दशमं मण्डलम् - सूक्तम् 177

3 ऋचः

ऋषिः: पतङ्गः प्राजापत्यः देवता: मायाभेदः छन्दः: जगती

सूक्तम् 10.177 - सम्पूर्णम्

1 / 3
ऋक्: 10.177.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.177.1
प॒तं॒गम॒क्तमसु᳚रस्य मा॒यया᳚ हृ॒दा प᳚श्यन्ति॒ मन᳚सा विप॒श्चितः᳚ ।
स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च᳚क्षते॒ मरी᳚चीनां प॒दमि᳚च्छन्ति वे॒धसः᳚ ॥
▶ पदपाठः (Word-by-word)
प॒त॒ङ्गम् । अ॒क्तम् । असु᳚रस्य । मा॒यया᳚ । हृ॒दा । प॒श्य॒न्ति॒ । मन᳚सा । वि॒पः॒॑चितः᳚ ।
स॒मु॒द्रे । अ॒न्तरिति᳚ । क॒वयः᳚ । वि । च॒क्ष॒ते॒ । मरी᳚चीनाम् । प॒दम् । इ॒च्छ॒न्ति॒ । वे॒धसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पतङ्गमिति तृचं षड्विम्शं सूक्तम् प्रजापतिपुत्रस्य पतङ्गस्यार्षम्। आद्या जगती ततस्त्रिष्टुभौ। मायाभेदस्य प्रतिपाद्यत्वात्तद्देवत्यमिदं सूक्तम्। अनुक्रान्तं च। पतङ्गं तृचं पतङ्गः प्राजापत्यो मायाभेदं जगत्यादीति। प्रवर्ग्येऽभिष्टव आद्ये ऋचौ। सूत्रितं च। पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यः। आ. ४-७। इति॥

असुरस्यासनकुशलस्य सर्वोपाधिविहीनस्य परब्रह्मणः सम्बन्धिन्या मायाया त्रिगुणात्मिकयाक्तं व्यक्तमभिव्यक्तम्। यद्वा। मायेति प्रज्ञानाम। प्रज्ञया सम्बद्धं सर्वज्ञं पतङ्गम्। पतति गच्छतीति पतङ्गः सूर्यः। तं विपश्चितो विद्वांसो हृदा हृत्स्थेन। तात्स्थ्यात्ताच्छब्द्यम्। हृदि नुरुद्धेन मनसा पश्यन्ति। जानन्ति। कवयः क्रान्तदर्शिनस्ते समुद्रे। समुद्द्रवन्त्यस्माद्रश्मय इति समुद्रं सूर्यमण्डलम्। तस्मिन्नन्तर्मध्ये वि चक्षते। विपश्यन्ति। मण्डलान्तर्वर्तिनं हिरण्मयं पुरुषमपि जानन्तीत्यर्थः। य एवं वेधसो विधातार उक्तप्रकारेण सूर्योपासनस्य कर्तारः ते मरीचीनां रश्मीनां पदं स्थानं सूर्यमण्डलमिच्छन्ति। अभिलषन्ति। तदुपासनया प्राप्नुवन्तीत्यर्थः। यद्वा। माययाक्तं जीवरूपेणाभिव्यक्तमात्मानं विपश्चितो वेदान्ताभिज्ञा हृत्स्थेनान्तर्मुखेन मनसा पतङ्गम्। पतति व्याप्नोतीति पतङ्गः परमात्मा। तं पश्यन्ति। उपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षत्कुर्वन्तीत्यर्थः। अपि च ते कवयः क्रान्तदर्शिनो वेदान्तोआभिज्ञाः समुद्रे। समुद्द्रवन्त्यस्माद्भूतानीति समुद्रः परमात्मा। तस्मिन्नधिष्थानभूतेऽन्तर्मध्ये सर्वं द्रुश्यजातमध्यस्तत्वेन वि चक्षते। वि पश्यन्तीति। अतो दृग्व्यतिरिक्तस्य सर्वस्य मिथ्यात्वाद्वेधसो विधातारस्ते मरीचीनां व्रुत्तिज्ञानानां पदमधिष्ठानभुतं सच्चित्सुखात्मकं यत्परं ब्रह्म तदेवेच्छन्ति। तद्भावप्राप्तिमेव कामयन्ते॥१॥

10.177.2 समानपद
प॒तं॒गो वाचं॒ मन᳚सा बिभर्ति॒ तां ग᳚न्ध॒र्वो᳚॑वद॒द्गर्भे᳚ अ॒न्तः ।
तां द्योत᳚मानां स्व॒र्यं᳚ मनी॒षामृ॒तस्य᳚ प॒दे क॒वयो॒ नि पा᳚न्ति ॥
▶ पदपाठः (Word-by-word)
प॒त॒ङ्गः । वाच᳚म् । मन᳚सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः । अ॒व॒द॒त् । गर्भे᳚ । अ॒न्तरिति᳚ ।
ताम् । द्योत᳚मानाम् । स्व॒र्य᳚म् । म॒नी॒षाम् । ऋ॒तस्य᳚ । प॒दे । क॒वयः᳚ । नि । पा॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाग्देवत्ये पशौ पतङ्गो वाचमिति पुरोडाशस्यानुवाक्या। सुत्रितं च। यद्वग्वदन्त्यविचेतनानि पतङ्गो वाचम् मनसा बिभर्ति। आ. ३-८। इति॥

पतङ्गः सूर्यो वाचं त्रयीरूपां मनसा प्रज्ञया बिभर्ति। धारयति। श्रूयते हि। ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः सामवेदेनास्तमय महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः। तै. ब्रा. ३-१२-९-१। इति। तामेव वाचं गर्भे शरीरस्य मध्ये वर्तमानो गन्धर्वः। गाः शब्दान्धारयतीति गन्धर्वः प्राणवायुः। अन्तर्मध्येऽवदत्। वदति। प्रेरयति। मारुतस्तूरसि चिरन्मन्द्रं जनयति स्वरम्। पा. शि. ७। इति स्मरनात्। द्योतमानां स्वर्यं स्वर्गमयित्रीं स्वर्गाय हितां वा मनीषां मनस ईशित्रीं तां त्रयीरूपां वाचमृतस्य यज्ञस्य सत्यभुतस्य सूर्यस्य वा पदे स्थाने कवयो मेधाविन ऋषयो नि पान्ति। अध्यापनेन नितरां रक्षन्ति। यद्वा। पतङ्गः सर्वोपाधिशून्यो व्याप्तः परमात्मा। स सृष्ट्यादौ वाचम् मनसा बिभर्ति। कानि कानि स्रष्टव्यानीति पर्यालोचनेन मनसा सकलार्थप्रतिपादकं वेदं परामृष्तवानित्यर्थः। स्मर्यते हि। वेदशब्देभ्य एवादौ निर्ममे स महेश्वर इति। गर्भे हिरण्मये ब्रह्माण्डेऽन्तर्वर्तमानो गन्धर्वो हिरण्यगर्भस्तां वाचमवदत्। प्रथममुच्चारितवान्। द्योतमानत्वादिगुणविशिष्टां तां वाचं कवयः क्रान्तदर्शिनो देवा ऋतस्य सत्यस्य ब्रह्मणः पदे स्थाने नि पान्ति। निभृतं रक्षन्ति॥२॥

10.177.3
अप᳚श्यं गो॒पामनि᳚पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् ।
स स॒ध्रीची॒ः स विषू᳚ची॒र्वसा᳚न॒ आ व᳚रीवर्ति॒ भुव᳚नेष्व॒न्तः ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । गो॒पाम् । अनि᳚॑पद्यमानम् । आ । च॒ । परा᳚ । च॒ । प॒थि॑भिः᳚ । चर᳚न्तम् ।
सः । स॒ध्रीचीः᳚ । सः । विषू᳚चीः । वसा᳚नः । आ । व॒री॒व॒र्ति॒ । भुव᳚नेषु । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्येऽभीष्टवेऽपश्यं गोपमित्येशा। सूत्रितं च। अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य। आ. ४-६। इति॥

व्याख्यातेयमस्यवामीयसूक्ते। १-१६४-३१। गोपां गोपयितारमादित्यमपश्यम् । अज्ञासिषम् । एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति। कीदृशम् । अनिपद्यमानमुच्चैर्गच्छन्तम्। न ह्यसौ कदाच्न्नेचैः पद्यते। पथिभिराकाशमर्गैः पुर्वाह्ण आ चरन्तमस्मानभिलक्ष्य गच्छन्तं सायं समये परा चरन्तम्। पराङ्मुखं गच्छन्तम्। प्रकारद्वयसमुच्चयार्थौ चशब्दौ। स सूर्यः सध्रीचीः सहाञ्चन्तीः विषुचीर्विविधं पृथक्पृथगञ्चन्तीः स्वस्वव्यापाराय गच्छन्तीः। प्राच्याद्या महादिशः सध्रीच्यो विषूच्यः कोणदिशः। वसानः स्वभासाच्छादयन् प्रकाशयन्भुवनेषु लोकेष्वन्तर्मध्य आ वरीवर्ति। पुनपुनरुद्यन्नस्तं गच्छान्नावर्तते। यद्वा। गोपां शरीरस्य गोपयितारमनिपद्यमानमविनाशनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मार्गैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यम् । अहमदर्शम्॥३॥