दशमं मण्डलम् - सूक्तम् 48

11 ऋचः

ऋषिः: इंद्रो वैकुंठः देवता: इंद्रो वैकुंठः छन्दः: जगती

सूक्तम् 10.48 - सम्पूर्णम्

1 / 11
ऋक्: 10.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.48.1 समानपद
अ॒हं भु᳚वं॒ वसु᳚नः पू॒र्व्यस्पति᳚र॒हं धना᳚नि॒ सं ज᳚यामि॒ शश्व᳚तः ।
मां ह᳚वन्ते पि॒तरं॒ न ज॒न्तवो॒॑हं दा॒शुषे॒ वि भ᳚जामि॒ भोज᳚नम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । भु॒व॒म् । वसु᳚नः । पू॒र्व्यः । पतिः᳚ । अ॒हम् । धना᳚नि । सम् । ज॒या॒मि॒ । शश्व᳚तः ।
माम् । ह॒व॒न्ते॒ । पि॒तर᳚म् । न । ज॒न्तवः᳚ । अ॒हम् । दा॒शुषे᳚ । वि । भ॒जा॒मि॒ । भोज᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं भुवमित्येकादशर्चं षष्टं सूक्तम् । पूर्वसूक्तेन सप्तगुना स्तुतो हृष्तः सन्निदमादिसूक्तत्रयेण सयमात्रानमस्तौत्। तस्माद्वैकुण्ठस्येन्द्रस्य वाक्यक्याद्यस्य वाक्यं स ऋषिरिति परिभाषयेन्द्र ऋषिः। वैकुण्ठस्येन्द्रस्य च स्तूयमानत्याद्या तेनोच्यते सा देवतेति परिभाषयेन्द्र एव देवता। दशम्येकादशी सप्तम्यस्त्रिष्टुभः। शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः। तथा चानुक्रान्तम् । स सप्तगस्तुतिसंहृष्ट आत्मानमुत्तरैस्त्रिभिस्तुष्टावाहं भुवेमेकादशान्त्ये त्रिष्टुभौ सप्तमि चेति। अतिरात्रे द्वितीयपर्याये होतुः शस्त्र एतत्सूक्तं सूत्रितं च। अहं भुवनुपाय्यस्यान्धसोमदायेति याज्या। आ. ६-४। इति। समूळ्हस्य दशरात्रस्य तृतीये छन्दोमे निष्केवल्येऽप्येतत्सूक्तम् । अहं भुवं तत्त इन्द्रियमिति निष्केवल्यम् । आ. ८-७। इति सूत्रितम्॥

अहमैन्द्रो वसुनो धनस्य पूर्व्यो मुख्योऽसाधारणः पतिः स्वामी भुवम् । आभवम् । भवतेर्लङि बहुलं छन्दसीति शपो लुक्। अचि श्नुधातुभ्रुवा मित्युवङादेशः। आभावश्छान्दसः। तथाहं शश्वतः। बहुनामैतत्। बहोः शत्रोः सम्बन्धीनि धनानि। समित्येकीभावे। सह जयामि। किञ्च मामेव जन्तवः प्राणिनो यजमाना हवन्ते। आह्वयन्ति। पितरं न पितरमिव पुत्राः। अहं दाशुषे दात्रे यजमानाय भोजनमन्नं वि भजामि। ददामि॥१॥

10.48.2 समानपद
अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ᳚र्वणस्त्रि॒ताय॒ गा अ᳚जनय॒महे॒रधि᳚ ।
अ॒हं दस्यु᳚भ्य॒ः परि᳚ नृ॒म्णमा द᳚दे गो॒त्रा शिक्ष᳚न्दधी॒चे मा᳚त॒रिश्व᳚ने ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । इन्द्रः᳚ । रोधः᳚ । वक्षः᳚ । अथ᳚र्वणः । त्रि॒ताय᳚ । गाः । अ॒ज॒न॒य॒म् । अहेः᳚ । अधि᳚ ।
अ॒हम् । दस्यु᳚॑भ्यः । परि᳚ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष᳚न् । द॒धी॒चे । मा॒त॒रिश्व᳚ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

आद्यपादस्येतिहासमाहुः। अथर्वणम् दध्यञ्चं मधुविद्यावन्तमिन्द्र आगत्य मधुविद्यां कस्य चिन्न ब्रूया इति नियमितवान्। यदि ब्रूयस्ते शिरो हरामीत्युक्तवान्। स चाथर्वणॊय़्श्विभ्यामुवाच। इदं वै तन्मधु दध्यङ्गाथर्वणोऽश्विभ्यामुवाच। शत १४-५-५-१६। अश्वस्य शीर्ष्णा प्र यदीमुवाच। इ/ १-११६-१२। इति हि श्रुतिः। स चेन्द्र आगत्य दधीचः शिरोऽहरदिति तत्रोच्यते। इन्द्रोऽहमथर्वणॊफ़्ऽधर्वणः पुत्रस्य दधीचो वक्षः। तदुपलक्षितं शिर इत्यर्थः। तस्य रोधो रोधकोहर्तास्मि। तथा त्रितायैतन्नामकायाप्त्याय कूपपतितायोद्धरणार्थमहेर्मेघस्याध्युपरि गा उदकान्यजनयम् । उदपादयम् । त्रितस्य कूपपतिस्येन्द्रं प्रत्युद्धरण प्रार्थनं सं मा तपन्त्यभितः। ऋ. १०-३३-२। इत्यत्र प्रतिपादितम् । तथाहं दस्युभ्य उपक्षपयितृभ्यः शतृभ्यः सकाशान्नृम्णं धनमाददे। आदत्तवानस्मि। किं कुर्वन्। गोत्रा गवामुदकानां रक्षकान्मेघाञ्युक्षन् विनयन्। किमर्थम् । मातरिश्वने मातरिश्वनः पुत्राय दधीच एतन्नामकायर्षये वर्षकामाय प्रवर्षयितुमिच्छन्॥२॥

10.48.3
मह्यं॒ त्वष्टा॒ वज्र᳚मतक्षदाय॒सं मयि᳚ दे॒वासो᳚॑वृज॒न्नपि॒ क्रतु᳚म् ।
ममानी᳚कं॒ सूर्य᳚स्येव दु॒ष्टरं॒ मामार्य᳚न्ति कृ॒तेन॒ कर्त्वे᳚न च ॥
▶ पदपाठः (Word-by-word)
मह्य᳚म् । त्वष्टा᳚ । वज्र᳚म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि᳚ । दे॒वासः᳚ । अ॒वृ॒ज॒न् । अपि᳚ । क्रतु᳚म् ।
मम᳚ । अनी᳚कम् । सूर्य᳚स्य॑इव । दु॒स्तर᳚म् । माम् । आर्य᳚न्ति । कृ॒तेन᳚ । कर्त्वे᳚न । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मह्यं मदर्थं त्वष्टा देव आयसमयोमयं वज्रमायुधमतक्षत्। सम्पादितवान्। देवा मयि विषये क्रतुं स्वविरोधिहननरूपं कर्माप्यवृजन्। समपादयन्। ममानीकं सेनासमूहं सूर्यानीकमिव दुष्टरम् । अन्येन तुरीतुमशक्यम् । मामेव कृतेन कर्मणा कर्त्वेनेतः परं कर्तव्येन वृत्रवधादि रूपेणार्यन्ति। गच्छन्ति। आर्यतिर्गतिकर्मा। यद्वा। आर्यमीश्वरं कुर्वते॥३॥

10.48.4
अ॒हमे॒तं ग॒व्यय॒मश्व्यं᳚ प॒शुं पु᳚री॒षिणं॒ साय᳚केना हिर॒ण्यय᳚म् ।
पु॒रू स॒हस्रा॒ नि शि᳚शामि दा॒शुषे॒ यन्मा॒ सोमा᳚स उ॒क्थिनो॒ अम᳚न्दिषुः ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । ए॒तम् । ग॒व्यय᳚म् । अश्व्य᳚म् । प॒शुम् । पु॒री॒षिण᳚म् । साय᳚केन । हि॒र॒ण्यय᳚म् ।
पु॒रु । स॒हस्रा᳚ । नि । शि॒शा॒मि॒ । दा॒शुषे᳚ । यत् । मा॒ । सोमा᳚सः । उ॒क्थिनः᳚ । अम᳚न्दिषुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमेतं गव्ययं गोमयमश्व्यमश्वमयं हिरण्ययं हिरण्यालङ्कारोपेतं पुरीषिणम् । पुरीशमुदकं क्षीररूपं तद्वन्तं पशुं शत्रुसम्बन्धिनम् । जात्येकवचनम् । पशुसङ्घमित्यर्थः। तम्। सायकेनायुधेनाजयम्। तथा पुरु पुरूणि सहस्रा सहस्राणि शस्त्राणि नि शिशामि संस्करोमि दाशुशे हर्विर्दत्तवते यजमानाय। वैरिनाशायेत्यर्थः। कदेति उच्यते। यद्य दा मा मां सोमासः सोमा उक्थिनः शस्त्रोपेताः सन्तः अथवा सोमेन शस्त्रैश्चोपेता यजमाना आमन्दिषुः तर्पयन्ति॥४॥

10.48.5
अ॒हमिन्द्रो॒ न परा᳚ जिग्य॒ इद्धनं॒ न मृ॒त्यवे॑व᳚ तस्थे॒ कदा᳚ च॒न ।
सोम॒मिन्मा᳚ सु॒न्वन्तो᳚ याचता॒ वसु॒ न मे᳚ पूरवः स॒ख्ये रि᳚षाथन ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । इन्द्रः᳚ । न । परा᳚ । जि॒ग्ये॒ । इत् । धन᳚म् । न । मृ॒त्यवे᳚ । अव᳚ । त॒स्थे॒ । कदा᳚ । च॒न ।
सोम᳚म् । इत् । मा॒ । सु॒न्वन्तः᳚ । या॒च॒त॒ । वसु᳚ । न । मे॒ । पू॒र॒वः॒ । स॒ख्ये । रि॒षा॒थ॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रो धनस्य सर्वस्य स्वाम्यहं धनमात्मीयं न परा जिग्य इत्। नैव पराभावयामि। मदीयं धनं न पराभूयत इत्यर्थः। किञ्चाहं मृत्यवे सर्वेषां मारकाय कदा चन कदापि नाव तस्थे। नावस्थितो भवामि। इन्द्रभक्ता न मृत्युभाजो भवन्ति किल किमु वक्तव्यमिन्द्रस्य मृत्युविरहे। यस्मादेवं तस्मात्सोमं सुन्वन्तो हे यजमानाः वसु युष्मदभिमतं धनं मेन्मामेव याचत। हे पूरवो मनुष्याः मे सख्ये न रिषाथन। मा रिष्टा भवथ। मत्सख्यं मा विनाशयत॥५॥

10.48.6
अ॒हमे॒ताञ्छाश्व᳚सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं᳚ यु॒धये॑कृ᳚ण्वत ।
आ॒ह्वय᳚माना{4}॒ अव॒ हन्म᳚नाहनं दृ॒ळ्हा वद॒न्नन᳚मस्युर्नम॒स्विनः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । ए॒तान् । शाश्व᳚सतः । द्वा॑द्वा᳚ । इन्द्र᳚म् । ये । वज्र᳚म् । यु॒धये᳚ । अकृ᳚ण्वत ।
आ॒॑ह्वय᳚मानान् । अव᳚ । हन्म᳚ना । अ॒ह॒न॒म् । दृ॒ळ्हा । वद᳚न् । अन᳚मस्युः । न॒म॒स्विनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमिन्द्र एतान्वक्ष्यमाणाञ्याश्वसतो भृशं प्राणतः प्रवृद्धबलाञ्शत्रून् द्वा द्वा द्वौ द्वौ। युग्मभूतानित्यर्थः। तानहनमिति सम्बन्धः। एतानित्युक्तं कानित्याह। ये शत्रव इन्द्रं शत्रूणां दारकम् । इन्द्रः शत्रूणां दारयितेति निरुक्तम् । १०-८। ईदृशं वज्रं बलिनं यद्वा व्रजवन्तं युधये युद्धायाकृण्वत अकुर्वत। तानेतानित्यर्थः। पुनः कीदृशान्। आह्वयमानान् एहि युध्यस्वेत्याह्वयतः शत्रून् नमस्विनो नमनवतो बलान्नमयित्वानमस्युरप्रनतिशीलः सन् दृळ्हा दृधानि भयजनकानि स्थिराणि वचनानि वदन्नहनं हतवानस्मि॥६॥

10.48.7
अ॒भी॒३॒᳚दमेक॒मेको᳚ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः᳚ करन्ति ।
खले॒ न प॒र्षान्प्रति᳚ हन्मि॒ भूरि॒ किं मा᳚ निन्दन्ति॒ शत्र᳚वो॑नि॒न्द्राः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । इ॒दम् । एक᳚म् । एकः᳚ । अ॒स्मि॒ । नि॒ष्षाट् । अ॒भि । द्वा । किम् । ऊं॒ इति᳚ । त्रयः᳚ । क॒र॒न्ति॒ ।
खले᳚ । न । प॒र्षान् । प्रति᳚ । ह॒न्मि॒ । भूरि᳚ । किम् । मा॒ । नि॒न्द॒न्ति॒ । शत्र᳚वः । अ॒नि॒न्द्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमिदमिदानीमेकं शत्रुमेकोऽसहाय एव सन्नभ्यस्मि। अभिभवामि। किञ्च निष्षाट् सपत्नान्निःषहमाणॊऽहं द्वा द्वावप्यसह्यौ शत्रू अभ्यस्मि। किमु किं वा त्रयः शत्रवः करन्ति। कुर्वन्ति। तानप्यभिभवामीत्यर्थः। किं बहुना। खले न खलनिष्पादने यथा जीर्णव्रीह्यादिस्तंबाननायासेन प्रतिहन्ति कर्षकः तद्वत्पर्षान्निष्थुरान्भूरि बहून्यत्रून्प्रति हन्मि। मा मामनिन्द्रा इन्द्ररहिता इन्द्रमजानन्त इन्द्रविरोधिनः शत्रवो मामिन्द्रं किं निन्दन्ति। निन्दितुमशक्ता इत्यर्थः। अत्राभिभवामीत्यादि निरुक्तं द्रष्टव्यम् । नि. ३-१०॥७॥

10.48.8
अ॒हं गु॒ङ्गुभ्यो᳚ अतिथि॒ग्वमिष्क᳚र॒मिषं॒ न वृ᳚त्र॒तुरं᳚ वि॒क्षु धा᳚रयम् ।
यत्प᳚र्णय॒घ्न उ॒त वा᳚ करञ्ज॒हे प्राहं म॒हे वृ᳚त्र॒हत्ये॒ अशु᳚श्रवि ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । गु॒ङ्गु॑भ्यः᳚ । अ॒ति॒थि॒॑ग्वम् । इष्क᳚रम् । इष᳚म् । न । वृ॒त्र॒॑तुर᳚म् । वि॒क्षु । धा॒र॒य॒म् ।
यत् । प॒र्ण॒य॒॑घ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒॑हे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒॑हत्ये᳚ । अशु᳚श्रवि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमिन्द्रो गुङ्गुभ्य एतन्नामकेभ्यो जनपदेभ्यो रक्षणायातिथिग्वमतिथिगोः पुत्रं दिवोदासमृषिमिष्करं निष्कर्तारं वृत्रतुरं शत्रूणां हिंसकं विक्षु प्रजासु मध्य इषं नान्नमिव तासामन्नं यथा भोगाय भवति तद्वदन्न स्थानीयं धारयम् । धारितवानस्मि। कदेति उच्यते। यद्यदा पर्णयघ्ने पर्णयनामकस्यासुरस्य हननवति उतापि च करञ्जह एतन्नामकस्य हननोपेते महे महति वृत्रहत्ये सङ्ग्रामेऽशुश्रवि श्रुतोऽभुवं॥८॥

10.48.9
प्र मे॒ नमी᳚ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे᳚ स॒ख्या कृ᳚णुत द्वि॒ता ।
दि॒द्युं यद᳚स्य समि॒थेषु᳚ मं॒हय॒मादिदे᳚नं॒ शंस्य᳚मु॒क्थ्यं᳚ करम् ॥
▶ पदपाठः (Word-by-word)
प्र । मे॒ । नमी᳚ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा᳚म् । एषे᳚ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता ।
दि॒द्युम् । यत् । अ॒स्य॒ । स॒म्॑इ॒थेषु᳚ । मं॒हय᳚म् । आत् । इत् । ए॒न॒म् । शंस्य᳚म् । उ॒क्थ्य᳚म् । क॒र॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मम मत्सम्बन्धी नमी। नामकत्वान्नमः स्तोत्रम् । तदस्यास्तीति नमीस्तोता साप्यः सर्वैराश्रयणीय इषेऽन्नाय भुजे भोगाय प्र भूत्। प्रभवति। तं मत्स्तोतारं नमष्या गवामेषेऽन्वेषणाय सख्या सख्याय च द्विता द्विविधं द्विप्रकाराय कृणुत। कृण्वन्ति। गवां दातारं सखायं च कुर्वन्तीत्यर्थः। यद्वा। गवामेष एषने द्विता द्वैधाय सख्या शरीराय सैनिकाय च सख्यायकृण्वन्ति। कदेति उच्यते। यद्यदास्य मत्सम्बन्धिनः स्तोतुर्जयार्थं समिथेषु सङ्ग्रामेषु दिद्युमायुधं मंहयम् । स्वीकुर्यामित्यर्थः। आदिदनन्तरमेवैनं स्तोतारं शंस्यं स्तुत्यमुक्थ्यमुक्थार्हं करम् । आकरम् । करोमि॥९॥

10.48.10
प्र नेम᳚स्मिन्ददृशे॒ सोमो᳚ अ॒न्तर्गो॒पा नेम᳚मा॒विर॒स्था कृ᳚णोति ।
स ति॒ग्मशृ᳚ङ्गं वृष॒भं युयु᳚त्सन्द्रु॒हस्त᳚स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥
▶ पदपाठः (Word-by-word)
प्र । नेम᳚स्मिन् । द॒दृ॒शे॒ । सोमः᳚ । अ॒न्तः । गो॒पाः । नेम᳚म् । आ॒विः । अ॒स्था । कृ॒णो॒ति॒ ।
सः । ति॒ग्म॑शृ᳚ङ्गम् । वृ॒ष॒भम् । युयु᳚त्सन् । द्रु॒हः । त॒स्थौ॒ । ब॒हु॒ले । ब॒द्धः । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नेमस्मिन्। नेमशब्दोऽर्धपर्याय। यष्टायष्टा च द्वौ पुरुषौ यध्यन्तौ। यतोरेकस्मिन्यष्टरीत्यर्थः। ठस्मिन्नतः सोमो ददृशे। दृश्यते। तं नेममर्धमेकं गोपा गोपायितेन्द्रोऽस्था क्षेपणसाधनेन वज्रेणाविष्कृणोति। प्रकटयति। शत्रुभिरनभिभुतं करोतीत्यर्थः। स यत्र सोमो न दृश्यते स तिग्मशृङ्गं तीक्ष्णायुधं वृषभं बाणान्वर्षयन्तमिन्द्रेणानुगृहीतं प्रति युयुत्सन् योद्धुमिच्छन् द्रुहो द्रोग्धा बद्धः सन् बहुलेऽन्धकारेऽन्तस्तस्य मध्ये तस्थौ। तिष्ठति। यद्वा। एवं व्याख्येयम् । नेमस्मिन्निन्द्रभक्तेऽन्तः सोमो दवृशे। नेममन्यं गोपाः स्वभक्तरक्षक इन्द्रोऽस्था वज्रेणाविष्कृणोति। आविष्करोति। वज्रेण पीअयतीत्यर्थः। स नेमो द्रुहस्तिग्मशृङ्गं वृषभमिन्द्रं युयुत्सन्। शिष्टं समानं॥१०॥

10.48.11 समानपद
आ॒दि॒त्यानां॒ वसू᳚नां रु॒द्रिया᳚णां दे॒वो दे॒वानां॒ न मि᳚नामि॒ धाम᳚ ।
ते मा᳚ भ॒द्राय॒ शव᳚से ततक्षु॒रप᳚राजित॒मस्तृ᳚त॒मषा᳚ळ्हम् ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याना᳚म् । वसू᳚नाम् । रु॒द्रिया᳚णाम् । दे॒वः । दे॒वाना᳚म् । न । मि॒ना॒मि॒ । धाम᳚ ।
ते । मा॒ । भ॒द्राय᳚ । शव᳚से । त॒त॒क्षुः॒ । अप᳚रा॑जितम् । अस्तृ᳚तम् । अषा᳚ळ्हम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्यानां वसूनां रुद्रियाणां रुद्राणां यद्वा रुद्रपुत्राणां मरुतां च देवानां धाम स्थानं देव इन्द्रो न मिनाति। न हिनस्ति। त आदित्यादयो मा मां भद्राय शवसे ततक्षुः। अनुगृह्णन्तु। अपराजितमस्तृतमहिंसिठमषाळ्ह मनभिभूतम्॥११॥