दशमं मण्डलम् - सूक्तम् 123

8 ऋचः

ऋषिः: वेनः देवता: वेनः छन्दः: त्रिष्टुप्

सूक्तम् 10.123 - सम्पूर्णम्

1 / 8
ऋक्: 10.123.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.123.1
अ॒यं वे॒नश्चो᳚दय॒त्पृश्नि᳚गर्भा॒ ज्योति᳚र्जरायू॒ रज᳚सो वि॒माने᳚ ।
इ॒मम॒पां सं᳚ग॒मे सूर्य᳚स्य॒ शिशुं॒ न विप्रा᳚ म॒तिभी᳚ रिहन्ति ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि᳚॑गर्भाः । ज्योतिः᳚॑जरायुः । रज᳚सः । वि॒॑माने᳚ ।
इ॒मम् । अ॒पाम् । स॒म्॑ग॒मे । सूर्य᳚स्य । शिशु᳚म् । न । विप्राः᳚ । म॒ति॑भिः᳚ । रि॒ह॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं वेन इत्यष्टर्चमेकादशं सूक्तं भार्गवस्य वेनस्यार्षं त्रैष्टुभम्। वेनो देवता। तथा चानुक्रान्तम्। अयं वेनो वैन्यमिति। प्रवर्ग्येऽभिष्टव आद्यानुवक्तव्या। सूत्रितम्। स्रक्वे द्रप्सस्यायं वेनश्चोदयत्पृश्निगर्भाः। आ. ४-६। इति। वैश्वदेवशस्त्रेऽप्यषा धाय्या। सूत्रितं च। तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः। आ. ५-१८। इति॥

वेनः कान्त एतत्संज्ञो मध्यस्थानो देवो ज्योतिर्जरायुः। ज्योतिर्द्योतमानो मेघो जरायुः। उदरे बर्घो येन वेष्टितोऽवतिष्ठते तज्जरायु। तदिव वेष्टको यस्य स तथोक्तः। मेघमध्ये गर्भवदवस्थित इत्यर्थः। मिमाने। मिमीयन्ते निर्मीयन्तेऽस्मिन्नाप इति मिनानमन्तरिक्षम्। रजस उदकस्य निर्मातर्यन्तरिक्षे स्थितः सन्नयं वेनः पृश्निगर्भाः। पृश्निरादित्यः तस्य गर्भभूताः। यद्वा पृश्नयः सप्तोज्ज्वलवर्णाः सूर्यरश्मयः। तेषां गर्भभूताः अन्तरिक्षस्था अपश्चोदयत्। पृथिवीं प्रति प्रेरयति। अपामुदकानामान्तरिक्ष्याणां सूर्यस्य च सङ्गमे सङ्ग्मनेन्ऽतरिक्षे स्थितमिमं वेनं विप्रा मेधाविनः सोतारो मतिभिः स्तुतिभी रिहन्ति। रिहतिरर्चतिकर्मा। अर्चन्ति। पूजयन्ति। स्तुवन्तीत्यर्थः। शिशुं न। यथा बालं पुत्रं मातापित्राद्या बान्धवाः स्तुतिपदैरुपलालयन्ति तद्वत्॥१॥

10.123.2
स॒मु॒द्रादू॒र्मिमुदि᳚यर्ति वे॒नो न᳚भो॒जाः पृ॒ष्ठं ह᳚र्य॒तस्य᳚ दर्शि ।
ऋ॒तस्य॒ साना॒वधि᳚ वि॒ष्टपि॒ भ्राट् स᳚मा॒नं योनि᳚म॒भ्य᳚नूषत॒ व्राः ॥
▶ पदपाठः (Word-by-word)
स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒॑जाः । पृ॒ष्ठम् । ह॒र्य॒तस्य᳚ । द॒र्शि॒ ।
ऋ॒तस्य᳚ । सानौ᳚ । अधि᳚ । वि॒ष्टपि᳚ । भ्राट् । स॒मा॒नम् । योनि᳚म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्मिन्नेवाभीष्टवे समुद्रादूर्मिमित्येषा। सूत्र्यते हि। समुद्रादूर्मिमुदियर्ति वेनो द्रप्सः समुद्रमभि यज्जिगति। आ. ४-७। इति॥

समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मादूर्मिं जलसमूहमयं वेन उदियर्ति। उद्गमयति। अधः पातयतीत्यर्थः। कीदृशः। नभोजाः। नभस्याकाशे.......। इमं वेनमभि शब्दायन्ते। नु स्तुतौ। कुटादिः। छान्दसो लङ्।।२॥

10.123.3
स॒मा॒नं पू॒र्वीर॒भि वा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य᳚ मा॒तर॒ः सनी᳚ळाः ।
ऋ॒तस्य॒ साना॒वधि᳚ चक्रमा॒णा रि॒हन्ति॒ मध्वो᳚ अ॒मृत᳚स्य॒ वाणी᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । पू॒र्वीः । अ॒भि । वा॒व॒शा॒नाः । तिष्ठ᳚न् । व॒त्सस्य᳚ । मा॒तरः᳚ । स॑नी᳚ळाः ।
ऋ॒तस्य᳚ । सानौ᳚ । अधि᳚ । च॒क्र॒मा॒णाः । रि॒हन्ति᳚ । मध्वः᳚ । अ॒मृत᳚स्य । वाणीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वीर्बह्व्यः समानम् वेनस्यात्मनश्च साधारणम् स्थानं प्राप्याभि वावशाना अभितः शब्दायमानाः। यद्वा। तमेव वेनमभिकामयमानाः। वत्सस्य वत्सस्थानीयस्य वैद्युताग्नेर्मातरो मातृभूताः सनीळाः समाननिलयाः एवं विधा आन्तरिक्ष्या आपस्तिष्ठन्। तिष्ठन्ति। अपि चर्तस्योदकस्य सानावधि सानौ समुच्छ्रितेऽन्तरिक्षस्थाने चक्रमाणाः प्रवर्तमाना मध्वो मधुरस्यामृतस्योदकस्य वाणीर्वाण्यः शब्दारिहन्ति। इमं वेनमर्चन्ति। अलङ्ग्कुर्वन्तीत्यर्थः॥३॥

10.123.4 समानपद
जा॒नन्तो᳚ रू॒पम᳚कृपन्त॒ विप्रा᳚ मृ॒गस्य॒ घोषं᳚ महि॒षस्य॒ हि ग्मन् ।
ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु᳚मस्थुर्वि॒दद्ग᳚न्ध॒र्वो अ॒मृता᳚नि॒ नाम᳚ ॥
▶ पदपाठः (Word-by-word)
जा॒नन्तः᳚ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः᳚ । मृ॒गस्य᳚ । घोष᳚म् । म॒हि॒षस्य᳚ । हि । ग्मन् ।
ऋ॒तेन᳚ । यन्तः᳚ । अधि᳚ । सिन्धु᳚म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता᳚नि । नाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रा मेधाविनः स्तोतारोऽस्य वेनस्य रूपं जानन्तोऽकृपन्त। स्तुवन्ति। क्रुपतिः स्तुतिकर्मा। कथमस्य रूपं जानन्तीत्यत आह। मृगस्यान्वेषणीयस्य महिषस्य। महन्नामैतत्। महतो वेनस्य घोषं गर्जितलक्षनम् मेघस्थं शब्दं हि यस्माद्ग्मन् अभिगच्छन्ति आतस्तदीयम् रूपं जानन्तीत्यर्थः। गमेश्छान्दसे लङि बहुलं छन्दसीति शपो लुक्। गमहनेत्युपधालोपः। बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः। अपि चर्तेन सत्यभुतेन स्तोत्रेण यज्ञेन वा यम्तस्तं वेनं गच्छन्तः प्राप्नुवन्तो जनाः सिन्धुं स्यन्दनशीलं जलसमूहमध्यस्तुः। अथितिष्ठन्ति। तेषां स वेनो वृष्टिं करोतीत्यर्थः। तत्र किं कारणमिति चेत् यतोऽयं गन्धर्वो गवामुदकानां धर्ता वेनोऽमृतान्यमरनहेतुभूतानि नाम। उदकनामैतत्। नमनशीलान्युदकानि विदत् वेद जानाति। तस्य वशे वर्तन्त इत्यर्थः। अतस्तद्भक्तानां वृष्टिः सुलभा॥४॥

10.123.5
अ॒प्स॒रा जा॒रमु᳚पसिष्मिया॒णा योषा᳚ बिभर्ति पर॒मे व्यो᳚मन् ।
चर᳚त्प्रि॒यस्य॒ योनि᳚षु प्रि॒यः सन्त्सीद᳚त्प॒क्षे हि᳚र॒ण्यये॒ स वे॒नः ॥
▶ पदपाठः (Word-by-word)
अ॒प्स॒राः । जा॒रम् । उ॒प॒॑सि॒ष्मि॒या॒णा । योषा᳚ । बि॒भ॒र्ति॒ । प॒र॒मे । वि॑ओ᳚मन् ।
चर᳚त् । प्रि॒यस्य᳚ । योनि᳚षु । प्रि॒यः । सन् । सीद᳚त् । प॒क्षे । हि॒र॒ण्यये᳚ । सः । वे॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्सरा अपां सारयित्र्यप्सु क्रीडार्थं सरन्ती वोपसिष्मियाणा कान्तसमीपमुपगत्येषद्धसन्ती। स्मिङ् ईषद्धसने। छान्दसो लिट्। तस्य लिटः कानज्वेति कानच्। ईदृशी योषा स्त्रीविद्युद्रूपा जारमपां जारयितारम्। यद्वा। जार उपपतिः। स इव प्रियम् । इमं वेनं परम उत्कृष्टे व्योमन् व्योमन्यन्तरिक्षे बिभर्ति। पोषयति। धारयति वा। यथा काचिद्रूपवती योषिज्जारमुपगम्येषद्धसन्ती तं निर्जने स्थले पुष्णाति तद्वदनेन वेनेन विद्युद्रमत इत्यर्थः। प्रियस्यास्य वेनस्य योनिषु स्थानेषु चरत्। विद्युद्रूपा योषिच्चरति गच्छति। अभिसारिकावृत्त्या स्वयमेव गच्छति। स च वेनः प्रियोऽस्या अनुकूलतमः सन् हिरण्यये हिरण्मये हिरण्मयवद्भास्वर्वे हितरमणीयरूपे वा पक्ष आत्मनः पक्षभूते मेघे सीदत्। सीदति। तया सहोपविशति॥५॥

10.123.6
नाके᳚ सुप॒र्णमुप॒ यत्पत᳚न्तं हृ॒दा वेन᳚न्तो अ॒भ्यच᳚क्षत त्वा ।
हिर᳚ण्यपक्षं॒ वरु᳚णस्य दू॒तं य॒मस्य॒ योनौ᳚ शकु॒नं भु᳚र॒ण्युम् ॥
▶ पदपाठः (Word-by-word)
नाके᳚ । सु॒॑प॒र्णम् । उप᳚ । यत् । पत᳚न्तम् । हृ॒दा । वेन᳚न्तः । अ॒भि । अच᳚क्षत । त्वा॒ ।
हिर᳚ण्य॑पक्ष᳚म् । वरु᳚णस्य । दू॒तम् । य॒मस्य᳚ । योनौ᳚ । श॒कु॒नम् । भु॒र॒ण्युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिष्टवे नाके सुपर्णमित्येषा। सूत्रितं च। नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेत्। आ. ४-७। इति॥

हे वेन त्वा त्वां हृदा हृदयेन मनसा वेनन्तः कामयमानाः स्तोतारो नाकेऽन्तरिक्षे यद्यदाभ्यचक्षत अभिपश्यन्ति तदानीं त्वमुप आगच्छसीति शेषः। कथं भुतम्। सुपर्णं शोभनपतनं पतन्तमन्तरिक्षे गच्छन्तं हिरण्यपक्षं हिरण्मयाभ्यां पक्षाभ्यामुपेतं वरुणस्य जलाभिमानिनो देवस्य दूतं चारम् यमस्य नियामकस्य वैद्युताग्नेर्योनौ स्थानेऽन्तरिक्षे शकुनं पक्षिरूपेण वर्तमानं भुरण्यं भर्तारम्। यद्वा। वृष्टि प्रदानादिन्दा सर्वस्य जगतः पोषकम्। भुरन धारनपोषणयोः। कण्ड्वादिः। अस्मादौणादिक उप्रत्ययः॥६॥

10.123.7
ऊ॒र्ध्वो ग᳚न्ध॒र्वो अधि॒ नाके᳚ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र᳚द॒स्यायु᳚धानि ।
वसा᳚नो॒ अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॒᳚र्ण नाम᳚ जनत प्रि॒याणि᳚ ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि᳚ । नाके᳚ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र᳚त् । अ॒स्य॒ । आयु᳚धानि ।
वसा᳚नः । अत्क᳚म् । सु॒॑र॒भिम् । दृ॒शे । कम् । स्वः᳚ । न । नाम᳚ । ज॒न॒त॒ । प्रि॒याणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्ध्व उपरिदेशे वर्तमानो गन्धर्वो गवामुदकानां धर्ता। गवि गन् धृञो व इति गोशब्दोपपदाद्धृञ् धारन इत्यस्माद्वप्रत्य्त्य उपपदस्य गन्भावश्च। ईदृशो वेनः प्रत्यङ्ङस्मत्प्रत्यञ्चनोऽभिमुखः सन्नाकेऽध्यन्तरिक्षेऽस्थात्। तिष्थति। किं कुर्वन्। अस्यात्मनः स्वभुतानि चित्रा चित्राणि चारनीयान्याश्चर्यभुतानि वायुधानि बिभ्रद्धारयन्। बिभर्तेः शतरि भृञामिदित्यभ्यासस्येत्वम्। नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। तथा सुरभिं शोभनमत्कमात्मीयं व्याप्तं रूपं वसानः सर्वत्राच्छादयन्। किमर्थं दृशे दर्शनार्थम्। दृशे विख्ये चेति केप्रत्य्त्यान्तो निपात्यते। कमिति पूरणः। तत्र दृष्टान्तः। स्वर्ण। स्वः शोभनारन आदित्यः। स यथात्मीयं रूपं दर्शनाय सर्वत्राच्छादयति तद्वत्। तदनन्तरं नाम नामानि नमनशीलान्युदकानि प्रियाणि सर्वेषामनुकूलानि जनत। जनयति। वृष्टिमुत्पादयतीत्यर्थः॥७॥

10.123.8
द्र॒प्सः स᳚मु॒द्रम॒भि यज्जिगा᳚ति॒ पश्य॒न्गृध्र᳚स्य॒ चक्ष᳚सा॒ विध᳚र्मन् ।
भा॒नुः शु॒क्रेण᳚ शो॒चिषा᳚ चका॒नस्तृ॒तीये᳚ चक्रे॒ रज᳚सि प्रि॒याणि᳚ ॥
▶ पदपाठः (Word-by-word)
द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा᳚ति । पश्य᳚न् । गृध्र᳚स्य । चक्ष᳚सा । वि॑ध᳚र्मन् ।
भा॒नुः । शु॒क्रेण᳚ । शो॒चिषा᳚ । च॒का॒नः । तृ॒तीये᳚ । च॒क्रे॒ । रज᳚सि । प्रि॒याणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्येऽभिष्तवे द्रप्सः समुद्रमित्येषा। सुत्रितं च। द्रप्सः समुद्रमभियज्जिगाति सखे सखायमभ्या ववृत्स्व। आ. ४-७। इति।

विधर्मन्विधर्मणि विधारकेऽन्तरिक्षे स्थितो द्रप्सो द्रवनशीलः। यद्वा। द्रप्सा उदकबिन्दवः। तद्वान्। अर्श आदित्वादच्। गृध्रस्य गृधो रसानभिकाङ्क्षतः सूर्यस्य चक्षसा तेजसा पश्यन् प्रकाशमानो वेनो यद्यदा समुद्रं समुन्दनशीलं मेघमभिजिगाति अभिगच्छति तदानीं भानुः सूर्यः शुक्रेण शुभ्रेण शोचिषा तेजसा तृतीये रजसि लोके चकानो दीप्यनामः प्रियाणि सर्वेषामभीष्टान्युदकानि चक्ते। करोति॥८॥