दशमं मण्डलम् - सूक्तम् 139

6 ऋचः

ऋषिः: विश्वावसुर्देवगंधर्वः देवता: सविता छन्दः: त्रिष्टुप्

सूक्तम् 10.139 - सम्पूर्णम्

1 / 6
ऋक्: 10.139.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.139.1
सूर्य᳚रश्मि॒र्हरि᳚केशः पु॒रस्ता᳚त्सवि॒ता ज्योति॒रुद᳚या{4}॒ अज᳚स्रम् ।
तस्य᳚ पू॒षा प्र᳚स॒वे या᳚ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव᳚नानि गो॒पाः ॥
▶ पदपाठः (Word-by-word)
सू॒र्य᳚॑रश्मिः । हरि᳚॑केशः । पु॒रस्ता᳚त् । स॒वि॒ता । ज्योतिः᳚ । उत् । अ॒या॒न् । अज᳚स्रम् ।
तस्य᳚ । पू॒षा । प्र॒॑स॒वे । या॒ति॒ । वि॒द्वान् । स॒म्॑पश्य᳚न् । विश्वा᳚ । भुव᳚नानि । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यरश्मिरिति षडृचमेकादशं सूक्तं त्रैष्टुभम्। विश्वावसुर्नाम गन्धर्वऋषिः। स च पूर्वेण तृचेन सवितारम् स्तुतवान् उत्तरेण स्वात्मानम्। अतः प्रथमतृचस्य सविता देवता द्वितीयस्य गन्धर्वः। तथा चानुक्रान्तम्। सूर्यरश्मिर्देवगन्धर्वो विश्वावसुरात्मानमस्तौत्पूर्वार्धे सवितारमिति। गतो विनियोगः॥

सूर्यरश्मिः। उषसः प्रादुर्भावानन्तरं सूर्यस्योदयात्पूर्वं यः कालस्तस्य कालस्याभिमानी देवः सवितेत्युच्यते। सूर्यरश्मिः सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य रश्मिरेव रश्मिर्यस्य स तथोक्तः हरिकेशः हरयो हरणशीला हरितवर्णा वा केशाः केशस्थानीयाः प्रकाशमाना वा दीप्तयो यस्य ईदृशः सविता सर्वस्य प्रेरको देवः पुरस्तात्पूर्वस्यां दिश्यजस्रमनवरतं ज्योतिस्तेज उदयान्। उद्याति। उद्गमयति। यातेरन्तर्भावितण्यर्थाच्छान्दसो लङ्। व्यत्ययेन बहु वचनम्। संहितायां दीर्घादटि समानपाद इति नकारस्य रुत्वम्। आतोऽट नित्यमिति सानुनासिक आकारः। तस्य सवितुः प्रसवे प्रेरणेऽनुज्ञायां सत्यां विद्वाञ्जानन्गोपा गोपयिता रक्षिता पूषा पोषको देव आदित्यो याति। नभसि गच्छति। किं कुर्वन्। विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि सम्पश्यन्। सम्यक् प्रकाशयन्॥१॥

10.139.2
नृ॒चक्षा᳚ ए॒ष दि॒वो मध्य᳚ आस्त आपप्रि॒वान्रोद᳚सी अ॒न्तरि᳚क्षम् ।
स वि॒श्वाची᳚र॒भि च᳚ष्टे घृ॒ताची᳚रन्त॒रा पूर्व॒मप᳚रं च के॒तुम् ॥
▶ पदपाठः (Word-by-word)
नृ॒॑चक्षाः᳚ । ए॒षः । दि॒वः । मध्ये᳚ । आ॒स्ते॒ । आ॒प॒प्रि॒॑वान् । रोद᳚सी॒ इति᳚ । अ॒न्तरि᳚क्षम् ।
सः । वि॒श्वाचीः᳚ । अ॒भि । च॒ष्टे॒ । घृ॒ताचीः᳚ । अ॒न्त॒रा । पूर्व᳚म् । अप᳚रम् । च॒ । के॒तुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृचक्षा नॄन्मनुष्यान्पश्यन् यद्वा नृभिर्नेतृभी रश्मिभिः प्रकाशमान एष सविता दिवो द्युलोकस्य मध्य आस्ते। निषीदति। किं कुर्वन्। रोदसी द्यावापृथिव्यावन्तरिक्षं चापप्रिवान् स्वतेजसापूरयन्। प्रा पूरणे। अस्माच्छान्दसो लिट्। क्वसुश्चेति तस्य क्वसुरादेशः। वस्वेकाजाद्घसामितीडागमः। स देवो विश्वाचीर्विश्वमञ्चन्तीः सर्वव्यापिनीः प्राच्यादिमहादिशोऽभि चष्टे। प्रकाशयति। तथा घृताचीर्घृतं दीप्तं रूपमञ्चन्तीराग्नेय्यादिविशश्च प्रकाशयति। अञ्चतेः क्विनन्तादञ्चतेश्चोपसङ्ख्यानमिति ङीप्। ततो भसंज्ञायामच इत्याकारलोपे चाविति दीर्घत्वम्। उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते चाविति पुर्वस्याच उदात्तत्वम्। तथा पूर्वं पूर्वभागं केतुं प्रज्ञापनीयपरं पृष्ठभाग्गं चान्तरान्तरालं चाभि चष्टे। प्रकाशयति॥२॥

10.139.3
रा॒यो बु॒ध्नः सं॒गम᳚नो॒ वसू᳚नां॒ विश्वा᳚ रू॒पाभि च᳚ष्टे॒ शची᳚भिः ।
दे॒व इ᳚व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त᳚स्थौ सम॒रे धना᳚नाम् ॥
▶ पदपाठः (Word-by-word)
रा॒यः । बु॒ध्नः । स॒म्॑गम᳚नः । वसू᳚नाम् । विश्वा᳚ । रू॒पा । अ॒भि । च॒ष्टे॒ । शची᳚भिः ।
दे॒वः॑इ᳚व । स॒वि॒ता । स॒त्य॑ध᳚र्मा । इन्द्रः᳚ । न । त॒स्थौ॒ । स॒म्॑अ॒रे । धना᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रायो धनस्य बुध्नो बन्धको मूलभूतो वा। ऊडिदमित्यादिना रैशब्दाद्विभक्तेरुदात्तत्वम्। तथा वसूनां धनानां सङ्गमनः सङ्गमयिता प्रापयिता ईदृशः सविता शचीभिर्दीप्तिभिर्विश्वा रूपा सर्वाणि रूपाणि निरूपणीयानि पदार्थजातान्यभिचष्टे। अभिपश्यति। प्रकाशयति। अपि च देव इवायं सविता सावको देवः सत्यधर्मा सत्यमवितथं धर्म धारणम् धारणहेतुभूतं कर्म वा यस्य तादृशो भवति तथेन्द्रो नेन्द्र इव धनानां समरे सङ्ग्रामे सम्यक्प्रपणे तस्थौ। अयं सवितोद्युक्तः संस्तिष्ठति॥३॥

10.139.4 समानपद
वि॒श्वाव᳚सुं सोम गन्ध॒र्वमापो᳚ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या᳚यन् ।
तद॒न्ववै॒दिन्द्रो᳚ रारहा॒ण आ᳚सां॒ परि॒ सूर्य᳚स्य परि॒धी{4}र᳚पश्यत् ॥
▶ पदपाठः (Word-by-word)
वि॒श्व॑व᳚सुम् । सो॒म॒ । ग॒न्ध॒र्वम् । आपः᳚ । द॒दृ॒शुषीः᳚ । तत् । ऋ॒तेन᳚ । वि । आ॒य॒न् ।
तत् । अ॒नु॒॑अवै᳚त् । इन्द्रः᳚ । र॒र॒हा॒णः । आ॒सा॒म् । परि᳚ । सूर्य᳚स्य । प॒रि॒॑धीन् । अ॒प॒श्य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वया सहितं गन्धर्वं गीतरूपां गां शब्दं धारयन्तं विश्वावसुमेतत्संज्ञं माम् । उत्तरत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहरः। यदापो वसतीवर्याख्या ददृशुषीर्दृष्टवत्यः। दृशेर्लिटः क्वसुः। उगितश्चेति ङीप्। वसोः सम्प्रसारणमिति सम्प्रसारणम्। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। तत्तदानीमृतेन ररहाणो गमयितेन्द्रोऽन्ववैत्। अस्वबुध्यत। बुद्ध्वा च कुत्र यज्ञः प्रवृत्त इति सूर्यस्य परिधीन्परितो धीयमानान्प्राच्यादिदिग्विभागान्पर्यपश्यत्। परितो दृष्टवान्॥४॥

10.139.5
वि॒श्वाव᳚सुर॒भि तन्नो᳚ गृणातु दि॒व्यो ग᳚न्ध॒र्वो रज᳚सो वि॒मानः᳚ ।
यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म धियो᳚ हिन्वा॒नो धिय॒ इन्नो᳚ अव्याः ॥
▶ पदपाठः (Word-by-word)
वि॒श्व॑व᳚सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज᳚सः । वि॒॑मानः᳚ ।
यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः᳚ । हि॒न्वा॒नः । धियः᳚ । इत् । नः॒ । अ॒व्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वावसुर्गन्धर्वो नोऽस्माकं तदभि गृणातु। अभिमुखं ब्रवीतु। गॄशब्दे। क्रैयादिकः। प्वादित्वाद्ध्रस्वः। कीदृशः। दिवो दिवि भवः तथा रजस उदकस्य विमानो निर्माता। किं पुनस्त्तत्। यद्वा घ यच्च खलु सत्यमवितथं यथार्थफलं कर्मजातम्। उतशब्दश्चार्थे। यच्च न विद्म न जानीमः तदुभयं ब्रवीत्वित्यर्थः। ऋचि तुनुघेत्यादिना घशब्दस्य सांहितिको दीर्घः। शिष्टः पादः प्रत्यक्षकृतः। हे विश्वावसो धियः कर्माणि हिन्वानः सोमेन प्रवर्धयन्। हि गतौ वृद्धौ च। यद्वा। धियः स्तुतीर्हिन्वानः प्राप्नुवन्नोऽस्माकं धिय इत्कर्माण्येव बुद्धीरेव वाव्याः। रक्ष॥५॥

10.139.6
सस्नि᳚मविन्द॒च्चर᳚णे न॒दीना॒मपा᳚वृणो॒द्दुरो॒ अश्म᳚व्रजानाम् ।
प्रासां᳚ गन्ध॒र्वो अ॒मृता᳚नि वोच॒दिन्द्रो॒ दक्षं॒ परि᳚ जानाद॒हीना᳚म् ॥
▶ पदपाठः (Word-by-word)
सस्नि᳚म् । अ॒वि॒न्द॒त् । चर᳚णे । न॒दीना᳚म् । अप᳚ । अ॒वृ॒णो॒त् । दुरः᳚ । अश्म᳚॑व्रजानाम् ।
प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता᳚नि । वो॒च॒त् । इन्द्रः᳚ । दक्ष᳚म् । परि᳚ । जा॒ना॒त् । अ॒हीना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सस्निमद्भिः संस्नातं प्रकर्षेण सर्वस्य जगतः स्नापयितारं मेघम्। स्नाशौचे। आदृगमहन इति किन्प्रत्ययः। लिड्वद्भावाद्द्विर्वचनम्। नदीनां शब्दकारिणीनामपां चरणे सञ्चरणस्थानेऽन्तरिक्षेऽविन्दत्। इन्द्रोऽलभत। लब्ध्वा चाश्मव्रजानाम्। अश्मा व्याप्तो मेघः तत्र व्रजन्तीनाम्। यद्वा। मेघो व्रजो गोष्ठं निवासस्थानं यासां तादृशीनां अपाम्। दुरो द्वारानि मेघान्निर्गमनप्रदेशानपावृणोत्। अपावृतवान्। यद्वा। अश्मसु शिलासु व्रजन्तीनां गच्छन्तीनाम् व्याप्तगमनानां वा नदीनां गङ्गायमुनादीनां चरने सञ्चरणे प्रवहणननिमित्तभुते सति तदर्थमिन्द्रः सस्निं मेघमविन्दत्। अलभत। लब्ध्वा चान्तर्गतानामपां निर्गमनसाधनानि मेघस्य दुरो द्वारान्यपावृणोत्। अपावतवान्। तथासां नदीनाममृतान्यमरणसाधकान्युदकानि गन्धर्वो गोर्वज्रस्य धर्ता विश्वावसरूपेण वर्तमान इन्द्रः प्र वोचत्। प्रब्रवीति। प्रवोढुमनुजानाति। तथा दक्षम्। दक्षत्युदकं प्रयच्छतीति दक्षो वर्षनसमर्थो मेघः। तादृशं मेघमहीनां मेघानां मध्ये परिजानात्। परितः सर्वतो जानाति। ज्ञा अवबोधने। लेट्यडागमः। ज्ञाजनोर्जेति जादेशः॥६॥