र्या॒ आ ह्व᳚यन्ति ।
इन्द्रे॒दम॒द्य सव᳚नं जुषा॒णो विश्व᳚स्य वि॒द्वा{4} इ॒ह पा᳚हि॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । सु॒ताः । तुभ्य᳚म् । ऊं॒ इति᳚ । सोत्वा᳚सः । त्वाम् । गिरः᳚ । श्वात्र्याः᳚ । आ । ह्व॒य॒न्ति॒ ।
इन्द्र᳚ । इ॒दम् । अ॒द्य । सव᳚नम् । जु॒षा॒णः । विश्व᳚स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तुभ्यं त्वदर्थमेव सुता अभिषुताः सर्वे सोमाः सोत्वास इतः परमभिषोतव्याश्च तुभ्यमुत्वदर्थमेव। सुनोतेः कृत्यार्थे तवैकेनिति त्वन्प्रत्ययः। श्वात्र्याः श्व आशु शीघ्रमतन्त्यः प्रवर्तमाना गिरः स्तुतिरूपा वाचश्च त्वामेवा ह्वयन्ति। आक्रोशयन्ति। हे इन्द्र अद्यास्मिन्काल इदं सवनं प्रातःसवनादिकं जुषानः सेवमानो विश्वस्य सर्वस्य विद्वाञ्जाता त्वमिहास्मिन्यज्ञे सोमं पाहि। पिब॥२॥

10.160.3
य उ᳚श॒ता मन᳚सा॒ सोम᳚मस्मै सर्वहृ॒दा दे॒वका᳚मः सु॒नोति᳚ ।
न गा इन्द्र॒स्तस्य॒ परा᳚ ददाति प्रश॒स्तमिच्चारु᳚मस्मै कृणोति ॥
▶ पदपाठः (Word-by-word)
यः । उ॒श॒ता । मन᳚सा । सोम᳚म् । अ॒स्मै॒ । स॒र्व॒॑हृ॒दा । दे॒व॑का᳚मः । सु॒नोति᳚ ।
न । गाः । इन्द्रः᳚ । तस्य᳚ । परा᳚ । द॒दा॒ति॒ । प्र॒॑श॒स्तम् । इत् । चारु᳚म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य उशता कामयमानेन सर्वहृदा। सर्वमविकलं हृदयं यस्य। यद्वा। सर्वेषामृत्विजां हृदयेन। सामर्थ्यान्मत्वर्थो लक्ष्यते। हृदयवता मनसास्मा इन्द्राय देवकामो देवमिन्द्रं कामयमानो यजमान सोमं सुनोति अभिषुणोति। इन्द्रस्तस्य यजमानस्य गा न परा ददाति। परादानं विनाशः। नि विनाशयति। अस्मै यजमानाय चारुं शोभनं अत एव प्रशस्तम् । इदित्यवधारणे। ज्प्रशंसनीयमेव धनं कृणोति। करोति॥३॥

10.160.4
अनु᳚स्पष्टो भवत्ये॒षो अ᳚स्य॒ यो अ᳚स्मै रे॒वान्न सु॒नोति॒ सोम᳚म् ।
निर᳚र॒त्नौ म॒घवा॒ तं द᳚धाति ब्रह्म॒द्विषो᳚ ह॒न्त्यना᳚नुदिष्टः ॥
▶ पदपाठः (Word-by-word)
अनु᳚॑स्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति᳚ । सोम᳚म् ।
निः । अ॒र॒त्नौ । म॒घ॑वा᳚ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒॑द्विषः᳚ । ह॒न्ति॒ । अन᳚नु॑दिष्टः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य यजमानस्यैष इन्द्रोऽनुस्पष्टो दृष्तिगोचरो भवति यो रेवान्धनवानस्मा इन्द्राय सोमं सुनोति अभिषुणोति। मघवा धनोपेत इन्द्रस्तं यजमानमरत्नौ हस्ते निर्दधाति भयान्निकृष्य धारयति रक्षिता सन् धृत्वा चानुनुदिष्टस्तेनानुक्तोऽप्रार्थित एव सन्ब्रह्मद्विषो ब्राह्मनद्वेष्टॄञ्शत्रून्हन्ति। हिनस्ति॥४॥

10.160.5
अ॒श्वा॒यन्तो᳚ ग॒व्यन्तो᳚ वा॒जय᳚न्तो॒ हवा᳚महे॒ त्वोप᳚गन्त॒वा उ᳚ ।
आ॒भूष᳚न्तस्ते सुम॒तौ नवा᳚यां व॒यमि᳚न्द्र त्वा शु॒नं हु᳚वेम ॥
▶ पदपाठः (Word-by-word)
अ॒श्व॒॑यन्तः᳚ । ग॒व्यन्तः᳚ । वा॒जय᳚न्तः । हवा᳚महे । त्वा॒ । उप᳚॑ग॒न्त॒वै । ऊं॒ इति᳚ ।
आ॒॑भूष᳚न्तः । ते॒ । सु॒॑म॒तौ । नवा᳚याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुनासीरीये पर्वणीन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमित्यस्याश्वायन्त इत्येषा याज्या। इन्द्रो देवा शुन इति वैकल्पिकस्यापि हविष इयमेव याज्या। सूत्रितं च। अश्वायन्तो गव्यन्तो वाजयन्तः शुनं हुवेम मघवानमिन्द्रम्। आ. २-२०। इति॥

अश्वायन्तोऽश्वानिच्छन्तः। क्यच्यश्वाघस्यात्। पा. ७-४-३७। इत्यात्वम्। गव्यन्तो गा आत्मन इच्छन्तः। वान्तो यि प्रत्यय इत्यवादेशः। वाजयन्तोऽग्नीन्वाजनेन शूर्पादिना प्रज्वलयन्तः। वा गतिगन्धनयोः। णिचि वो विधूनने। पा. ७-३-३८। इति जुगागमः। अस्माच्छतर्यदुपदेशाल्लसार्वधादुकस्वरेणानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे ततो णिच एव स्वरः शिष्यते। अपर आह। वाजमन्नमात्मन इच्छन्त इति। तदानीमवग्रहभवस्वरौ छान्दसौ द्रष्टव्यौ। एवंभूता वयं हे इन्द्र त्वामुपगन्तवा उपगन्तुं प्राप्तुम् हवामहे। आह्वयामहे। गमेस्तुमर्थे सेसेनिति तवैप्रत्ययः। गतिसमासे तवै चान्तश्च युगपदिति गतेः प्रकृतिस्वरत्वमुत्तरपदस्यान्तोदात्तत्वम्। उ इति पूरकः। हे इन्द्र ते तव नवायामभिन्वायां प्रशस्तायां सुमतौ शोभनबुद्धावाभूषन्त आ समन्ताद्भवन्तो वर्तमानाः। यद्वा। आ समन्ताद्भूषयन्तोऽलङ्कुर्वन्तस्तवानुग्रहबुद्धौ वर्तमाना वयं शुनं सुखकरं त्वां हुवेम। आह्वयेम॥५॥