दशमं मण्डलम् - सूक्तम् 183

3 ऋचः

ऋषिः: प्रजावान् प्राजापत्यः देवता: यजमानः छन्दः: त्रिष्टुप्

सूक्तम् 10.183 - सम्पूर्णम्

1 / 3
ऋक्: 10.183.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.183.1
अप᳚श्यं त्वा॒ मन᳚सा॒ चेकि᳚तानं॒ तप᳚सो जा॒तं तप᳚सो॒ विभू᳚तम् ।
इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚ण॒ः प्र जा᳚यस्व प्र॒जया᳚ पुत्रकाम ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । त्वा॒ । मन᳚सा । चेकि᳚तानम् । तप᳚सः । जा॒तम् । तप᳚सः । वि॑भू᳚तम् ।
इ॒ह । प्र॒॑जाम् । इ॒ह । र॒यिम् । ररा᳚णः । प्र । जा॒य॒स्व॒ । प्र॒॑जया᳚ । पु॒त्र॒॑का॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपश्यमिति तृचं द्वात्रिंशं सूक्तं त्रैष्टुभम्। प्रजापतिपुत्रः प्रजावान्नामर्षिः। ऋचः क्रमेण यजमानपत्नीहोतॄणामशिषः प्रतिपादिकाः। अतस्तद्देवताकाः। तथा चानुक्रान्तम्। अपश्यं प्रजावान्प्राजापत्योऽन्वृचं यजमानपत्नीहोत्राशिष इति। प्रवर्ग्येऽभिष्टव एतत्सूक्तम्। सूत्र्यते हि। अपश्यम् त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययात्मानम्। आ. ४-६। इति॥

हे यजमान त्वा त्वां मनसा बुद्ध्यापश्यम्। अदर्शम्। कीदृशम्। चेकितानं कर्माणि भृशं जानन्तं तपसो दीक्षारूपाद्व्रताज्जातं पुनरुत्पन्नं यद्वा जन्मान्तरानुष्ठातात्सुकृतादुत्पन्नं तपसोऽनुष्ठीयमानाद्यज्ञाद्धेतोर्विभूतं व्याप्तं सर्वत्र प्रख्यातम्। हे पुत्रकाम पुत्रान्कामयमान स त्वमिहास्मिल्लोके प्रजां पुत्रपौत्रादिरूपां रराणो रमयन् रयिं धनमैहास्मिल्लोके रमयन् प्रजया प्रजनेन प्र जायस्व। पुत्रादिरूपेणोत्पद्यस्व। प्रजा उत्पादयेत्यर्थः॥१॥

10.183.2
अप᳚श्यं त्वा॒ मन᳚सा॒ दीध्या᳚नां॒ स्वायां᳚ त॒नू ऋत्व्ये॒ नाध᳚मानाम् ।
उप॒ मामु॒च्चा यु᳚व॒तिर्ब᳚भूया॒ः प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । त्वा॒ । मन᳚सा । दीध्या᳚नाम् । स्वाया᳚म् । त॒नू इति᳚ । ऋत्व्ये᳚ । नाध᳚मानाम् ।
उप᳚ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒॑जया᳚ । पु॒त्र॒॑का॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पत्नी दीध्यानां दीप्यमानां स्वायामात्मीयायां तनू तन्वां शरीर ऋत्व्ये। ऋतुकाले भवं गर्भधारणरूपं कर्मर्त्वियम्। तस्मिन्निमित्तभूते नाधमानां भर्तुरुपगमनं याचमानां त्वा त्वां मनसापश्यम्। अद्राक्षम्। हे पुत्र कामे पुत्रान्कामयमाने मामुप मत्समीपं प्राप्य सा त्वमुच्चोच्चैर्भृशं युवतिस्तरुणी बभूयाः+। भूयाः। छन्दस्युभयथेत्याशीर्लिङः सार्वधातुकत्वाच्छप्। तस्य छान्दसः श्लुः। अलिट्यपि व्यत्ययेन भवतेरः। पा. ७-४-७३। इत्यभ्यासस्यात्वम्। युवतिर्भुत्वा च प्रजया प्रजनेन प्र जायस्व। पुत्रान्प्रसूष्व। जनीप्रादुर्भावे। श्यनि ज्ञाजनोर्जेति जादेशः॥२॥

10.183.3 समानपद
अ॒हं गर्भ᳚मदधा॒मोष᳚धीष्व॒हं विश्वे᳚षु॒ भुव᳚नेष्व॒न्तः ।
अ॒हं प्र॒जा अ᳚जनयं पृथि॒व्याम॒हं जनि᳚भ्यो अप॒रीषु᳚ पु॒त्रान् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । गर्भ᳚म् । अ॒द॒धा॒म् । ओष᳚धीषु । अ॒हम् । विश्वे᳚षु । भुव᳚नेषु । अ॒न्तरिति᳚ ।
अ॒हम् । प्र॒॑जाः । अ॒ज॒न॒य॒म् । पृ॒थि॒व्याम् । अ॒हम् । जनि᳚॑भ्यः । अ॒प॒रीषु᳚ । पु॒त्रान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं होतौषधीषु शाल्यादिषु फलार्थं गर्भमदधाम्। धारयामि। विश्वेषु सर्वेष्वन्येष्वपि भुवनेषु भूतजातेष्वन्तर्मध्येऽहमेव गर्भं धारयामि। तथा पृथिव्यां भूम्यां प्रजाः सर्वान्मनुश्यानहमजनयम्। जनयामि। जनिभ्यो जायाभ्योऽपरीष्टन्यास्वपि स्त्रीषु पुत्रानहमजनयम्। जनयामि। मत्साध्येन यागेन सर्वस्योत्पत्तेरहं सर्वजनहेतुर्भवामीत्यर्थः॥३॥