अप᳚श्यं त्वा॒ मन᳚सा॒ दीध्या᳚नां॒ स्वायां᳚ त॒नू ऋत्व्ये॒ नाध᳚मानाम् ।
उप॒ मामु॒च्चा यु᳚व॒तिर्ब᳚भूया॒ः प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ॥
उप॒ मामु॒च्चा यु᳚व॒तिर्ब᳚भूया॒ः प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ॥
पदपाठः (Word-by-word)
अप᳚श्यम् । त्वा॒ । मन᳚सा । दीध्या᳚नाम् । स्वाया᳚म् । त॒नू इति᳚ । ऋत्व्ये᳚ । नाध᳚मानाम् ।
उप᳚ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒॑जया᳚ । पु॒त्र॒॑का॒मे॒ ॥
उप᳚ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒॑जया᳚ । पु॒त्र॒॑का॒मे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पत्नी दीध्यानां दीप्यमानां स्वायामात्मीयायां तनू तन्वां शरीर ऋत्व्ये। ऋतुकाले भवं गर्भधारणरूपं कर्मर्त्वियम्। तस्मिन्निमित्तभूते नाधमानां भर्तुरुपगमनं याचमानां त्वा त्वां मनसापश्यम्। अद्राक्षम्। हे पुत्र कामे पुत्रान्कामयमाने मामुप मत्समीपं प्राप्य सा त्वमुच्चोच्चैर्भृशं युवतिस्तरुणी बभूयाः+। भूयाः। छन्दस्युभयथेत्याशीर्लिङः सार्वधातुकत्वाच्छप्। तस्य छान्दसः श्लुः। अलिट्यपि व्यत्ययेन भवतेरः। पा. ७-४-७३। इत्यभ्यासस्यात्वम्। युवतिर्भुत्वा च प्रजया प्रजनेन प्र जायस्व। पुत्रान्प्रसूष्व। जनीप्रादुर्भावे। श्यनि ज्ञाजनोर्जेति जादेशः॥२॥