प्रावो᳚ दे॒वा{4} आति᳚रो॒ दास॒मोजः᳚ प्र॒जायै᳚ त्वस्यै॒ यदशि᳚क्ष इन्द्र ॥
पदपाठः (Word-by-word)
प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास᳚म् । ओजः᳚ । प्र॒॑जायै᳚ । त्व॒स्यै॒ । यत् । अशि᳚क्षः । इ॒न्द्र॒ ॥
सायणभाष्यम् (Sayana Commentary)
तां सु त इति षडृचं द्वादशं सूक्तं वामदेवगोत्रस्य बृहदुक्थस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम्। तां सु षड् बृहदुक्थो वामदेव्य इति। स मूढस्य दशरात्रस्य द्वितीये छन्दोम एतत्सूक्तम् । सूत्रितं च। अपूर्व्या पुरु तमानि तां सु ते कीर्तिं महा इन्द्र। आ. ८-७। इति। महाव्रते निष्केवल्य एतत्सूक्तम्। सूत्रितं च। तां सु ते कीर्तिं मघवन्महित्वा भूय इद्वावृधेवीर्याय। ऐ. आ. ५-१-६। इति॥
हे इन्द्र मघवन् धनान् ते तव सम्बन्धिनीं महित्वा महत्त्वेनागतां कीर्त्गिं सु सुष्ठु कीर्तयामीति शेषः। किञ्च यद्यदा त्वा त्वां प्रति भीते असुरैर्भयं प्राप्ते रोदसी द्यावापृथिव्यावह्वयेतां अवेत्यब्रूतां तदानीं देवान्प्रावः। प्रारक्षः। तथा दासं देवानामुपक्षयकर्तारमसुरमातिरः। व्यनाशयः। असुरान् हत्वा देवानां रक्षणेन द्यावापृथिव्योर्भीतिं पर्यहर इति यदस्ति किञ्च त्वस्या एकस्यै प्रजायै यजमानरूपायै यद्बलमशिक्षः प्रायच्छः तां कीर्तिं कीर्तयामीत्यर्थः॥१॥